Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 142
________________ विधिः, किट्टीकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्धामुपरितनस्थितिगतं दलिकं गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्येयगुणवृद्धिलक्षणेन सब्ज्वलने माने प्रक्षिपति, तृतीयकिट्टिवेदनाद्धायाश्चरमसमये सज्ज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धं मुक्तत्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात्, ततो मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन मानगुणसङ्क्रमेण सङ्क्रमयन् चरमसमये सर्व सङ्क्रमयति, मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेष : ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य क्रोधशेषस्येव माने मायायां प्रक्षिप्तत्वात्, ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तमात्रं, सवलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि च प्रथमकिट्टिदुलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मायाया द्वितीयकिट्टिदुलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामात्रं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसङ्क्रमेण लोभे प्रक्षिप्तत्वात्, ततो लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, सञ्जवलनमायायाश्च बन्धादौ व्यवच्छिन्ने स तस्या दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण लोभे सर्वं सङ्क्रमयति, सज्ज्वलन लोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामात्रं शेषं जातं, ततो लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलि - कामात्रं शेषः, तस्मिन्नेव च समये सब्ज्वलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदो ऽनिवृत्तिबादर सम्परायगुणस्थानककालव्यवच्छेदश्च युगपज्जायते, ततः सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्पराय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसङ्क्रमेण सङ्क्रमयति, प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदुलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः सङ्ख्येया भागा गता भवन्ति एकोऽवशिध्यते, ततस्तस्मिन् सङ्ख्येये भागे सञ्ज्वलनलोभं सर्वापवर्तनयाऽपवर्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धा अद्याप्यन्तर्मूहूर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः शेषकर्मणां तु प्रवर्तन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्रं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावञ्चरमसमय:, तस्मिंश्च चरमसमये ज्ञानावरणपश्वक दर्शनावरणचतुष्कयशः कीर्त्यचै गोत्रान्तरायपश्वकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते यावत्क्षीणकषायाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकः सङ्ख्येयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपभ्वक दर्शनावरणचतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यं, सा च क्षीणकषायाचा अद्याप्यन्तमुहूर्त्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्ताव गतो यावत्समयाधिकावलिकामात्रं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामात्रं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमय:, तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥ ६९४ ।। अथैनां गाथां प्रतिपदं स्वयमेव सूत्रकृद्व्याख्याति - 'कोहो' इत्यादि गाथाद्वयं, क्रोधो मानो माया लोभ इत्येताननन्तानुबन्धिनश्चतुरः कषायान् युगपत्क्षपयित्वा‘संढो’त्ति नपुंसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्रं सम्यक्त्वं च क्रमेणान्तर्मुहूर्तेन क्षपयति, सर्वत्रापि च क्षपणा कालोऽन्तर्मुहूर्तमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमात्र एव, अन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् ॥ ६९५ ॥ ततोऽप्रत्याख्यानप्रत्याख्यानावरणान् अष्टौ कषायान् 'सममपि' युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुंवेदस्य बन्धो व्यवच्छिद्यते, तच्च क्षपयित्वाऽनन्तरं क्षपयति समं - युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः ।। ६९६ ॥ ता एवाह - 'हासे' त्यादि, हास्यरत्यरति पुंवेदशोक 133

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310