________________
वीतरागमन्तरेणैवमनपायं धर्ममुपदेष्टुमलंभविष्णुः, ततो ममापि स एव देवता तदुक्तमेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संसारसुखविमुखः शुभध्यानोपगतः सञ्जातजातिस्मरणो देवताऽर्पितसाधुलिङ्गो दीर्घकालं संयममनुपालय केवलज्ञानमासादितवान्, कालक्रमेण च सिद्धः, ततस्तत्पुत्रेण स्नेहापूरितमानसेन देवगृहं कारयित्वा रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता सत्रशाला च तत्र प्रवर्तिता सा च साधर्मिकस्थलीति सिद्धान्ते भण्यते ७९ ।। ६६२ ।। ६६३ ॥ इदानीं 'पुत्थगपंचगं' ति अशीतितमं द्वारमाहगंडी १ कच्छवि २ मुट्ठी ३ संपुडफलए ४ तहा छिवाडी य ५ । एयं पोत्थयपणगं वक्खाणमिणं भवे तस्स ॥ ६६४ ॥ बाहल्लपुहुत्तेहिं गंडीपोत्थो उ तुल्लगो दीहो १ । कच्छवि अंते तणुओ मज्झे पिलो मुणेव्व ॥ ६६५ ॥ चउरंगुलदीहो वा वागि मुट्टिपुत्थगो अहवा । चउरंगुलदीहो चि चउरंसो होइ विन्नेओ ।। ६६६ || संपुडगो दुगमाई फलया वोच्छं छिवाडिभित्ताहे । तणुपत्तूसियरूवो होइ छिवाडी वहा बेंति ।। ६६७ ।। दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो । तं मुणिय समयसारा छिवाडिपोत्थं भणंतीह ॥ ६६८ ।।
'गंडी ० ' गाथापंचकं, गण्डिकापुस्तकं कच्छपीपुस्तकं मुष्टिकापुस्तकं संपुटफलकपुस्तकं छेदपाटिपुस्तकं च एतत्पुस्तकपञ्चकं च ज्ञातव्यमिति शेषः, तस्य च - पुस्तकपञ्चकस्य इदं वक्ष्यमाणं व्याख्यानं भवेदिति ॥ ६६४ ॥ तदेवाह - ' बाहल्ले' त्यादि गाथाचतुष्टयं, बाहल्यं-पिण्डः पृथुत्वं-विस्तरः ताभ्यां तुल्यः -- समानञ्चतुरस्रो दीर्घश्च गण्डीपुस्तको ज्ञेयः, तथा कच्छपीपुस्तक उभयपार्श्वयोरन्ते - पर्यन्तभागे तनुकः-सूक्ष्मो मध्यभागे च् पृथुलो - विस्तृतोऽल्पबाहल्यो ज्ञातव्यः तथा चतुरङ्गुलः - अङ्गुलचतुष्टयप्रमाणः प्राकृतत्वात् सेर्लोपः दीर्घो वा आयतो वृत्ताकृतिः - वर्तुलाकारो मुष्टिपुस्तकः, अथवा चतुरङ्गुलदीर्घ एव-अङ्गुलचतुष्कायाम एव चतुरस्रः - चतुष्कोणो मुष्टि पुस्तको भवति विज्ञेयः, तथा सम्पुटफलकपुस्तको यत्र द्वयादीनि उभयोः पार्श्वयोः फलकानि - पृष्ठकानि भवन्ति, वणिग्जनस्य उद्धारनिक्षेपाद्याधारः सम्पुटकाख्य उपकरणविशेष इति भावः, इदानीं वक्ष्ये छेदपाटीपुस्तकं, यथा तनुभिः - स्तोकैः पत्रैरुच्छ्रितरूपः - किञ्चिदुन्नतो भवति छेदपाटीपुस्तक इति बुधा ब्रुवते, लक्षणान्तरमाह - दीर्घो वा - महान् ह्रस्वो वा -लघुर्यः पृथुलो - विस्तृतोऽल्पबाहल्यश्च - स्वल्पपिण्डो भवति तं ज्ञातसमयसाराश्छेदपाटीपुस्तकं भणन्तीह - शासने, न चैतत्स्वमनीषिकया व्याख्यायते, यदुक्तं निशीथचूर्णो — 'दीहो बाहल - पुहुत्तेण तुल्लो चतुरस्सो गंडीपुत्थगो, अंते तणुओ मज्झे पिहुलो अप्पबाहल्लो कच्छभी, चतुरङ्गुलो दीहो वा वृत्ताकृति मुट्ठीपुत्थगो, अहवा चतुरङ्गुलदीहो चउरस्सो मुट्ठिपुत्थगो, दुगाइफलगा संपुडगं, दीहो हस्सो वा पिहुलो अप्पबाहल्लो छिवाडी, अहवा तणुपत्तेर्हि उस्सिओ छिवाडी "त्ति ८० ।। ६६५ ।। ६६६ ।। ६६७ ।। ६६८ ॥ इदानीं 'दंडपंचगं' ति एकाशीतितमं द्वारमाह
