________________
ज्योतिःशास्त्रेण ?, तथा मोक्षार्थमभ्युद्यतानां यतीनां किं योनिप्राभृतोपनिबन्धेन ?, भवहेतुत्वाज्ज्योतिषयोनिप्राभृतप्रभृतीनामिति, उक्त च-"काया वया य तेञ्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं? ॥ १॥" [कायाः व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिभिः किं कार्यम् ?॥१॥] केवलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत युगपत् ?, तत्र यदि क्रमेणेति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकतापऽऽत्तिः प्राप्नोति, उक्तं च-"एगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि । केवलदसणणाणाणमेगकाले य एगत्तं ॥१॥" [एकतरसमुत्पादे अन्योऽन्यावरणता द्वयोरपि केवलज्ञानदर्शनयोः एककाले एकत्वं ॥१॥ धर्माचार्याणामवर्णवादो यथा-न शोभनैतेषां जातिः नैते लोकव्यवहारकुशलाः न चैते औचित्यं विदन्तीत्यादि विविधं गुरून प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते, तथा अहितश्छिद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवासतोऽपि दोषान् वदति, सर्वदैव च तेषां प्रतिकूलतामाचरतीति, उक्तं च-"जाईहिं अवण्णं विभासइ वट्टइ न यावि उववाए । अहिओ छिहप्पेही पगासवाई अणणुकूलो ॥१॥" [जात्यादिमिरवर्ण विभाषते न चाप्युपपाते वर्त्तते । अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥१॥] सवस्यावर्णवादो यथा-बहवश्व पशुशृगालादीनां सङ्काः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति, साधूनामवर्णवादो यथा-नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति अन्यथा एकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदेव लोकावर्जनाय मन्दगामिनः, महतोऽपि च प्रति प्रकृत्यैव निष्ठुराः, तदैव रुष्टास्तदेव तुष्टाश्च, तथा गृहिभ्यस्तैस्तैश्चाटुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसञ्चयपराश्व, उक्तं च-"अविसहणाऽतुरियगई अणाणुवित्तीय अवि गुरूणंपि । खणमित्तपीइरोसा गिहिवच्छलगा य संचइगा ॥१॥" [अविषहणा अत्वरितगतयः गुरूणामप्यननुवृत्तयः। क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाश्च संचयिकाः॥१॥] अन्यैरप्युक्तं-"अनित्यताशब्दमुदाहरन्ति, भग्नां च तुम्बी परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकी नैव परित्यजन्ति ॥ १॥" अन्यत्र तु 'सव्वसाहणं'ति पठित्वा 'मायी'ति भिन्नैव पञ्चमी भावना प्रतिपादिता, यथा-"गूहुइ आयसहावं छायइ य गुणे परस्स संतेवि । चोरोव्व सव्वसंकी गूढायारो हवइ माई ॥१॥"[गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान् आच्छादयति । चौर इव सर्वशङ्की गूढाचारो भवति मायी ॥१॥] ॥६४३॥ अथ आभियोगी भावनां पश्चभेदामाह-कोउयेत्यादि, अत्र सप्तमी तृतीयार्थे ततः कौतुकेन १ भूतिकर्मणा २ प्रश्न प्रश्नाप्रभेन ४ निमित्तेन ५ च पञ्चविकल्पा-पञ्चभेदा भवेत् सा च-आमियोगिकी भावना, तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपनकरभ्रमणाभिमश्रणथुकरणधूपदानादि यक्रियते तत्कौतुकं, उक्तं च"विण्हवणहोमसिरपरिरया य खारडहणाइं धूवे य । असरिसवेसग्गहणं अवतासणउच्छुभणबंधा ॥१॥" [अपि सपनहोमशिरःपरिरयाश्च क्षारदहनानि धूपश्च । असदृशवेषप्रहणं अवत्रासनं क्षेपणं बन्धः ॥१॥] तथा च सति शरीरभाण्डकरक्षार्थ भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म, उक्तं च-'भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अमिओगमाईया ॥१॥"[भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डरक्षा अभियोगादिकाश्च ॥१॥] तथा यत्परस्य पार्थे लाभालाभादि पृच्छयते स्वयं वा अष्टदर्पणखगतोयादिषु दृश्यते स प्रमः, उक्तं च-"पण्हो य होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुचिट्ठपए दप्पणअसितोयकुडाई ॥१॥"[प्रभश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणासितोयकुड्यादिषु ॥ १॥] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभजीवितमरणादि परिकथयति स प्रश्नाप्रमः, उक्तं च-"पसिणापसिणं सुमिणे विजासिटुं कहेइ अन्नस्स । अहवा आइंखणियाघंटियसिहं परिकहेइ ॥१॥" [प्राप्रमः स्वप्ने विद्याशिष्टं अन्यस्मै कथयति । अथवा आखिणिकाघण्टिकाशिष्टं परिकथयति ॥१॥] तथा नि. मित्तं-अतीतानागतवर्तमानवस्तुपरिज्ञानहेतु नविशेषः, उक्तं च "तिविहं होइ निमित्तं तीयपडुप्पण्णऽनागयं चेव । तेण विणा उ न नेयं नज्जा तेणं निमित्तं तु ॥ १॥"[त्रिविधं भवति निमित्तमतीतं वर्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु॥१॥] एतानि च कौतुकभूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्म बध्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एव उचंच गोत्रं बनातीति तीर्थोन्नतिकरणात् , उक्तं च-"एयाणि गारवट्ठा कुणमाणो आमियोगियं बंधे । बीयं गारवरहिओ कुम्वइ आराहगुषं च ॥१॥"[एतानि गौरवार्थ कुर्वन् आमियोगिक बनाति द्वितीयं पदं गौरवरहितः करोति आराधक उच्चैर्गोत्रं च॥॥ ॥६४४॥ अथ आसुरी भावनां पञ्चभेदामाह-'सई'त्यादि, सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च ३ निष्कपताऽपि चापरा ४ पञ्चमकं च निरनुकम्पत्व ५ मिति, तत्र 'सदा' सर्वकालं 'विग्रहशीलत्वं' पश्चादननुतापितया क्षमणादावपि प्रसत्त्यप्राप्त्या च विरोधानुबन्धः, यदाह-"नि विग्गहसीलो काऊण य नाणुतप्पई पच्छा । न य खामिओ पसीयइ सपक्खपरपक्खओ वावि ॥ १॥"[ नित्यं विग्रहशीलः कृत्वा च पश्चान्नानुतप्यते न च क्षमितः प्रसीदति स्वपक्षपरपक्षतो वाऽपि ॥ १॥] तथा संसक्तस्य-आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहाराद्यर्थमेव च तपः-अनशनादितपश्चरणं संसक्ततपः, यदाह-"आहारउवहिसेज्जासु जस्स भावो उ निघसंसत्तो । भावोवहओ कुणइ व तवोवहाणं तदहाए ॥ १॥"[आहारोपषिशय्यासु यस्य तु भावो नित्यं संसक्तः । उपहतभावो वा करोति तपउपधानं तदर्थाय ।। १ ।।1 तथा त्रैकालिकस्य लाभालाभ
121