SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जलभयेन-यथाऽप्कायेन न स्पृश्यत इति ।। ६७२ ।। ६७३ ।। इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाह - 'विसे' त्यादि, पूर्वोतेषु पञ्चसु दण्डकेषु पर्वाणि - प्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः, तत्र विषमाणि - एकत्रिपञ्चसप्तनवरूपाणि तथा दश च - दशसङ्ख्यानि तथा वर्धमानानि - उपर्युपरि प्रवर्धमानमानानि तथा एकवर्णानि न पुनश्चित्तलकानि तथा 'अपोल्लाई' अशुषिराणि निबिडानीत्यर्थः एवंविधविशेषणविशिष्टपर्वोपेताः स्निग्धवर्णा मसृणा वर्तुलाश्च दण्डका यतिजनस्य प्रशस्ता इति भावः, 'सेसाई असुहाई'ति शेषाणि - पूर्वोक्तविशेषणविपरीतस्वरूपाणि पर्वाणि अशुभानि - अप्रशस्तानीति, एकादिपर्वाणां च शुभाशुभफल मित्थमोघनियुक्तावुक्तं, यथा – “एगपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपन्ना, चउपव्वा मारणंतिया ॥ १ ॥ पंचपव्वा य जा लट्ठी, पंथे कलहनिवारिणी । छपव्वाए य आयंको, सत्तपव्वा निरोगिया ॥ २ ॥ अट्ठपव्वा असंपत्ती, नवपव्वा जसकारिया । दसपव्वा उजा लट्ठी, तहियं सव्वसंपया ॥ ३ ॥” इति ८१ ।। ६७४ ।। इदानीं 'तणपणगं' ति द्व्यशीतितमं द्वारमाह तणपणगं पुण भणियं जिणेहिँ जियरागदोसमोहेहिं । साली १ वीहिय २ कोदव ३ रालय ४ रन्ने तणाई च ५ ॥ ६७५ ॥ तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमोहैर्यथा शालिव्रीहिककोद्रवरालकसम्बन्धीनि तृणानि - पलालप्रायाणि अरण्ये - अरण्यविषयाणि च तत्र शालयः - कलमशालिप्रभृतयः व्रीहय: - षष्टिकादयः कोद्रवो-धान्यविशेषः प्रतीतः रालकः - कविशेष: अरण्यतृणानि - श्यामाकप्रमुखानि ।। ८२ ।। ६७५ ।। इदानीं 'चम्मपंचगं' ति त्र्यशीतितमं द्वारमाह ! अय १ एल २ गावो ३ महिसी ४ मिगाणमजिणं च ५ पंचमं होइ । तलिगा १ खल्लग २ बद्धे ३ कोसग ४ कित्ती य ५ बीयं तु ॥ ६७६ ॥ अजाः-छगलिकाः एडका - अजविशेषाः गावो महिष्यश्च प्रतीताः मृगा- हरिणाः, एतेषां सम्बन्धीनि पञ्च अजिनानि - चर्माणि भवन्ति, अथवा द्वितीयादेशेन इदं चर्मपञ्चकं, यथा- 'तलिग'त्ति उपानहस्ताश्च एकतलिकाः, तदभावे यावश्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौ गम्यमाने सार्थवशादिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेनश्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः पादयोः क्रियन्ते यद्वा कश्चित्सुकुमारपादत्वाद्गन्तुमसमर्थो भवति ततः सोऽपि गृह्णातीति, तथा खल्लकानि - पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तृणादिभिर्दूयते यद्वा कस्यचित्सुकुमारपादत्वात् शीतेन पार्ण्यादिप्रदेशेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थं तानि पादयोः परिधीयन्ते, तथा 'वद्धे'त्ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थं गृह्यन्ते, तथा कोशकः—चर्ममय उपकरणविशेषः, यदि हि