लट्ठी १ तहा विलट्ठी २ दंडो य ३ विदंडओ य ४ नाली अ ५ । भणियं दंडयपणगं वक्खाणमिणं भवे तस्स || ६६९ ॥ लट्ठी आयपमाणा विलट्ठी चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खभित्तो उ ॥ ६७० ॥ लट्ठीए चउरंगुल समूसिया दंडपंचगे नाली । नइपमुहजलुत्तारे तीए थग्विज्जए सलिलं ॥ ६७१ ॥ बज्झइ लट्ठीए जवणिया विलट्ठीऍ कत्थइ दुवारं । घट्टिी
इ ओवस्सयतणयं तेणाइरक्खट्ठा ॥ ६७२ ॥ उउबद्धमि उदंडो विदंडओ धिप्पए वरिसयाले । जं सो लहुओ निज्जइ कप्पंतरिओ जलभरणं ॥ ६७३ ॥ विसमाइ वद्धमाणाइं दस य पवाई एगवन्नाई । दंडेसु अपोल्लाई सुहाई सेसाई असुहाई ॥ ६७४ ॥
'लट्ठी०' गाथाषटुं, यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चकं भणितं तीर्थकरगणधरैः, तस्य च - दण्डपञ्चकस्य इदं वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् । एतदेवाह - 'लट्ठी' इत्यादि सार्धगाथा, यष्टिरात्मप्रमाणः - सार्धहस्तत्रयमानः, वियष्टिर्यष्टेः सकाशाच्चतुर्भिरङ्गुलैः परिहीनो न्यूनो भवति, दण्डो बाहुप्रमाणः स्कन्धप्रदेशप्रमाणः विदण्डः कक्षामात्रकः - कक्षाप्रमाणः, नालिका यष्टेः सकाशाश्चतुरङ्गुलसमुच्छ्रिता - आत्मप्रमाणाश्चतुर्भिरङ्गुलैर तिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः, दण्डपञ्चके - दण्डप -
कमध्ये नाली नाम दण्डः पञ्चम इति ॥ इदानीं एतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिपिपादयिषुरनानुपूर्व्या अपि व्याख्याङ्गत्वात्प्रथमं नालिकायाः प्रयोजनमाह - 'नइपमुहजलुत्तारे तीए थग्धिजए सलिलं । नदीप्रमुखजलोत्तारे - नदीहदादिकमुत्तरीतुमनोमिर्मुनिभिस्तया नालिकया स्ताध्यते - सलिलं इदं गाधमगाधं वा इति परिमीयते ॥ ६६९ ॥ ६७० ॥ ६७१ ॥ अथ यष्ट्यादीनां प्रयोजनमाह - 'बज्झे 'त्यादि, यष्ट्या - यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थं यवनिका - तिरस्करिणी बध्यते, तथा वियष्ट्या - वियष्टिदण्डकेन कुत्रापि प्रत्यन्तप्रामादौ तस्करादिरक्षणार्थमुपाश्रय सत्कं द्वारं घट्टयते - आहन्यते, येन खाट्कारश्रवणात् तस्करशुनकादयो नश्यन्तीति, तथा ऋतुबद्धे काले मिक्षा भ्रमणादिवेलायां दण्डको गृह्यते, तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां गवाश्वादीनां बहुपदानां शरभादीनां निवारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौरादिभये प्रहरणं भवति, वृद्धस्य च अवष्टम्भन हेतुर्भवतीत्यादिप्रयोजनं, वर्षाकाले विदण्डको गृह्यते, यद् - यस्मात्स लघुको भवति ततः कल्पान्तरितः – कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते,
126