________________
भावणा तत्थ ॥ ६४१ ॥ कंदप्पे १ कुकुइए २ दोसीलसे य ३ हासकरणे ४ य । परविम्हियजण
वि य ५ कंदपणेगहा तह य ॥ ६४२ ॥ सुयनाण १ केवलीणं २ धम्मायरियाण ३ संघ ४ साहूणं । माई अवण्णवाई किंविसियं भावणं कुणइ ॥ ६४३ ॥ कोउय १ भूईकम्मे २ पसिणेहिं ३ तह य पसिणपसिणेहिं ४ । तहय निमित्तेनं ५ चिय पंचवियप्पा भवे साय ॥ ६४४ ॥ सह विग्गहसीलन्तं १ संसत्ततवो २ निमित्तकहणं च ३ । निक्किवयावि य ४ अवरा पंचमगं निरणुकंपत्तं ५ ॥ ६४५ ॥ उम्मग्गदेसणा १ मग्गदूसणं २ मग्गविपडिवित्तीय ३ । मोहो य ४ मोहजगणं ५ एवं सा हवइ पंचविहा ॥ ६४६ ॥
1
कन्दर्पः- कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततया विटप्राया देवविशेषाः कन्दर्पास्तेषामियं कान्दर्पी, एवं देवानां मध्ये किल्बिषा:पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्विषास्तेषामियं किल्विषी, आ-समन्तात् आभिमुख्येन युज्यन्ते - प्रेष्यकमणि व्यापार्यन्ते इत्यामियोग्याः - किङ्करस्थानीया देवविशेषास्तेषामियमामियोगी, असुरा – भुवनवासिदेवविशेषास्तेषामियमासुरी, संमुह्यन्तीति सम्मोहा - मूढात्मानो देवविशेषास्तेषामियं सम्मोही, एषा हु- स्फुटं 'पञ्चविधा' पञ्चप्रकारा 'अप्रशस्ता' सक्लिष्टा भावना तत्तत्स्वभावाभ्यासरूपा भणितेति शेषः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्तते कथञ्चिद्भावमान्द्यात् स तद्विधेष्वेव कन्दर्पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात्, उक्तं च- 'जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहिंचि । सो तव्विद्देसु गच्छद सुरेख भइओ चरणहीणो || १ || ' [ यः संयतोऽपि एतासु अप्रशस्तासु वर्तते कथंचित् स तद्विधेषु मच्छति सुरेषु भक्तश्चरणहीनः ॥ १ ॥ |] अत्र 'भइओ चरणहीणो'त्ति यः पुनः सर्वथापि चारित्ररहितः सभाज्यो - विकल्पनीयः, कदाचित्तद्विषेष्वेव सुरेषूत्पद्यते कदाचिश्च नारकतिर्यक्कुमानुषेविति ॥ ६४१ ॥ एताश्च पश्वापि भावनाः प्रत्येकं पभ्वविधाः, तत्र प्रथमं पञ्चविधां कन्दर्पभावनामाह - 'कंदप्पे 'त्यादि, कन्दर्पे कौकुच्ये दुःशीलत्वे हास्यकारणे परविस्मयजननेऽपि च विषये भवति कन्दर्पः - कन्दर्पविषया भावना कान्दर्पिकी इत्यर्थः, 'अनेकविधा' पथ्वप्रकारा, तत्र उच्चैःस्वरेण हसनं तथा परस्परं परिहासः तथा गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादयः स्वेच्छालापाः तथा कामकथाकथनं तथा एवं चैवं च कुर्विति विधानद्वारेण कामोपदेशः तथा कामविषया प्रशंसा च कन्दर्पशब्देनोच्यते, तदुक्तम् —' कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ १ ॥” [ कहकहकहेति हसनं कन्दर्पः अनिभृताश्च संलापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥१॥ ] तथा कुकुचो - भाण्डचेष्टा तस्य भावः कौकुच्यं, तद् द्वेधा - कायकौ कुच्यं वाकौकुच्यं च, तत्र कायकौकुच्यं यत्स्वयमहसन्नेव भ्रूनयनादिमिर्देहावयवैर्हासकारकैस्तथा तथा चेष्टां करोति यथा परो हसतीति, यदुक्तम् — 'भुमनयणवयणदसच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह इस्सए परो अत्तणा अहसं ॥ १ ॥ [ नयनवदनदशनच्छदेन करचरणकर्णादिमि: । तत्तत् करोति यथा परो हसति आत्मनाऽहसन् ॥ १ ॥ ] वाकौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचनजातैर्विविधजीवविरुतैर्मुखातोद्यवादितया च परं हास्यतीति, यदुक्तम् – “वाया कुक्कुइओ पुण तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए कुत्र्वइ मुहतूरए 'चेव ॥ १ ॥” [ वाकौत्कुचिकः पुनस्तत् जल्पति येन हसति अन्यः । नानाविधजीवरुतानि मुखतूर्यमेव च करोति ॥ १ ॥ ] तथा दुष्टं शीलं - स्वभावो यस्य स दुःशीलः तद्भावो दुःशीलत्वं, तत्र यत्सम्भ्रमावेशवशादपर्यालोच्य द्रुतं द्रुतं भाषते यच शरत्काले दर्पोद्धुरप्रधानबलीवई इव द्रुतं द्रुतं गच्छति यथ सर्वत्रासमीक्षितं कार्य द्रुतं द्रुतं करोति यच स्वभावस्थितोऽपि तीव्रोद्रेकवशाद्दर्पेण स्फुटतीव स्फुटति च एतद् दुःशीलत्वं यदुक्तम् — भासइ दुयं दुयं गच्छए य दरिओव्व गोव सो सरए । सब्वदुयहुयकारी फुट्ट व ठिओवि दप्पेणं ॥ १ ॥ [ भाषते द्रुतं द्रुतं गच्छति च दृप्तो गौरिव शरदि । सर्व्वद्रुतद्रुतकारी स्थितोऽपि दर्पेण स्फुटतीव ॥ १ ॥ ] तथा भाण्ड इव परेषां छिद्राणि - विरूपवेष भाषाविषयाणि निरन्तरमन्वेषयन् विचित्रैस्तादृशैरेव वेषवचनैर्यद् द्रष्टृणामात्मनश्च हासं जनय तद् हास्यकारणं, यदुक्तम् - "वेसवयणेहिं हासं जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भन्नइ घयणोव्व छले नियच्छन्तो ॥ १ ॥ " [ वेषवचनाभ्यां हास्यमात्मनः परेषां च जनयन् । अथ हास्यकारक इति भण्यते भाण्ड इव छलं पश्यन् ॥ १ ॥ ] 'घयणो 'त्ति भाण्डः, तथा इन्द्रजालप्रभृतिभिः कुतूहलैः प्रहेलिकाकुहेटिकादिभिश्च तथाविधप्राम्यलोकप्रसिद्धैर्यात्स्वयमविस्मयमानो बालिशप्रायस्य जनस्य मनोविभ्रममुत्पादयति तत्परविस्मयजननं, यदुक्तम् — “सुरजालमाइएहिं तु विम्हयं कुणइ तव्विहजणस्स । तेसु न विम्हयइ सयं आहट्टकुहेडएहिं च ॥ १ ॥” [ तद्विधजनस्येन्द्रजालादिभिर्विस्मयं करोति । तः न स्वयं विस्मयते प्रहेलिकाकुहेडकैः ॥ १ ॥ ] अत्र 'आहट्ट' त्तिप्रहेलिका कुहेडक:-आभाणकप्रायः प्रसिद्ध एव ।। ६४२ ॥ अथ दैवकिल्बिषीं भावनां पश्वविधामाह-'सुये' त्यादि, श्रुतज्ञानस्य - द्वादशाङ्गीरूपस्य केवलिनां—केवलज्ञानवतां धर्माचार्याणां धर्मोपदेष्टृणां सङ्घस्य - साधुसाध्वीश्रावक श्राविकासमुदायरूपस्य साधूनां - यतीनां अवर्णवादी मायी च–स्वशक्तिनिगूहनादिना मायावान् देवकिल्विषीं भावनां करोति, तत्र अवर्णः - अश्लाघा असद्दोषोदुद्घट्टनमितियावत् स चैवं श्रुतज्ञानस्य– पृथिव्यादयः कायाः षड्जीवनिकायामपि व्यावर्ण्यन्ते शस्त्रपरिज्ञाध्ययनादिष्वपि बहुशस्त एव, एवं व्रतान्यपि - प्राणातिपातनिवृत्त्यादीनि तान्येव पुनः पुनस्तेषु तेषु सूत्रेषु प्रतिपाद्यन्ते, तथा त एव प्रमादा - मद्यादयः अप्रमादाश्च तद्विपक्षभूता भूयो भूयश्च तत्र तत्र कथ्यन्ते, न पुनरधिकं किश्विदपीति पुनरुक्तदोषः, अन्यच मोक्षार्थ घटयितव्यमितिकृत्वा किं सूत्रे सूर्यप्रज्ञत्यादिना
120