________________
ष्कोदयकालमानं अन्तरकरणगतदलिकप्रक्षेपस्वरूपं च प्रन्थविस्तरभयान्न लिख्यते, अन्तरकरणं च कृत्वा ततो नपुंसक वेदमन्तर्मुहूर्तेनोपशमयति, तथाहि--प्रथमसमये स्तोकं द्वितीयसमये ततोऽसङ्ख्येयगुणं एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति यावञ्चरमसमयः, परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसत्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये तूपशम्यमानं दलिकं परप्रकृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यं, उपशान्ते च नपुंसकवेदे स्त्रीवेदं प्रागुक्तविधिनाऽन्तर्मुहूर्तेनोपशमयति, ततोऽन्तर्मुहूर्तेन हास्यादिषट्कं तस्मिंश्चोपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सकलमपि पुंवेदमुपशमयति, ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौं, तदुपशान्तौ च तत्समयमेव सज्ज्वलनक्रोधस्य बन्धोद -' योदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सब्ज्वलनक्रोधमुपशमयति, ततोऽन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव सज्ज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्ज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सञ्ज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा - अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टीवेदनाद्धा च तत्राद्ययोर्द्वयोस्त्रिभागयोर्वर्तमानः सञ्ज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपान् युगपदुपशमयितुमारभते, विशुद्ध्या वर्धमानश्चापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च प्रागेवोक्तः, सज्ज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति, किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशमयति, तदुपशान्तौ च तत्समयमेव सब्ज्वलनलोभबन्धव्यवच्छेदो बादरसब्ज्वलन लोभोदयोदीरणाव्यवच्छेदश्व, ततोऽसौ सूक्ष्मसम्परायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थितिं सूक्ष्मसम्परायाद्धातुल्यां करोति वेदयते च, सूक्ष्मसम्परायाद्धा चान्तर्मुहूर्तमाना, शेषं च सूक्ष्मं किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सब्ज्वलनलोभ उपशान्तो भवति, ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्तं यावल्लभ्यते, तत ऊर्द्ध नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेण अद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ताद्धायां समाप्तायां, अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्धाक्षयेण आरभ्यन्ते इतियावत् प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं, कश्चित्पुनस्ततोऽयधस्तनं गुणस्थानकद्विकं याति कोऽपि सासादनभावमपि यः पुनर्भवक्षयेण प्रतिपतति स नियमादनुत्तर विमानवासिषूत्पद्यते, उत्पनश्च प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीत्येष विशेषः, उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपक श्रेण्यभावः, यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीत्येष कार्मप्रन्थिकामिप्रायः, आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते, तदुक्तम् — 'मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ १ ॥” इति ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं सम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं तेषामुपशमो भण्यते ?, तदसत्, पूर्व हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते, ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोर्विशेषः ? येनैवमुच्यते पूर्व क्षयोपशम आसीनोपशम इति, सत्यं, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलं, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि - मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाञ्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात्, अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति । अथ गाथाक्षरार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण'त्ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिध्यात्वमिश्रसम्यक्त्वस्वरूपं पुञ्जत्रयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सालक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यैौ एकान्तरितौ-सज्वलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादित्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः, अयमर्थ:-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधयुगलं युगपत् प्रशमयति, ततः सज्वलनक्रोधमित्यादि । ७०० ॥ अथैनां गाथां स्वयमेव सूत्रकृद्व्याख्याति'कोहं' गाहा, गतार्थ, 'इत्थी' गाहा सुगमा, नवरं दर्शनत्रयोपशमानन्तरं नपुंसक वेदस्त्री वेदौ युगपदुपशमयति, अयं च नपुंसक वेदेन
135