SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सुखदुःखजीवितमरणविषयस्य निमित्तस्य कथनं-अभिमानामिनिवेशाद्व्याकरणं, यदाह-"तिविहनिमित्तं एकेक छव्विहं जंतु वन्नियं पुवं । अमिमाणाभिनिवेसा वागरियं आसुरं कुणइ ॥ १॥" [त्रिविधं निमित्तमेकैकं षडिधं यत्तु पूर्व वर्णितं । अमिमानादभिनिवेशाच व्याकृतमासुरी करोति ॥ १॥] तथा स्थावरादिसत्त्वेष्वजीवप्रतिपत्त्या गतघृणः कार्यान्तरव्यासक्तः सन् गमनासनादि यः करोति कृत्वा च नानुतप्यते केनचिदुक्तः सन् स निष्कृपः तद्भावो निष्कृपता, यदाहुः-"चंकमणाईसु सत्तो सुनिकिवो थावराइसत्तेसुंकार च नाणुतप्पइ एरिसओ निकिवो होइ ॥ १॥" [चक्रमणादिषु सक्तः सुनिष्कृपः स्थावरादिसत्त्वेषु कृत्वा च नानुतप्यते ईदृशो निकृपो भवति ॥ १ ॥] तथा यः कृपापात्रं कुतश्चिद्धेतोः कम्पमानमपि परं दृष्ट्वा क्रूरतया कठिनभावः सन् नानुकम्पाभाग्भवति स निरनुकम्पः तस्य भावो निरनुकम्पत्वं, यदाह-"जो उ परं कंपंतं दट्टण न कंपए कढिणभावो । एसो य निरणुकंपो पन्नत्तो वीयरागेहिं ॥१॥" [यस्तु परं कम्पमानं दृष्ट्वा नानुकम्पते कठिनभावः । एष च निरनुकम्पः प्रज्ञप्तो वीतरागैः ॥१॥] ॥६४५।। अथ सांमोहीं भावनां पञ्चविधामाह-'उम्मग्गे'त्यादि, उन्मार्गदेशना १ मार्गदूषणं २ मार्गविप्रतिपत्तिः ३ मोहः ४ मोहजननं च ५ एवं सा सांमोहीभावना भवति पञ्चविधा, तत्र पारमार्थिकानि ज्ञानादीन्यदूषयन्नेव तद्विपरीतं धर्ममार्ग यदुदिशति सा उन्मार्गदेशना, आह च-"नाणादि अदूसिंतो तविवरीयं तु उवदिसइ मग्गं । उम्मग्गदेसगो एस आयअहिओ परेसिं च ॥ १॥" [ज्ञानादि अदूषयन् तद्विपरीतं तु देशयति मार्गम् । उन्मार्गदेशक एष आत्मनोऽहितः परेषां च ॥ १॥] तथा पारमार्थिकं ज्ञानदर्शनचारित्रलक्षणं भावमार्ग तत्प्रतिपन्नांश्च साधून पण्डितमानी स्वमनीषानिर्मितर्जातिदूषणैर्यद् दूषयति तन्मार्गदूषणं, आह च-"नाणाइतिहामग्गं दूसइ जो जे य मग्गपडिवन्ना। अबुहो जाईए खलु भन्नइ सो मग्गदूसत्ति ॥ १॥" [ज्ञानादिविधामार्ग दूषयति यः ये च मार्गप्रतिपन्नाः- (तान् ) अबुधो जात्या भणति स खलु मार्गदूषक इति भण्यते ॥ १॥] तथा तमेव ज्ञानादिमार्गमसदूषणैर्दूषयित्वा जमालिवदेशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः, आह च-"जो पुण तदेव मग्गं दूसित्ता अपंडिओ सतकाए । उम्मग्गं पडिवजइ विप्पडिवण्णो स मग्गस्स ॥१॥" [यः पुनस्तमेव मार्ग दूषयित्वाऽपण्डितः स्वतर्केण उन्मार्ग प्रतिपद्यते स मार्गात् विप्रतिपन्नः ॥ १॥] तथा निकाममुपहतमतिः सन्नतिगहनेषु ज्ञानादिविचारेषु यन्मुह्यति यच्च परतीर्थिकसम्बन्धिनी नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः, आह च"तह तह उवयमइओ मुज्झइ नाणचरणंतरालेसु । इडीओ य बहुविहा दटुं जत्तो तओ मोहो ॥१॥" [तथा तथा उपहमतिकः ज्ञानचरणान्तरेषु मुह्यति बहुविधा ऋद्धीश्च दृष्ट्वा यतः ततो मोहः ॥१॥] तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजननं, आह च-"जो पुण मोहेइ परं सब्भावणं च कइयवेणं वा । संमोहभावणं सो पकरेइ अबोहिलाभाय ॥