कस्यचित्पादनखाः पाषाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेष्वङ्गुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः, तथा कृत्तिः - मार्गे दावानलभयाद्गच्छे यच्चर्म धियते यत्र वा प्रचुरः सचित्तपृथिवीकायो भवति तत्र पृथिवीकाययतनार्थं कृत्तिमास्तीर्य अवस्थानादि क्रियते यद्वा कदाचित्तस्करैर्मुषिता भवेयुस्ततोऽन्यप्रावरणाभावे ताप प्रावृण्वन्तीत्येतद् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं भवति ८३ ॥ ६७६ ॥ इदानीं 'दूसपंचगं' ति चतुरशीतितमं द्वारमाह अपडिलेहियदूसे तूली १ उवहाणगं च २ नायव्वं । गंडुवहाणा ३ ऽऽलिंगिणि ४ मसूरए ५ चेव पोत्तमए ॥ ६७७ ॥ पल्हूवि १ कोयवि २ पावार ३ नवयए ४ तह य दाढिगाली य ५ । दुप्पण्डि - लेहिय से एवं बीयं भवे पणगं ।। ६७८ ॥ पल्हवि हत्थुत्थरणं कोयवओ रूपपूरिओ पडओ । दढगाली घोयपोती सेस पसिद्धा भवे भेया ॥ ६७९ ॥ खरडो १ तह वोरुट्ठी २ सलोमपडओ ३ तहा हवइ जीणं ४ । सदसं वत्थं ५ पल्हविपमुहाणभिमे उपजाया ।। ६८० ॥ 'अप्पे' व्यादिगाथाचतुष्कं, दूष्यं वस्त्रं, तद् द्विविधं- अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितुं शक्यते तदप्रत्युपेक्षं, यच्च सम्यक् न शक्यते प्रत्युपेक्षितुं तद् दुष्प्रत्युपेक्षं, तत्र अप्रत्युपेक्षितदूष्यपथ्वकं यथा - तूली - सुसंस्कृतरूतभृतोऽर्कतूलादिभृतो वा विस्तीर्णः शयनीयविशेषः, तथा उपधानकं-हंसरोमादिपूर्णमुच्छीर्षकं, तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डोपधानिका गल्लमसूरिकेत्यर्थः, तथा जानुकूर्परादिषु या दीयते सा आलिङ्गिनी, तथा वस्त्रकृतं चर्मकृतं वा वृत्तं बूर्यादिपूर्णमासनं मसूरक:, एतानि सर्वाण्यपि पोतमयानि - वस्त्रमयानि प्रायेणेति ॥ ६७७ ॥ अथ दुष्प्रत्युपेक्षितपश्वकमाह - पल्लविः कोयविः प्रावारकः नवतकं तथा दृढगालिश्च एतद् दुष्प्रत्युपेक्षितदूष्यविषयं द्वितीयं पञ्चकं भवेत् ।। ६७८ ॥ अथैतदेव व्याख्यानयन्नाह - पल्हविः - इस्त्यास्तरणं, हस्तिनः पृष्ठे यदास्तीर्यते खरड इत्यर्थः ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुक्ता वा ते सर्वेऽप्यत्रान्तर्भवन्ति, यदुक्तं निशीथचूण“जे य वडुअत्थरगइच्चाई माणभेआ मट्ठरोमा उल्लुतरोमा वा ते सव्वे इत्थ निवयंति”त्ति 'वड्डु अत्थरगाइ'ति यः किल उष्ट्रोपरि न्यस्यते, तथा कोयविको - रूतपूरितः पटः, वूरुट्ठीति यदुच्यते, ये चान्ये उल्बणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति, उक्तं च—“जे अन्ने एवमाइभेआ उब्वणरोमा कंबलगाइआ ते सव्वे इत्थ निवयंति”त्ति, तथा दृढगालिधौतपोतिका ब्राह्मणानां सम्बन्धि सदशं परिधानवस्त्रमित्यर्थः, ये चान्ये द्विसरसूत्रपटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति, उक्तं च – “विरलिमाई भूरिभेआ सव्वे इत्थ 127
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy