________________
विधिः, किट्टीकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्धामुपरितनस्थितिगतं दलिकं गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्येयगुणवृद्धिलक्षणेन सब्ज्वलने माने प्रक्षिपति, तृतीयकिट्टिवेदनाद्धायाश्चरमसमये सज्ज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धं मुक्तत्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात्, ततो मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन मानगुणसङ्क्रमेण सङ्क्रमयन् चरमसमये सर्व सङ्क्रमयति, मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेष : ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य क्रोधशेषस्येव माने मायायां प्रक्षिप्तत्वात्, ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तमात्रं, सवलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि च प्रथमकिट्टिदुलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मायाया द्वितीयकिट्टिदुलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत् समयाधिकावलिकामात्रं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसङ्क्रमेण लोभे प्रक्षिप्तत्वात्, ततो लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, सञ्जवलनमायायाश्च बन्धादौ व्यवच्छिन्ने स तस्या दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण लोभे सर्वं सङ्क्रमयति, सज्ज्वलन लोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामात्रं शेषं जातं, ततो लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलि - कामात्रं शेषः, तस्मिन्नेव च समये सब्ज्वलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदो ऽनिवृत्तिबादर सम्परायगुणस्थानककालव्यवच्छेदश्च युगपज्जायते, ततः सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्पराय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसङ्क्रमेण सङ्क्रमयति, प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदुलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः सङ्ख्येया भागा गता भवन्ति एकोऽवशिध्यते, ततस्तस्मिन् सङ्ख्येये भागे सञ्ज्वलनलोभं सर्वापवर्तनयाऽपवर्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धा अद्याप्यन्तर्मूहूर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः शेषकर्मणां तु प्रवर्तन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्रं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावञ्चरमसमय:, तस्मिंश्च चरमसमये ज्ञानावरणपश्वक दर्शनावरणचतुष्कयशः कीर्त्यचै गोत्रान्तरायपश्वकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्तन्ते यावत्क्षीणकषायाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकः सङ्ख्येयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपभ्वक दर्शनावरणचतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यं, सा च क्षीणकषायाचा अद्याप्यन्तमुहूर्त्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्ताव गतो यावत्समयाधिकावलिकामात्रं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामात्रं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमय:, तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥ ६९४ ।। अथैनां गाथां प्रतिपदं स्वयमेव सूत्रकृद्व्याख्याति - 'कोहो' इत्यादि गाथाद्वयं, क्रोधो मानो माया लोभ इत्येताननन्तानुबन्धिनश्चतुरः कषायान् युगपत्क्षपयित्वा‘संढो’त्ति नपुंसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्रं सम्यक्त्वं च क्रमेणान्तर्मुहूर्तेन क्षपयति, सर्वत्रापि च क्षपणा कालोऽन्तर्मुहूर्तमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमात्र एव, अन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् ॥ ६९५ ॥ ततोऽप्रत्याख्यानप्रत्याख्यानावरणान् अष्टौ कषायान् 'सममपि' युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुंसकवेदक्षयसमकालमेव च पुंवेदस्य बन्धो व्यवच्छिद्यते, तच्च क्षपयित्वाऽनन्तरं क्षपयति समं - युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः ।। ६९६ ॥ ता एवाह - 'हासे' त्यादि, हास्यरत्यरति पुंवेदशोक
133