१॥" [यो मोहयति पुनः परान् सद्भावेन कैतवेन वा स सम्मोहीभावनां प्रकरोति अबोधिलाभाय ॥१॥ एताश्च पञ्चविंशतिरपि भावनाः सम्य. चारित्रविघ्नविधायित्वादशुभा इति यतिमिः परिहर्तव्याः, यदुक्तम्-"एयाओ विसेसेणं परिहरइ चरणविग्घभूयाओ । एयनिरोहाउ चिय सम्मं चरणंपि पावंति ॥ १॥"[एता विशेषेण परिहरति चरणविघ्नभूताः । एतनिरोधादेव सम्यक् चरणमपि प्राप्नुवन्ति ॥१॥] त्ति ७३ ॥ ६४६ ॥ इदानीं 'संखा महबयाणं'ति चतुःसप्ततं द्वारमाह पंचवओ खलु धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं चउविहो होइ विन्नेओ॥ ६४७॥ पञ्चव्रतः खलु-प्राणातिपातमृषावादादत्तादानाब्रह्मपरिप्रहविरतिलक्षणपञ्चमहाव्रत एव धर्म:-चारित्रधर्मः पूर्वस्य च-प्रथमस्य च ऋषभजिनस्य पश्चिमस्य च-चरमस्य वर्धमानजिनस्य मुनीनामिति शेषः, मध्यमकानां-अजितनाथादीनां पार्श्वनाथान्तानां द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां चतुर्बत:-चतुर्यामो भवति विज्ञेयः, इह हि तत्तत्कालस्वभावादेव त्रिविधाः पुरुषा भवन्ति-ऋजुजडा वक्रजडा ऋजुप्रज्ञाश्च, तत ऋजवः-शाठ्यरहितास्ते च ते जडाश्च-तथाविधोहापोहव्यपोहादुक्तमात्रार्थप्राहिण ऋजुजडा:-केऽपि प्रथमतीर्थकरसाधवः, ते च नटावलोकनज्ञातेन ज्ञातव्याः, तथाहि-किल केचित् प्रथमतीर्थकरसाधवो विचारगोचराचिरेण वसतावागताः, पृष्टाश्च गुरुमिः-किमिति भोश्चिरायमागताः?, ते च ऋजुत्वादवोचन्-यथा नटं नृत्यन्तमालोकयन्तो वयमस्थाम, ततो गुरुस्तानन्वशात्-यदुत रागादिनिबन्धनं नटनृत्तावलोकनं मा पुनर्भवन्तो व्यधुः, तेऽपि तथैव गुरूणां गिरं प्रतिपेदिरे, अपरेधुश्च तथैव ते गुरुपृष्टा व्यजिझपम्यथा नटी नृत्यन्तीं पश्यन्तः स्थिताः, गुरुमिर्भणितं-ननु पूर्वमेव निषिद्धा यूयं, अथ ते अजुजडत्वादूचुः-नटनृत्तनिरीक्षणं भवद्भिः प्रत्यषिख्यत न नटीनृत्तनिरीक्षणमिति, नटे हि निषिद्धे रागनिमित्तत्वान्नटी निषिद्धेवेति प्रत्येतुं तैर्न शकितमिति ते ऋजुजडाः, तथा वक्रजडा:-शठत्वमुग्धत्वधर्मद्वययुक्ताः केचिचरमतीर्थकरसाधवः, तेऽप्येवमेव नटदृष्टान्तेनावगन्तव्याः, नवरं ते तथैव गुरुमिर्निवारिताः पुनरन्यदा नटीनिरीक्षण कृत्वा चिरादागताः पृष्टाश्च वक्रजडत्वादुदरबाधाद्यसदुत्तराणि वितेरुः, निर्बन्धेन च गुरुमिः पृष्टा अस्मामिनेटी निरीक्षितेत्युक्तवन्तः, सुतरामुपालब्धाश्च सन्तो जडत्वात्कथितवन्तो-यथा नट एव न द्रष्टव्य इत्यस्माभिरधि वयुक्ताः प्रज्ञावन्तश्च ऋजुप्रज्ञा मध्यमद्वाविंशतिजिनसाधवो महाविदेहवतिनश्च, तेऽपि तथैव नटोदाहरणादेव प्रतिपत्तव्याः, ते हि किल तथैव नटनिरीक्षणं प्रति प्रतिषिद्धाः प्राज्ञत्वात्स्वयं विमृश्य रागादिहेतुतया नटीनिरीक्षणमपि परिहृतवन्तः, ततश्च मध्यमजिनसाधव - जुत्वेन यथोपदिष्टानुपालनात् प्राज्ञत्वेनोपदेशमात्रादप्यशेषहेयार्थायूहनेन तत्परिहारसमर्थत्वाच सुखप्रतिबोध्याः, अतो न अपरिगृहीतायाः 122
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy