________________
स्त्रियः परिभोगः स्यादिति परिग्रहविरमणेनैव मैथुनविरतिं प्रतिपद्यन्ते इत्यतस्तेषां परमार्थतः पश्चयामोऽपि चतुर्यामः, प्रथमजिनसाधूनां तु ऋजुजडत्वेन बहुधा बहुमिश्वोपदेशैः समस्तहेयार्थज्ञानसम्भवात् चरमजिनसाधूनां च वक्रजडत्वात्तेन तेन व्याजेन हेयार्थसेवासम्भ
रतिव्रतेनैव मैथुनविरतिव्रतं सगृहीतमिति न प्रतिपत्तिः ततः पञ्चयाम एव तेषां धर्म इति ७४ ॥ ६४७ ॥ इदानी किइकम्माण य दिणे संख'त्ति पश्चसप्ततं द्वारमाह
चत्तारि पडिकमणे किइकम्मा तिण्णि हुंति सज्झाए । पुषण्हे अवरण्हे किइकम्मा चउदस हवंति ॥ ६४८॥ चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं क्षामणकवन्दनकं द्वितीयं आचार्यप्रभृतिसर्वसस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं प्रत्याख्यानवन्दनकं चतुर्थ, तथा स्वाध्याय त्रीणि वन्दनकानि, तत्र स्वाध्यायप्रस्थापने एक वन्दनं स्वाध्यायप्रवेदने द्वितीयं स्वाध्यायकरणानन्तरं च तृतीयं, एवं पूर्वाहे-प्रत्युषसि सप्त वन्दनकानि अपराहेऽप्येतान्येव सप्त, काल. ग्रहणोद्देशसमुद्देशानुज्ञादिवन्दनकानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् , तदेवमेतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश भवन्ति अभ. तार्थिकस्य, भक्तार्थिकस्य तु अपराहे प्रत्याख्यानवन्दनेनाभ्यधिकानीति ७५ ॥ ६४८ ॥ सम्प्रति 'खेत्ते चारित्ताणं संख'त्ति षट्सप्ततितमं द्वारमाह
तिणि य चारित्ताई बावीसजिणाण एरवयभरहे । तह पंचविदेहेसुं बीयं तइयं च नवि होइ
॥६४९॥ त्रीण्येव चारित्राणि-सामायिकसूक्ष्मसम्पराययथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रथमचरमवर्जितानां द्वाविंशतेर्मध्यमजिनानां काले, तथा पञ्चस्वपि महाविदेहेषु साधूनां भवंति, द्वितीयं-छेदोपस्थापनीयं तृतीयं च-परिहारविशुद्धिकं कदाचनापिन भवतीति, प्रथमचरमंतीर्थकरयोश्च भरतैरवतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति ७६ ॥ ६४९॥ इदानीं 'ठियकप्पो'त्ति सप्तसप्ततं द्वारमाह
सिजायरपिंडंमि य १ चाउजामे य २ पुरिसजिहे य ३ । किकम्मस्स य करणे ४ ठिकप्पो म
ज्झिमाणं तु ॥ ६५०॥ इह कल्पः-साधुसमाचारः स च सामान्येन दशधा-"आचेलुक्क १ देसिय २ सेज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ पडिकमणे ८ मासं ९ पज्जोसवणकप्पो १०॥१॥" एष च दशविधोऽपि सततासेवनेन प्रथमचरमजिनसाधूनामवस्थितः कल्पः, मध्यमजिनसाधूनां चतुर्ष स्थानेषु स्थितत्वात् षट्सु चास्थितत्वादशस्थानकापेक्षयाऽनवस्थितः कल्पः, उक्तं च-"ठिय अहियओ य कप्पो आचेलुकाइएसु ठाणेसु । सव्वेसु ठिया पढमो चउ ठिय छसु अट्ठिया वीओ ॥१॥" [ स्थितोस्थितश्च कल्प आचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्ष स्थिताः षट्स्वस्थिता द्वितीयः ॥१॥] तथा मध्यमजिनसाधूनामपि चतुर्यु स्थानेषु सदैवावस्थितत्वेन षट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति, तत्र तेषां स्थितकल्पस्तावदुच्यते-शय्यातरपिण्डे-वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां-ब्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामं तत्र तथा पुरुष एव ज्येष्ठो-रत्नाधिकः पुरुषज्येष्ठस्तत्र तथा कृतिकर्मणो-वन्दनकस्य करणे-विधाने स्थितः-अवस्थितः कल्पो-मर्यादा मध्यमानां-मध्यमद्वाविंशतिसाधूनां तुशब्दान्महाविदेहसाधूनां च, एतदुक्तं भवति-मध्यमजिनसाधवो महाविदेहसाधवश्व प्रथमचरमजिनसाधुववश्यमेव शय्यातरपिण्डं परिहरन्तितथा परिग्रहविरमणान्तर्भूतमैथुनविरतिव्रतत्वेन सर्वदैव चतुर्यामं धर्म मन्यन्ते तथा प्रथमपश्चिमजिनसाधूनां महाव्रतारोपणलक्षणया उपस्थापनया यथा ज्येष्ठत्वं तद्वन्मध्यमजिनसाधूनामपि सर्वेषां प्रव्रज्यया ज्येष्ठत्वं सर्वदेव ज्ञेयं, तथा अभ्युत्थानलक्षणं द्वादशावर्त्तादिरूपं च द्विविधमपि कृतिकर्म साधुमिः साध्वीभिश्च यथापर्यायवृद्धि विधेयं साध्व्यश्च पर्यायज्येष्ठा अपि अद्यदिनदीक्षितैरपि साधुमिन वन्दनीयाः पुरुषप्रधानत्वाद् धर्मस्य अनेकदोषसम्भवाच, ते चामी-तुच्छत्तणेण गव्वोजायइ न य संकए परिभवणं । अन्नोवि होज दोसो थियासु माहुज्जाहिज्जासु ॥१॥" [तुच्छत्वेन गर्वो जायते न च शङ्कते परिभवे । अन्योऽपि भवेहोषः स्त्रीषु माधुर्यहार्यासु ॥१॥] स्त्रीषु माधुर्यहार्यासु'माधुर्येण-कोमलवचन हतुं शक्यास्वित्यर्थः, तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधूनां नित्यमवस्थितानीति स्थितकल्पः ७७ ॥ ६५० ॥ इदानीं 'अट्ठियकप्पो'त्ति अष्टासप्ततं द्वारमाह
आचेलकु १ देसिय २ पडिक्कमणे ३ रायपिंड ४ मासेसु ५ । पजुसणाकप्पंमि य ६ अट्ठियकप्पो मुणेयव्वो ॥ ६५१ ॥ आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जि. णाणं होइ सचेलो अचेलो वा ॥ ६५२ ॥ मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चेवत्ति । नो कप्पइ सेसाणं तु कप्पइ तं एस मेरत्ति ॥ ६५३ ॥ सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिकमणं॥ ६५४ ॥ असणाइचउकं वत्थपत्तकंबलयपायपुंछणए। निवपिंडंमि न कप्पति पुरिमअंतिमजिणजईणं ॥ ६५५ ॥ पुरिमेयरतित्थक
123