SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ राण मासकप्पो ठिओ विणिहिट्ठो । मज्झिमगाण जिणाणं अहियओ एस विण्णेओ॥ ६५६ ॥ पजोसवणाकप्पो चेवं पुरिमेयराइभेएणं । उक्कोसेयरभेओ सो नवरं होइ विन्नेओ ॥ ६५७ ॥ चाउम्मासुक्कोसो सत्तरि राइंदिया जहन्नो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चेव ॥६५८॥ आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युषणाकल्पे च सततसेवनीयत्वाभावान्मध्यमजिनसाधूनामस्थितकल्पो ज्ञातव्यः, ते ह्येतानि स्थानानि कदाचिदेव पालयन्तीति ॥६५१॥ तत्र आचेलक्यस्वरूपं तावदाह-'आचे'इत्यादि, अविद्यमानं न कुत्सार्थे कुत्सितं वा चेलं यस्यासावचेलकस्तद्भाव आचेलक्यं तद्योगाद्धर्मोऽपि चारित्रलक्षण आचेलक्यः स पूर्वस्य च-युगादिदेवस्य पश्चिमस्य च-श्रीमहावीर जिनस्य सम्बन्धिसाधूनां भवति, अयमत्र भावार्थ:-अचेला द्विधा-अविद्यमानवस्रा विद्यमानवखाश्व, तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीतदेवदूष्यापगमानन्तरं, तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वरचेलाः, स्वल्पमूल्यश्वेतखण्डितवत्राश्रयणात्, दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वेऽपि विशिष्टार्थाप्रसाधकत्वेनासत्त्वाविशेषादचेलव्यवहारः, यथा काचित्पु. रन्ध्री परिजीर्णशाटिकापरिधाना तन्तुवायमाह-नग्नाऽहं देहि मे शाटिकामिति, मध्यमकानां पुनाविंशतेर्जिनानां सम्बन्धिसाधूनां भवति-स्यात्सचेल:-सवस्त्रोऽचेलो वा-निर्वस्त्रो धर्मः, कुतः ?-तेषामृजुप्राज्ञत्वान्महामूल्यपञ्चवर्णानामितरेषां च वस्त्राणां परिभोगानुज्ञानात् , प्रथमपश्चिमजिनसाधूनां तु ऋजुजडत्वेन वक्रजडत्वेन च महाधनादिवत्राणामननुज्ञानात् श्वेतखण्डितादीनामेव चानुज्ञानादचेलक इति ॥६५२॥ 'उद्देसिय'त्ति व्याख्यायते-'मज्झिमेत्यादि, उद्देशेन-साधुसङ्कल्पेन निवृत्तमौद्देशिकं-आधाकर्म अत्र स्थितास्थितकल्पविचारे विवक्षितं ततो मध्यमजिनसाधूनामिदं-औद्देशिकं यमेव-साध्वादिकमुद्दिश्य कृतं-निर्वर्तितं तस्यैव न कल्पते, इतिः वाक्यसमाप्तौ, शेषाणां तुउद्दिष्टसाधुभ्योऽन्येषां तदौदेशिकं ग्रहीतुं कल्पते, कस्मादेवमित्याह-एषा' अनन्तरोक्ता 'मेर'त्ति मर्यादा अजुप्राज्ञसाधून प्रज्ञापनीयलोकांश्चाधिकृत्य जिनैः कृतेतिकृत्वा, प्रथमपश्चिमजिनतीर्थे तु यमुद्दिश्य कृतमाधाकर्म तत्तस्यापि न कल्पते शेषसाधूनामपीति ॥६५३॥'पडिकमण'त्ति प्रतन्यते-सप्रतिक्रमण:-'सपडि'इत्यादि, उभयकालं षड्विधावश्यककरणयुक्तो धर्म:-चारित्रधर्मः पूर्वस्य च पश्चिमस्य च जिनस्य संबन्धिसाधूनां, मध्यमजिनसाधूनां तु कारणे-प्रतिक्रमणविशोधनीयातिचाररूपे जाते-समुत्पन्ने सति प्रतिक्रमणं कर्तव्यं, कारणाभावे सर्वदाऽपि ते न प्रतिक्रामन्ति, अयमभिप्रायः-प्रथमपश्चिमजिनसाधूनामतिचारो भवतु वामा वा तथाऽप्यवश्यतया प्रभाते प्रदोषे च षडिघाऽऽवश्यकप्रतिक्रमणं गमनागमननद्यवतारादिषु च नियमेनेर्यापथिकाप्रतिक्रमणं कर्तव्यं, ऋजुजडवक्रजडतया तेषामुपकारित्वात् , मध्यमजिनमुनीनां पुनः प्रायेणातीचार एव न सम्भवति ऋजुप्रज्ञत्वात्तेषां, अथ कथञ्चित्कदाचनापि सम्भवति तदा तत्क्षणादेव रोगचिकित्सोदाहरणेन प्रतिक्रमणमुक्तरूपं कुर्वन्ति, यथा हि जातमात्र एव रोगे चिकित्सा क्रियमाणा सुखावहा भवति, एवं तत्काल एवातीचारविशुद्धये विधीयमानं प्रतिक्रमणमपीति ॥