________________
अकद्दमे पाणरहिए य ॥ १ ॥ मिन्नंपि मासकप्पं करंति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसुं ॥ २ ॥” [ दोषेवसत्सु मध्यमास्तिष्ठन्ति यावत् पूर्वकोटीमपि । विहरन्ति वर्षास्वपि च अकर्दमे प्राणरहिते च || १|| मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका अप्येवं एवमेव महाविदेहेषु ||२|| ] 'पज्जोसवण'त्ति व्याख्यानयन्नाह - 'पज्जो' इत्यादि, परि- सर्वथा वसनंएकत्र निवासो निरुक्तविधिना पर्युषणा तद्रूपः कल्पः पर्युषणाकल्पः न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानं उच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रत्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनं इतरेषां ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणं अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः, सोऽपि न केवलं मासकल्प एव, एवंउक्तक्रमेण, तमेवाह–पूर्वेतरादिभेदेन - आदिमान्तिममध्यम साधुविशेषेण, अयमर्थः - प्रथमपश्चिमजिनयतीनां पर्युषणाकल्पोऽत्रस्थितो मध्यमजिनमुनीनां त्वनवस्थित इति, अत्रैव विशेषमाह - उत्कर्षे तर भेदः - उत्कृष्ट जघन्यभेदः स पर्युषणाकल्पः, नवरं - केवलं भवति - स्याद्विज्ञेयः - अवसेय इति ।। ६५७ ।। एतावेव भेदौ व्याचष्टे - 'चाउ० ' चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्ष:- उत्कृष्टः प र्युषणाकल्पः, आषाढपूर्णिमाया: कार्तिकपूर्णिमां यावदित्यर्थः, जघन्यः पुनः सप्ततिं रात्रिन्दिवानि - अहोरात्राणि भाद्रशुक्लपच्चम्याः कार्ति - कपूर्णिमां यावदित्यर्थः केषामयं पर्युषणाकल्प इत्याह- स्थविराणां - - प्रथम पश्चिमजिनसम्बन्धिस्थविरकल्पिकसाधूनां जिनानां पुनः -पूर्वातिमतीर्थकृज्जिनकल्पिकानां नियमात्-निश्चयेन उत्कृष्ट एव - मासचतुष्टयप्रमाण एव पर्युषणाकल्पः, निरपवादत्वात्तेषामिति ।। ६५८ ।। इदानीं 'चेइय'त्ति एकोनाशीतितमं द्वारमाह—
भत्ती १ मंगलचेइय २ निस्सकड ३ अनिस्सकडचेइयं ४ वावि | सासयचेइय ५ पंचममुवइट्ठ जिणवरिंदेहिं ॥ ६५९ ॥ - गिहि जिणपडिमाए भत्तिचेइयं १ उत्तरंगघडियंमि । जिणबिंबे मंगलचेइति २ समयन्नुणो विंति ॥ ६६० ॥ निस्सकडं जं गच्छस्स संतियं तदियरं अनिस्सकडं ४ । सिद्धाययणं च ५ इमं चेहयपणगं विणिद्दिद्वं ॥ ६६१ ॥ नीयाई सुरलोए भक्तिकयाइं च भरहमाहिं । निस्सास्सिकयाइं मंगलकयमुत्तरंगंमि ॥ ६६२ ॥ वारन्तयस्स पुत्तो पडिमं कासीय चेइए रम्मे । तत्थ य थली अहेसी साहम्मियचेइयं तं तु ॥ ६६३ ॥
'भत्ती ०' गाथापंचकं, चैत्यशब्दस्य प्रत्येकमभिसम्बन्धाद्भक्तिचैत्यं मङ्गलचैत्यं निश्राकृतं चैत्यमनिश्राकृतं चैत्यं शाश्वतचैत्यं च पञ्चममुपदिष्टं - नामतः कथितं जिनवरेन्द्रैरिति ॥ ६५९ ॥ एतान्येव व्याचष्टे – 'गिही' त्यादि गाथाद्वयं गृहे जिनप्रतिमायां यथोक्तलक्षणाद्युपेतायां प्रतिदिनं त्रिकालं पूजावन्दनाद्यर्थ कारितायां भक्तिचैत्यं, तथा उत्तरङ्गस्य - गृहद्वारोपरिवरिवर्तितिर्यकाष्ठस्य मध्यभागे घटिते-निष्पादिते जिनबिम्बे मङ्गलचैत्यमिति 'समयज्ञाः' सिद्धान्तवेदिनो 'ब्रुवते' वदन्ति, मथुरायां हि नगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तथा चावोचाम स्तुतिषु - "जंमि सिरिपासपडिमं संतिकए करइ पडिगिहदुवारे । अज्जवि जणो पुरिं तं महुरमधन्ना न पेच्छति ॥ १ ॥” [ यस्यां श्रीपार्श्वप्रतिमां शान्तिकृते करोति प्रतिगृहे द्वारि । अद्यापि जनः तां पुरीं मधुरामधन्या न प्रेक्षन्ते ॥ १ ॥ ] तथा 'निश्राकृतं' यद्गच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते अन्यः पुनस्तत्र किश्वित्प्रतिष्ठादिकं कर्तुं न लभते इत्यर्थः, तथा 'तदियरं'ति तस्मात् - निश्राकृतादितरत् - अनिश्राकृतं यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रत्राजनकमालारोपणादीनि प्रयोजनानि कुर्वते इति, तथा 'सिद्धायतनं 'च' शाश्वतजिनायतनं च इदं चैत्यपञ्चकं 'विनिर्दिष्टं' विशेषेण कथितमिति ।। ६६० ।। ६६१ ।। अथवाऽन्येन प्रकारेण पञ्च चैत्यानि भवन्ति, तत्राह - 'नीयाई' इत्यादिगाथाद्वयं, 'नित्यानि' शाश्वतानि चैत्यानि तानि च 'सुरलोके' देवभूमौ उपलक्षणत्वान्मेरुशिखरे कूटनन्दीश्वररुचकवरादिषु च भवन्ति, तथा भक्तिकृतानि भरतादिभिः कारितानि, मकारोऽयमलाक्षणिकः, तानि च निश्राकृतानि अनिश्राकृतानि चेति द्वेधा, तथा मङ्गलार्थ कृतं मङ्गलकृतं चैत्यं मथुरादिपुरीषु उत्तरङ्गप्रतिष्ठापितं । तथा वारत्तकमुनेः पुत्रो 'रम्ये' रमणीये 'चैत्ये' देवगृहे 'प्रतिमां' तस्यैव वारत्तकमुनेः प्रतिकृतिमकार्षीत्, तत्र च स्थलीति रूढिरभूत्, तत्तु साधर्मिकचैत्यमिति, भावार्थस्तु कथानकादवसेयः, तचेदं - वारत्तकं नगरं, अभ यसेनो राजा, तस्य च वारत्तको नाम मत्री, एकदा च धर्मघोषनामा मुनिर्भिक्षार्थं तस्य गेहं प्रविष्टः, तद्भार्या च तस्मै मिक्षादानाय घृतखण्डसम्मिश्रपायसपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि ततः खण्डसम्मिश्रो घृतबिन्दुर्भूमौ पतितः, ततः स महात्मा धर्मघोषमुनिर्भगवदुपदिष्टमिक्षाग्रहणविधिविधानविहितोद्यमश्छर्दितदोषदुष्टेयं भिक्षा तस्मान्न कल्पते ममेति मनसि विचिन्त्य मिक्षामगृहीत्वा गृहान्निर्जगाम, वारत्तकमन्त्रिणा च मत्तवारणोपविष्टेन दृष्टो भगवान्निर्गच्छन्, चिन्तितं च- किमनेन मुनिना मदीया मिक्षा न गृहीतेति ?, एवं च यावश्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तघृतबिन्दु मक्षिकाः समेत्याशिश्रियन् तासां च भक्षणाय प्रधाविता गृहगोधिका तस्या अपि वधाय प्रधावितः सरटः तस्यापि च भक्षणाय प्रधावति स्म मार्जारी तस्या अपि वधाय प्रधावितः प्राघूर्णकः श्वा तस्यापि च वधाय प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा ततो द्वयोरपि तयोः शुनोरभूदन्योऽन्यं युद्धं निजनिजशुनकपराभवपीडया च प्रधावितयोर्द्वयोरपि तत्स्वामिनोर भूत्परस्परं लकुटालकुटि महायुद्धं दृष्टं चैतत्सर्वमपि वारत्तकमन्त्रिणा, परिभावितं च घृतादेर्बिन्दुमात्रेऽपि भूमौ पतिते यत एवंविधाऽधिकरणप्रवृत्तिः अत एवाधिकरणभीरुर्भगवान्, अहो सुदृष्टो भगवता धर्मः, को हि नाम भगवन्तं
125