________________
भयजुगुप्साख्या इमाः सप्त, तदनन्तरं सञ्ज्वलनक्रोधं ततः सञ्ज्वलनं मानं ततः सव्ज्वलनां मायां ततः सब्ज्वलनं लोभं च क्षपयतीति योगः, लोभस्य त्वयं विशेष: ।। ६९७ ।। 'तो किट्टी' गाहा, लक्ष्णीकृतानि ततो- मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्ख्येयानि किट्टीकृतानि क्षपयित्वा सकलमोहक्षयात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति, इदं च लोभकिट्टिकरणं लोभेन श्रेणि प्रतिपन्नस्य द्रष्टव्यं, यदा तु क्रोधेन श्रेणि प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणां मायया च मायालोभयोः किट्टीकरणं ज्ञेयमिति ।। ६९८ ।। अयं च क्षपणाक्रमः सूत्रे नपुंसकं क्षपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेष:- 'नवर' मित्यादि, नवरं - केवलं स्त्री क्षपिका पूर्व नपुंसक वेदं क्षपयति, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुंवेदस्य बन्धव्यवच्छेदः, ततोऽवेदकः पूर्वोक्ताः पुंवेदहास्यादिषटुरूपाः सप्त प्रकृतीर्युगपत्क्षपयति, शेषं तथैव यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुंसक वेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं क्षपयित्वा पञ्चात्स्ववेदं पुंवेदं क्षपयति, शेषं तथैवेति ८९ ॥ ६९९ ॥ सम्प्रति 'उवसमसेढि चि नवतितमं द्वारमाहअणदंसनपुंसित्थीवेयछकं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ ७०० ॥ कोहं माणं मायं लोभमणंताणुबंधमुवसमइ । मिच्छन्तमिस्ससम्मत्तरुवपुंजत्तयं तयणु ॥ ७०१ ॥ इत्थिनपुंसगवेए तत्तो हासाइछकमेयं तु । हासो रई य अरई य सोगो य भयं दुगुंछा य ॥ ७०२ ॥ तो पुंवेयं तत्तो अप्पचक्खाणपञ्चखाणा य । आवरणकोहजुयलं पसमइ संजलणकोहंपि ॥ ७०३ ॥ एयक्कमेण तिनिवि माणे माया उ लोह तियगंपि । नवरं संजलणाभिहलोहतिभागे इय विसेसो ॥ ७०४ ॥ संखेयाई किट्टीकयाई खंडाई पसमइ कमेणं । पुणरवि चरिमं खंड असंखखंडाई काऊण ॥ ७०५ ॥ अणुसमयं एक्केकं उवसामह इह हि सत्तगोवसमे । होइ अपु ततो अनियही होइ नपुमाइ ॥ ७०६ ॥ पसमंतो जा संखेयलोहखंडाओ चरिमखंडस्स । संखाईए खंडे पसमंतो सुडुमराओ सो ॥ ७०७ ॥ इय मोहोवसमम्मि कयम्मि उवसंतमोहठाणं । सङ्घट्टसिद्धिहेऊं संजायह वीयरायाणं ॥ ७०८ ॥
इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयतदेश विरताविरतानामन्यतमो भवति, अन्ये त्वाद्दुः-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः, तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्मशुकुलेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तर्मुहूर्त यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृती: शुभा एव बध्नाति नाशुभाः, प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासत्येय भागहीनं करोति, पूर्णे चान्तर्मुहूर्ते क्रमेण यथाप्रवृत्तकरणापूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि करणानि करोति, चतुर्थी तूपशान्ताद्धां, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमन्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं वध्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते, तद्यथा - प्रथमसमये स्तोकं द्वितीयसमये ततोऽसंख्यातगुणं तृतीयसमयेऽपि ततोऽसङ्ख्येयगुणं यावदन्तर्मुहूर्तेन साकल्यतो ऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्यामिषिच्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिर्वृत्तिकरणरूपद्रुघणनिकुट्टितः सङ्क्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये तु अनन्तानुबन्धिनामुपशमनां न मन्यन्ते, किन्तु विसंयोजनां क्षपणां, सा च प्रागेवोक्ता, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रयनिर्वर्तनेन विशुद्ध्या वर्धमानोऽनिर्वृत्तिकरणाद्धाया असङ्ख्येयेषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तमानां स्थापयति मिध्यात्वमिश्रयोश्वावलिकामात्रं, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिध्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिध्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरणगुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्ध्य ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च सङ्खयेयेषु भागेषु गतेषु दर्शन सप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य सज्वलनस्य च उदयोऽस्ति तयोः स्वोदयकालमानां प्रथमस्थितिं करोति, शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रं, वेदत्रिकसज्ज्वलनचतु
134