६५४॥'रायपिंड'त्ति व्याख्यानयनाह-'असणे'त्यादि, अशनादिचतुष्क-अशनपानखादिमस्वादिमरूपा आहाराश्चत्वारः वस्त्रं पात्रं कम्बलं पादप्रोब्छनकं चेत्येतान्यष्टौ 'नृपपिण्डे' नृपपिण्डविषये चक्रवादिसत्कानीत्यर्थः प्रथमान्तिमजिनयतीनां न कल्पन्ते, अनेकदोषसम्भवात् , तथाहि-राजकुले मिक्षार्थ व्रजतां यतीनामनवरतमस्तोकराजकुललोकनिर्गमप्रवेशादिभिः संमदिमङ्गलबुद्ध्या वा पात्रभङ्गदेहघातादयः सम्भवन्ति, चौरहेरिकघातकादिसम्भावनया राजकोपात्कुलगणसङ्घायुपघातश्च लोकमध्ये च गर्दा यथा अहो राजप्रतिप्रहमेते गर्हणीयमपि न परित्यजन्ति, गर्हणीयता च तस्य स्मातैरेवमुच्यते-"राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर! | खिन्नानामिव बीजानां, पुनर्जन्म न विद्यते ॥१॥" मध्यमजिनसाधूनां पुनर्नृपपिण्डः कल्पतेऽपि, ते हि अजुप्रज्ञत्वाद्विशेषतोऽप्रमादित्वेनोक्तदोषपरिहारप्रभविष्णवो भवन्ति, इतरे तु ऋजुजडवक्रजडत्वेन न तथेति ॥६५५॥ 'मास'त्ति प्रकटयन्नाह-पुरीत्यादि,पूर्वेतरतीर्थकराणां-प्रथमपश्चिमजिनसाधूनां मासकल्प:-एकत्र मासावस्थितिरूपःसमाचारः स्थित:-अवस्थितो निर्दिष्ट:-कथितः, तेषां मासकल्पाभावेऽनेकदोषसम्भवात् , उक्तं च-"पडिबंधो लहुयत्तं न जणुवयारोन देसविनाणं । नाणाराहणमेए दोसा अविहारपक्खंमि ॥१॥ अस्या व्याख्या-प्रतिबन्धः-शय्याशय्यातरादिवस्तुष्वमिष्वङ्गो भवति, तथा लघुत्वं-लाघवं, एते हि स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात्, तथा न जनोपकारो-न विविधदेशस्थितभव्यजनानामुपदेशदानादिमिर्गुणः कृतो भवति अथवा न देशान्तरस्थितसुविहितजनस्योपचारो-वन्दनादिपूजा जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् तथा न-नैव देशेषु-विविधमण्डलेषु सञ्चरतां विज्ञान-विचित्रलोकलोकोत्तरव्यवहारपरिज्ञानं तथा न-नैव आज्ञाराधनं-आगमोक्तार्थानुपालनं, आगमो ह्येवं-'मुत्तूण मासकप्पं अन्नो सुत्तमि नत्थि य विहारो। [मुक्त्वा मासकप्पं नास्त्यन्यः सूत्रे विहारः] एते-अनन्तरोक्ता दोषा:-दूषणान्यविहारपक्षे-मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोषसंयमाननुगुणत्वादिक्षेत्रदोषशरीराननुकूलभक्तलाभादिद्रव्यदोषग्लानत्वज्ञानहान्यादिभावदोषवशतो यद्यप्येष मासकल्पो न बहिर्वृत्त्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिमिः क्रियमाणत्वादवस्थितः, यदुक्तं-"कालाइदोसओ जइ न दव्वओ एस कीरई नियमा। भावेण उ कायव्वो संथारगवञ्चयाईहिं ॥१॥" [कालादिदोषतो यदि न द्रव्यत एष क्रियते । भावेन तु नियमात् संस्तारकव्यत्ययादिभिः कर्त्तव्यः ॥१॥] मध्यमजिनसाधूनां पुनरस्थितक:-अनवस्थितः एष:-मासकल्पो विज्ञेयो-ज्ञातव्यः, जुप्रज्ञत्वेन तेषामधिकावस्थानेऽपि पूर्वोक्तदोषासम्भवात् , उक्तं च-"दोसासइ मज्झिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरंति य वासासुवि 124
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy