SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ , 1 ताः कथ्यन्ते, ईरणं इर्या-गमनं तत्र समितः - उपयुक्तः, असमितो हि प्राणिनो हिंस्यादिति प्रथमा भावना १ तथा सदा-सर्वकाल 'यतः' सम्यगुपयुक्तः सन् 'उवेह' त्ति अवलोक्य भुञ्जीत वाशब्दाद् गृहीत वा पानभोजनं, अयमर्थः- प्रतिगृहं पात्रमध्यपतितः पिण्डचक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यं, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया, २ तथा 'आदाननिक्षेपौ' पात्रादेर्प्रहणमोक्षावागमप्रतिषिद्धौ 'जुगुप्सति' न करोतीति आदाननिक्षेपजुगुप्सकः, आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादाननिक्षेपौ करोतीत्यर्थः, अजुगुप्सको हि सत्त्वव्यापादनं विदध्यादिति तृतीया ३ तथा 'संयतः' साधुः 'समाहितः' समाधानपरः सन् ‘संयतते' प्रवर्तयत्यदुष्टं मनो, दुष्टं हि मनः क्रियमाणं कायसंलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुत्यभाविताऽहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी ४ एवं वाचमप्यदुष्टां प्रवर्तयेत् दुष्टां (हि तां) प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी ५, तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना भणिता, इति प्रथमव्रतभावनाः पञ्च । अथ द्वितीयमहाव्रतभावना भण्यन्ते - अत्र अहास्यात्- हास्यपरिहारात् 'सत्यः' सत्यवाक्, हास्येन ह्यनृतमपि ब्रूयादिति प्रथमा १ तथा 'अनुविचिन्त्य' सम्यग्ज्ञानपूर्वकं पर्यालोच्य 'भाषको' वक्ता, अनालोचितभाषी हि कदाचिन्मृषाऽप्यभिदधीत, ततश्चात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेदिति द्वितीया २ तथा यः क्रोधं लोभं भयमेव वा वर्जयेत् परिहरेत् स एव मुनिर्दीर्घरात्रं - मोक्षं 'समुपेक्षिता' सामीप्येन मोक्षावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं'ति अनुस्वारस्यालाक्षणिकत्वान्मृषापरिवर्जकः 'सिया' स्यात्, अयमर्थ:- क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किभ्वनभाषी मृषाऽपि भाषेत अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया ३ तथा लोभाभिभूतचित्तोऽप्यत्यर्थमर्थकाङ्क्षया कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यव्रतमनुपालयता लोभः प्रत्याख्येय इति चतुर्थी ४ तथा भयार्त्तः निजप्राणादिरक्षणेच्छया सत्यवादितां व्यभिभरति ततो निर्भयवासनाऽऽघानमात्मनि विधेयमिति पञ्चमी ५ इति द्वितीयमहाव्रतभावनाः पञ्च । अथ तृतीयमहाव्रतभावनाः प्रोच्यन्ते तत्र स्वयमेव - आत्मनैव न तु परमुखेन साधुः प्रभुं प्रभुसन्दिष्टं वा सम्यक्परिज्ञाय अवग्रहस्य - देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदभिन्नस्य याचने- याच्यायां प्रवर्तते, परमुखेन हि याचनेऽस्वामियाचने च परस्परविरोधेन च अकाण्डघाटनादयोऽदत्त परिभोगादयश्च दोषा इति प्रथमा १ तथा तत्रैवानुज्ञापितावग्रहे तृणादिप्रहणार्थं मतिमान् घटेत—चेष्टेत निशम्य - आकर्ण्यावग्रहप्रदातुस्तृणाद्यनुज्ञावचनं, अन्यथा तददत्तं स्यादिति द्वितीया २ तथा 'सदा' सर्वकालं मिक्षुरवग्रहं स्पष्टमर्यादया याचेत, अयमर्थ:-सकृद्दत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रहयाचनं कर्तव्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थायां मूत्रपुरीषोत्सर्गपात्र करचरणप्रक्षालनस्थानानि दायकचित्तपीडापरिहारार्थं याचनीयानीति तृतीया ३ तथाऽनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनं, अयमर्थः - सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्रीयात्, उपलक्षणमेतत्, अन्यदपि यत्किश्विदौधिकौपग्रहिक भेदमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातमेव भोक्तव्यं अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी ४ तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिकाः - प्रतिपन्नैकशासनाः संविग्नाः साधवः, तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्य, तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृह्णीयात्, अन्यथा चौर्य स्यादिति पञ्चमी ५ एतास्तृतीयत्रतभावनाः पश्च । इदानीं चतुर्थव्रतभावनाः प्रतिपाद्यन्ते तत्र आहारे गुप्तः स्यात् न पुनः स्निग्धमतिमात्रं भुञ्जीत, यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा १ तथा अविभूषितात्मा - विभूषाविरहितः, देहनानविलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया २ तथा स्त्रियं न निरीक्षेत, तदव्यतिरेकात्तदङ्गान्यपि वदनस्तनप्रभृतीनि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भव इति तृतीया ३ तथा स्त्रियं न संस्तुवीतस्त्रीभिः सह परिचयं न कुर्यात् तत्संसक्तवसतितदुपभुक्तशयनासनादि सेवनेन, अन्यथा ब्रह्मव्रतभङ्गः स्यादिति चतुर्थी ४ तथा बुद्ध:-अव गततत्त्वो मुनिः क्षुद्रां- अप्रशस्यां ब्रह्मचर्यप्रस्तावात् स्त्रीविषयां कथां न कुर्यात्, तत्कथाऽऽसक्तस्य हि मानसोन्मादः सम्पद्येत इति पञ्चमी ५ एताभिः पचमिर्भावनाभिर्भावितान्तःकरणो धर्मानुप्रेक्षी - धर्मसेवनतत्परः साधुः सन्धत्ते – सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाव्रतभावनाः । अथ पञ्चमव्रतभावना निगद्यन्ते तत्र यः साधुः शब्दरूपरसगन्धान् आगतान् - इन्द्रियविषयीभूतान्, मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य - समासाद्य मनोज्ञान- मनोहारिणः पापकान् - विरूपान् इष्टाननिष्टांश्चेत्यर्थः, गृद्धि-अभिष्वङ्गलक्षणां प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितो - विदिततत्त्वः सन् स दान्तो जितेन्द्रियो विरतः - सर्वसावद्ययोगेभ्यो भवत्यकिश्वनः - किश्वन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पत्त्या परिप्रहविरतित्रतवानित्यर्थः, अन्यथा शब्दादिषु मूर्च्छादिसद्भावात् पञ्चमव्रतविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्गप्रद्वेषवर्जनात् पश्वमव्रतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति एताश्च समवायाङ्गतत्त्वार्थादिषु किश्विदन्यथाऽपि दृश्यन्ते इति ॥ ६३६ ।। ६३७ ।। ६३८ ॥ ६३९ ॥ ६४० ॥७२॥ इदानीं 'असुहाओ पणवीसं' ति त्रिसप्ततितमं द्वारमाह कंदष्पदेव १ किचिस २ अभिओगा ३ आसुरी ४ य सम्मोहा ५ । एसा हु अप्पसत्था पंचविहा 119
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy