Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तथाहि-यदि देवगतिं नरकगतिं वा सङ्क्रामति तदा देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति, अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसङ्ख्येयवर्षायुष्केषु मध्ये गच्छति न सङ्ख्येयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे देवभवाच च्युत्वा मनुध्यभवे ततो मोक्षं यातीति चतुर्थे भवे मोक्षगमनं, तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्चिद्वैमानिकेष्वेव बद्धायुष्कश्चारित्रमोहनीयोपशमार्थमपि यतते, न शेषभवेषु बद्धायुष्कः । ननु यदि दर्शनत्रिकमपि क्षयमुपगतं तर्हि किमसौ सम्यग्दृष्टिरुतासम्यग्दृष्टिः?, उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् , तदसत्, इह निर्मदनीकृतकोद्रवकल्पा अपगतमिध्यात्वभावा मिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं यत्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणं, अपि च-तदतीव श्लक्ष्णशुभ्राभ्रपटलविगमे मनुष्यदृष्टिरिव विशुद्धतरस्वरूपं भवति, यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते, चारित्रमोहनीयं च क्षपयितुं यतमानो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तद्यथा-यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके अपूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तिबादरसम्परायगुणस्थानके, तत्रापूर्वकरणे स्थितिघातादिमिरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासयेयभागमात्रस्थितिकं जातं, अनिवृत्तिकरणाद्धायाश्च सयेयेषु भागेषु गतेषु सत्सु स्त्यानर्द्धित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासक्रमेणोद्वल्यमानानां पल्योपमासयेयभागमात्रा स्थितिर्जाता, ततो बद्ध्यमानास प्रकृतिषु तानि षोडशापि कर्माणि गुणसक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तेन क्षपयतीत्येष सूत्रादेशः, अन्ये त्वाः-षोडश कर्माण्येव पूर्व क्षपयितुमारभते केवलमपान्तरालेऽष्टौ कषायान क्षपयति पश्चात् षोडश कर्माणीति, ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुर्णा च सज्वलनानामन्तरकरणं करोति, स्थापना, तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते, तच्चान्तर्मुहूर्तेन पल्योपमासङ्ख्येयभागमात्रं जातं, ततः प्रभृति बद्ध्यमानासु प्रकृतिषु गुणसक्रमेण तहलिकं प्रक्षिपति, तवैवं प्रक्षिप्यमाणं अन्तर्मुहूर्तेन निःशेषं क्षीणं, अध. स्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः पयति अन्यथा त्वावलिकामानं तद्भवति तच वेद्यमानासु प्रकृतिषु स्तिबुकसक्रमेण सक्रमयति तदेवं क्षपितो नपुंसकवेदः, ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, तत: षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे सक्रमयति किन्तु सब्ज्वलनक्रोध एव, एतेऽपि च पूर्वोक्तविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषाः क्षीणाः, तत्समयमेव च पुंवेदस्य बन्धोदयोदीरणान्यवच्छेदः समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतः सतस्तस्य क्रोधाद्धायात्रयो विभागा भवन्ति, तद्यथा-अश्वकर्णकरणाद्वा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि सज्वलनानामन्तरकरणादुपरितनस्थितौ करोति, अथ किमिदं स्पर्धकमिति !, उच्यते, इह तावदनन्तानन्तैः परमाणुमिनिष्पन्नान् स्कन्धान जीवः कर्मतया गृहाति, तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिकान् अन्यस्तु व्यधिकान् एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यपरमाणुरभव्यानन्तगुणान् सिद्धानन्तभागेनाधिकान् रसभागान् प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते अन्येषां त्वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा एवमनया दिशा एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानन्तभागकल्पा अभव्यानन्तगुणा वाच्याः, एतासां च समुदायः स्पर्धकमित्युच्यते, स्पर्धन्त इवोत्तरोत्तरवृद्ध्या परमाणुवर्गशा अत्रेतिकृत्वा, इत ऊर्द्धमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानो रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागैः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयं, एवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि, एतेभ्य एव चेदानीं प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्व कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन क्रोधे गुणसरक्रमेण सङ्क्रमयन् चरमसमये सर्वसक्रमेण सक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धायां च वर्तमानश्चतुर्णामपि सज्वलनानां उपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनं, यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षवशादनुभागभागानां दशकस्य पञ्चदशकादेश्व व्यवस्थापनमिति, एताश्व किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिमेदापेक्षया द्वादश कल्प्यन्ते, एकै-(ग्रन्थाग्रं ७०००) कस्य कषायस्य तिस्रस्तिस्रः, तद्यथा-प्रथमा द्वितीया तृतीया च, एवं क्रोधेन क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यं, यदा तु मानेन प्रतिपद्यते तदा उद्बलनविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टीः करोति, मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्बलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति, एष किट्टीकरण
132

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310