Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 143
________________ भयजुगुप्साख्या इमाः सप्त, तदनन्तरं सञ्ज्वलनक्रोधं ततः सञ्ज्वलनं मानं ततः सव्ज्वलनां मायां ततः सब्ज्वलनं लोभं च क्षपयतीति योगः, लोभस्य त्वयं विशेष: ।। ६९७ ।। 'तो किट्टी' गाहा, लक्ष्णीकृतानि ततो- मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्ख्येयानि किट्टीकृतानि क्षपयित्वा सकलमोहक्षयात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति, इदं च लोभकिट्टिकरणं लोभेन श्रेणि प्रतिपन्नस्य द्रष्टव्यं, यदा तु क्रोधेन श्रेणि प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणां मायया च मायालोभयोः किट्टीकरणं ज्ञेयमिति ।। ६९८ ।। अयं च क्षपणाक्रमः सूत्रे नपुंसकं क्षपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेष:- 'नवर' मित्यादि, नवरं - केवलं स्त्री क्षपिका पूर्व नपुंसक वेदं क्षपयति, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुंवेदस्य बन्धव्यवच्छेदः, ततोऽवेदकः पूर्वोक्ताः पुंवेदहास्यादिषटुरूपाः सप्त प्रकृतीर्युगपत्क्षपयति, शेषं तथैव यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुंसक वेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं क्षपयित्वा पञ्चात्स्ववेदं पुंवेदं क्षपयति, शेषं तथैवेति ८९ ॥ ६९९ ॥ सम्प्रति 'उवसमसेढि चि नवतितमं द्वारमाहअणदंसनपुंसित्थीवेयछकं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ ७०० ॥ कोहं माणं मायं लोभमणंताणुबंधमुवसमइ । मिच्छन्तमिस्ससम्मत्तरुवपुंजत्तयं तयणु ॥ ७०१ ॥ इत्थिनपुंसगवेए तत्तो हासाइछकमेयं तु । हासो रई य अरई य सोगो य भयं दुगुंछा य ॥ ७०२ ॥ तो पुंवेयं तत्तो अप्पचक्खाणपञ्चखाणा य । आवरणकोहजुयलं पसमइ संजलणकोहंपि ॥ ७०३ ॥ एयक्कमेण तिनिवि माणे माया उ लोह तियगंपि । नवरं संजलणाभिहलोहतिभागे इय विसेसो ॥ ७०४ ॥ संखेयाई किट्टीकयाई खंडाई पसमइ कमेणं । पुणरवि चरिमं खंड असंखखंडाई काऊण ॥ ७०५ ॥ अणुसमयं एक्केकं उवसामह इह हि सत्तगोवसमे । होइ अपु ततो अनियही होइ नपुमाइ ॥ ७०६ ॥ पसमंतो जा संखेयलोहखंडाओ चरिमखंडस्स । संखाईए खंडे पसमंतो सुडुमराओ सो ॥ ७०७ ॥ इय मोहोवसमम्मि कयम्मि उवसंतमोहठाणं । सङ्घट्टसिद्धिहेऊं संजायह वीयरायाणं ॥ ७०८ ॥ इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयतदेश विरताविरतानामन्यतमो भवति, अन्ये त्वाद्दुः-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः, तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्मशुकुलेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तर्मुहूर्त यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृती: शुभा एव बध्नाति नाशुभाः, प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासत्येय भागहीनं करोति, पूर्णे चान्तर्मुहूर्ते क्रमेण यथाप्रवृत्तकरणापूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि करणानि करोति, चतुर्थी तूपशान्ताद्धां, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमन्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं वध्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते, तद्यथा - प्रथमसमये स्तोकं द्वितीयसमये ततोऽसंख्यातगुणं तृतीयसमयेऽपि ततोऽसङ्ख्येयगुणं यावदन्तर्मुहूर्तेन साकल्यतो ऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्यामिषिच्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिर्वृत्तिकरणरूपद्रुघणनिकुट्टितः सङ्क्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये तु अनन्तानुबन्धिनामुपशमनां न मन्यन्ते, किन्तु विसंयोजनां क्षपणां, सा च प्रागेवोक्ता, सम्प्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रयनिर्वर्तनेन विशुद्ध्या वर्धमानोऽनिर्वृत्तिकरणाद्धाया असङ्ख्येयेषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्तमानां स्थापयति मिध्यात्वमिश्रयोश्वावलिकामात्रं, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिध्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिध्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरणगुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्ध्य ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च सङ्खयेयेषु भागेषु गतेषु दर्शन सप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य सज्वलनस्य च उदयोऽस्ति तयोः स्वोदयकालमानां प्रथमस्थितिं करोति, शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रं, वेदत्रिकसज्ज्वलनचतु 134

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310