________________
प्राकृताः कौटुम्बिका दण्डिकाश्च, ते पुनरेकैके द्विविधाः-शौचवादिनोऽशौचवादिनश्च, उक्तं च- आलोगो मणुएसुं पुरिसित्थीनपुंसगाण बोद्धव्वो। पागडकुडुंबिदंडिय असोय तह सोयवाईणं ॥ १॥ तत्रैवमापातसंलोको चरमभङ्गे तृतीये आपातो द्वितीये संलोक उक्तभेदप्रभेदयुक्तः । इदानीमेतेषु स्थण्डिलेषु गमने दोषाः प्रतिपाद्यन्ते-तत्र स्वपक्षसंयतसंविग्नामनोज्ञानामापाते सति न गन्तव्यं, अधिकरणदोषसम्भवात् , तथाहि-आचार्याणां परस्परं विभिन्नाः सामाचार्यः, ततोऽमनोज्ञानां सामाचारीवितथाचरणदर्शने सति शैक्षाणां स्वसामाचारीपक्षपातेन नैषा सामाचारीति कलहः स्यात् , असंविनानामपि पार्श्वस्थादीनामापाते न गन्तव्यं, ते हि प्रचुरेण पानीयेन पुतप्रक्षालनं कुर्वन्ति, ततस्तेषां कुशीलानां प्रचुरवारिणा पुतनिर्लेपकरणं दृष्ट्वा शैक्षकाणां शौचवादिनां मन्दधर्माणां च एतेऽपि प्रबजिता एवेति वरमेते इत्यनुकूलतया तेषां समीपे गमनं स्यात् , मनोज्ञानामापातेऽपि गमनं कर्तव्यं, संयत्यापातस्तु सर्वथाऽपि परिहर्तव्य इति स्वपक्षापातदोषाः, परपक्षापातेऽपि यदि पुरुषापातं स्थण्डिलं ब्रजति तदा नियमतोऽतिप्रचुरमनाविलं च जलं नेतव्यं, अन्यथाऽत्यल्पे कलुषे वा सर्वथा पानीयाभाव वा यदि गतो भवेत्ततस्ते दृष्ट्वा अशुचयोऽमी इत्यवर्णवादं विदध्युः,मा कोऽप्यनीपामशुचीनामन्नपानादि दद्यादिति भिक्षाप्रतिषेधं वा कुर्युः, अभिनवप्रवृत्तस्य च कस्यचित् श्रावकस्य विपरिणामो वा भवेदिति, स्त्रीनपुंसकापाते पुनरात्मनि परे तदुभयस्मिन् वा शङ्कादयो दोषा भवन्ति, तत्रात्मनि साधुः शङ्काविषयीक्रियते यथा एप किमप्युद्धामयति, परे स्त्री नपुंसको वा शक्यते यथैते पापकर्माण एनं साधु कामयन्ते इति, तदुभयस्मिन् यथा द्वावप्येतौ परस्परमत्र मैथुनार्थमागतो, तथा ख्यापाते नपुंसकापाते या स साधुरात्मपरोभयसमुत्थेन दोषेण स्त्रिया पण्डकेन वा सार्ध मैथुनं कुर्यात् तत्र च केनचिदागारिकेण दृष्ट्वा राजकुलादिष्वाकृष्येत ततः प्रवचनस्योडाह इत्यादि, दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः, गर्हिततिर्यकत्रीनपुंसकापाते पुनर्जनस्य मैथुनशङ्का स्यात् कदाचिच्च प्रतिसेवनामपि कुर्यादिति ॥ उक्ता आपाते दोषाः, एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः, तिरश्चां हि संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणां पुनः स्त्रीपुरुषनपुंसकानां संलोके ये आपाते दोषा उक्तास्त एव वेदितव्याः, अथ कदाचिदात्मपरोभयसमुत्था मैथुनदोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते-यथा केचिदेवमाहुर्यदुत ययैव दिशा उच्चारार्थमस्माकं युवतिवर्गो व्रजति तयैव दिशा एतेऽपि प्रत्रजिता ब्रजन्ति, तन्नूनमस्मदीयां कामपि कामिनी कामयमाना दत्तसङ्केता वा तदालोके तिष्ठन्ति, तथा नपुंसकः स्त्री वा स्वभावतो वातदोषेण वा विकृतं सागारिकं दृष्ट्वा तद्विषयाभिलाषमूर्छामापन्ना तं साधुमुपसर्गयेत् , तस्मात् त्रयाणामपि संलोको वर्जनीयः, तदेवं चरमभङ्गे आपातसंलोकदोषाः तृतीये आपातदोषाः द्वितीये च संलोकदोषा भवन्ति, प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यं, उक्तं च-"आवायदोस तइए बीए संलोगओ भवे दोसा । ते दोवि नत्थि पढमे तहिं गमणं भणियविहिणा उ ॥