________________
श्रेणिं प्रतिपन्नस्य क्रम उक्तः, इहार्य सम्प्रदायः-स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदूरं यावन्नपुंसकवेदेनापि श्रेणि प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्द्ध पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितुं लग्नः, स च तावद्गतो यावन्नपुंसकवेदोदयाद्धाया द्विचरमसमयः, तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसकवेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तं, तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुप. शमयितुं यतते, शेषं तथैव, यदा तु स्त्रीवेदेन श्रेणिं प्रतिपद्यते तदा प्रथमतो नपुंसकवेदमुपशमयति, पश्चात् स्त्रीवेदं, तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः, तस्मिंश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितं, ततश्चरमसमये गतेऽवेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपदुपशमयति, शेषं तथैव, पुरुषवेदेन पुनः श्रेणिं प्रतिपद्यमानस्य स्वरूपं प्रथमगाथायामेवोक्तं ॥७०१ ॥ ७०२॥ 'तो वेयं गाहा, उत्तानार्था, 'एवेत्यादि अनेनैव क्रोधोपशमक्रमेण त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः, नवरं-केवलं सज्वलनाभिधलोभस्य त्रिभागे किट्टिवेदनाद्धालक्षणे लोभे इति-वक्ष्यमाणो विशेषः, तमेवाह ॥ ७०३ ॥ ७०४ ॥ 'संखेयाई' इत्यादि, गाथाचतुष्टयं, किट्टीकृतानि-लक्ष्णीकृतानि सज्वलनलोभखण्डानि सङ्ख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसङ्ख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकमुपशमयति ॥७०५॥७०६॥७०७॥ इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह-'इह ही'त्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धिचतुष्कदर्शनविकरूपसप्तकोपशमे कृते सति भवत्यपूर्व:-अपूर्वकरणगुणस्थानके वर्तत इत्यर्थः, ततः परं 'नपुमाइ'चि नपुंसकवेदादिप्रकृतीः प्रशमयन् यावत्सङ्ख्येयानि बादरलोभखण्डानि प्रशमयति तावदनिवृत्तिबादरो भवति, अनिवृत्तिबादरगुणस्थाने वर्तते इत्यर्थः, तदनु चरमस्य सूक्ष्मकिट्टीकृतखण्डस्य सङ्ख्यातीतानि-असङ्ख्येयानि खण्डानि प्रशमयन् सूक्ष्मसम्परायगुणस्थानके भवति, इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोहगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सजायते वीतरागाणामप्रतिपतितभावानामिति शेष इति ९० ॥ ७०८ ॥ इदानीं 'थंडिल्लाण चउवीस उसहस्से'त्ति द्वारमेकनवतितममाह
अणावायमसंलोए १, परस्साणुवघायए २। समे ३ अज्झुसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९॥ विच्छिन्ने ६ दूरमोगाढे ७, नासन्ने ८ बिलवजिए ९ । तसपाणबीयरहिए १०, उच्चारा
ईणि वोसिरे ॥ ७१०॥ अनापातमसंलोकं १ परस्य अनौपघातिकं २ समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्ण ६ दूरमवगाढे ७ अनासन्नं ८ बिलवर्जितं ९ सप्राणबीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत्, तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपात:-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षस्य वा यस्मिन् स्थण्डिले तदनापातं, न विद्यते संलोको-दर्शनं वृक्षादिच्छन्नत्वाद्यत्र परस्य तदसंलोकं, अत्र च चतुर्भङ्गी, तद्यथा-अनापातमसंलोकमिति प्रथमो भङ्गः अनापातं संलोकवदिति द्वितीयः आपातवदसंलोकमिति तृतीयः आपातवत् संलोकवञ्चेति चतुर्थः, अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः शेषास्तु प्रतिषिद्धाः, इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरूप्यते-तत्र. आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यं, तद्यथा-स्वपक्षापातवत् परपक्षापातवञ्च, स्वपक्षः-संयतवर्गः परपक्षो-गृहस्थादिः, स्वपक्षापातवदपि द्विविध-संयतापातवत् संयत्यापातवच्च, संयता अपि द्विविधाः-संविज्ञा असंविज्ञाश्च, संविज्ञा-उद्यतविहारिणः असंविज्ञाः-शिथिलाः पार्श्वस्थादयः, संविज्ञा अपि द्विविधा:-मनोज्ञा अमनोज्ञाश्च, मनोज्ञा-एकसामाचारिकाः अमनोज्ञाश्च-विमिन्नसामाचारिकाः, असंविज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्तसुसाधुसमाचारप्ररूपकाः असंविज्ञपाक्षिका-निर्धर्माणः सुसाधुजुगुप्सकाः, उक्तं च-तत्थांवायं दुविहं सपक्खपरपक्खओ य नायव्वं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥१॥ संविग्गमसंविग्गा संविग्गमणुन्नएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएयरा चेव ॥ २॥" परपक्षापातवदपि स्थण्डिलं द्विविध-मनुव्यापातवत् तिर्यगापातवञ्च, एकैकमपि त्रिविधं-पुरुषापातवत् ख्यापातवन्नपुंसकापातवच्च, तत्र मानुषपुरुषापातवत् त्रिविधं-दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवञ्च, दण्डिका-राजकुलानुगताः कौटुम्बिकाः-शेषा महर्द्धिकाः इतरे-प्राकृताः, ते च त्रयोऽपि प्रत्येकं द्विविधाः-शौचवादिनोऽशौचवादिनश्च, एवं ख्यापातवन्नपुंसकापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतत्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकै द्विविधमवसेयं, उक्तं च-"परपक्खेऽवि य दुविहं माणुसतेरिच्छगं च नायव्वं । एकेकपि च तिविहं पुरिसित्थिनपुंसकं चेव ।। १॥ पुरिसावायं तिविहं दण्डियकोडुबिए य पागइए। ते सोयऽसोयवाई एमेव नपुंसइत्थीसं ॥ २॥" अथ तिर्यगापातवत् कथ्यते-तत्र तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च, दृप्ता-दर्पवन्त: अदृप्ताः-शान्ताः, तेऽपि प्रत्येकं त्रिविधा:-जघन्या उत्कृष्टा मध्यमाश्च, जघन्या मूल्यमङ्गीकृत्य एडकादयः उत्कृष्टा हस्त्यादयः मध्यमा महीषादयः, एते किल पुरुषा उक्ताः, एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ता अदृप्ताश्च प्रत्येकं द्विधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च, जुगुप्सिता गर्दभ्यादयः इतरेऽजुगुप्सिताः, उक्तं च-"दित्तमदित्ता तिरिया जहन्नउक्कोसमज्झिमा तिविहा । एमेव थीनपुंसा दुगुंछिअदुगुंछिया नवरं ॥१॥" उक्तमापातवत्स्थण्डिलं, संलोकवत्पुनर्मनुष्येष्वेव द्रष्टव्यं, तेच मनुष्यात्रिविधा:-तद्यथा-पुरुषाः खियो नपुंसकाच, एकैके प्रत्येकं त्रिविधा:
136