१॥" ११ तथा उपघात:-उड्डाहादि प्रयोजनमस्य तदोपघातिक स्थण्डिलं, तत् त्रिविधंआत्मौपघातिकं प्रवचनौपघातिक संयमौपघातिकं च, तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञां व्युत्सृजतो यतेस्तत्स्वामिनः सकाशात् पिट्टनादिप्रसङ्गः, प्रवचनौपघातिकं पुरीषस्थानं, तद्धि जुगुप्सितमशुच्यात्मकत्वात् , ततस्तत्र संज्ञाव्युत्सर्गे ईदृशा एते इति प्रवचनोपघातः स्यात् , संयमौपघातिकमङ्गारादिदाहस्थानं, तत्र हि संज्ञाव्युत्सर्जने तेऽन्यारम्भिणोऽन्यत्रास्थण्डिलेऽग्निप्रज्वालनादि कुर्वन्ति त्यजन्ति वा तां संज्ञामस्थण्डिले ततश्च संयमोपघात इति, यतश्चैते दोषा भवन्त्यतोऽनौपघातिके स्थण्डिले व्युत्सर्जनीयं, एवमन्यत्रापि भावनीयं २। तथा समं-अविषम, विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना, पुरीषं प्रश्रवणं वा प्रलोठत् षटकायानुपमर्दयतीति संयमविराधना च ३। तथा 'अज्झुषिरं' यत्तृणादिच्छन्नं न भवति, शुषिरे हि संज्ञादि व्युत्सृजतो वृश्चिकदंदशूकादिदशनेनात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रसस्थावरप्राणिप्रणाशनतः संयमविराधना ४ । तथा अचिरकालकृतं-स्वल्पकालनिविष्टं, अयमर्थः-यानि स्थण्डिलानि यस्मिन् ऋतावनिप्रज्वालनादिभिः कारणैरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति, यथा हेमन्ते कृतानि हेमन्त एव अचिरकालकृतानि, त्वन्तरव्यवहितानि तु चिरकालकृतानि, ततः सचित्तत्वान्मिश्रीभूतत्वाद्वा अस्थण्डिलानि तानीति, यत्र पुनरकं वर्षाकालं सधनो ग्राम उषितस्तत्र द्वादश वर्षाणि यावत्स्थण्डिलं भवति ततः परमस्थण्डिलं ५। तथा विस्तीर्णमहत्, तत् त्रिधा-जघन्यं मध्यममुत्कृष्टं च, तत्र जघन्यमायामविष्कम्भाभ्यां हस्तप्रमाणं, उत्कृष्टं द्वादश योजनानि, तच्च चक्रवर्तिस्कन्धावारनिवेशे समवसेयं, शेषं तु मध्यममिति ६ । तथा दूरमवगाढं-गम्भीरं, यत्राधस्ताच्चत्वार्यमुलान्यग्नितापादिना अचित्ता भूमिस्तजघन्यं, यस्य पुनरधस्तात्पञ्चाङ्गुलप्रभृतिकं तदुत्कृष्टं दूरमवगाढं, अत्र च वृद्धसम्प्रदायः-'चउरङ्गुलोगाढे सन्ना वोसिरिजइ न काइय'त्ति ७ । तथा अनासन्नं-आरामादेर्नातिसमीपस्थं, इह किल आसन्नं द्विविधं-द्रव्यासन्नं भावासन्नं च, तत्र द्रव्यासन्नं देवकुलहर्म्यप्रामारामग्रामक्षेत्रमार्गादीनां निकटं, तत्र च द्वौ दोषौ-संयमोपघात आत्मोपघातश्च, तथाहि-स देवकुलादिस्वामी तत्साधुव्युत्सृष्टं पुरीषं केनचित्कर्मकरेणान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपघातः, आत्मोपघातश्च स गृहाद्यधिपतिः प्रद्विष्टः सन् कदाचित्ताडयतीति, भावासन्नं नाम तावत्तिष्ठति यावत्संज्ञा मनाग नागच्छति, ततस्त्वरितं गच्छन् केचिद्भूर्तेन भावासन्नतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एव धृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात् , अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जवादिलेपने वा प्रवचनविराधना, संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति ८ । तथा बिलवर्जितं-भूमिरन्ध्रादिरहितं, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च
137