________________
निवयंति "त्ति, विरलिमाइति - दोरियाप्रमुखाः, शेषौ च - प्रावारनवतकलक्षणौ प्रसिद्धावेव भेदौ, तत्र प्रावारः - सलोमकः पटः, स च माणिकप्रभृतिकाः, अन्ये तु प्रावारको - बृहत्कम्बलः परियच्छिर्वेत्याहुः, नवतं च- जीणमिति ॥ ६७९ ॥ अथ पल्हविप्रमुखाणां पश्यनामपि सुखावबोधार्थं क्रमेण पर्यायानाह - 'खरे' त्यादि, इयं च व्याख्यातार्था ८४ ॥ ६८० ॥ इदानीं 'पञ्च अवग्गहभेय'त्ति पथवाशीतितमं द्वारमाह
देविंद १ राय २ हिवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । अणुजाणाविय साहूण कप्पए सव्वा वसि ॥ ६८१ ॥ अणुजाणावेयवो जईहिं दाहिणदिसाहिवो इंदो १ । भरहंमि भरहराया २ जं सो छक्खंडमहिनाहो ॥ ६८२ ।। तह गिहवईवि देसस्स नायगो ३ सागरित्ति सेज्ज - वई ४ | साहम्मिओ य सूरी जंमि पुरे विहियवरिसालो ५ ॥ ६८३ ॥ तप्पडिबद्धं तं जाव दोणि मासे अओ जईण सया । अणणुन्नाए पंचहिवि उग्गहे कप्पइ न ठाउं ॥ ६८४ ॥
'देविंदे' त्यादिगाथाचतुष्कं देवेन्द्रराजगृहपति सागारिकसाधर्मिकाणां सम्बन्धिनः पञ्चावग्रहाः - आभवनव्यवहारा भवन्ति, ततस्ताननुज्ञाप्य साधूनां - व्रतिनां कल्पते सर्वदा वस्तुं वासं कर्तु नान्यथेति ॥ ६८१ ॥ एतदेव व्यक्तं व्याचष्टे - 'अणुजाणावेयवे' त्यादि गाथात्रयं, इह लोकमध्यवर्तिनो मेरुमहामहीधरस्य बहुमध्यभागे ऊर्द्धाधः प्रतररूपा तिर्यक् च एकप्रादेशिकी श्रेणिरस्ति, तया च सर्वोपिलोको द्विधाकृतो- दक्षिणार्धमुत्तरार्ध च तत्र दक्षिणार्ध शक्रस्याभवति उत्तरार्ध च ईशानस्य ततो दक्षिणार्धवर्तिभिर्यतिभिर्दक्षिणदिशाया - दक्षिण लोकार्धस्याधिपतिरिन्द्रः शक्राभिधोऽनुज्ञापयितव्यः उत्तरार्धवर्तित्र तिमिस्तु ईशानेन्द्रः १, तथा चक्रवत्र्यादयो राजानो यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाणं क्षेत्रं राजावग्रहः, तत्र तिर्यग् मागधादिषु तीर्थेषु यावश्ञ्चक्रवर्तिनः शरो व्रजति ऊर्द्धमपि क्षुल्लहिमवद्गिरौ चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत्, उक्तं च कल्पचूण - 'उडुं जाब सरो चेव चुल्लहिमवंतकुमार मेरा वच्चति चउसट्ठि जोयणाणि सुत्ताएसेण बावतारं 'ति, अधस्तु गर्तावटादिषु ततो भरतक्षेत्रे भरतश्चक्री यतिभिरनुज्ञापयितव्यः,
यस्मात्कारणात् स षट्खण्डमहीनाथः, उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः, एवमैरवतादिष्वपि निजनिजचक्रवर्तिनः २, तथा गृहपतिः - देशस्य - मण्डलस्य नायक:- अधिपतिः तदवग्रहे - तदधिष्ठितमण्डलरूपे वसद्भिः सोऽप्यनुज्ञापयितव्यः ३, तथा सागारिकः - शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य वृत्तिवरण्डकादिपरिक्षिप्तगृहादिरूपे तदवग्रहे स्थातव्यं, एष च तिर्यक् विज्ञेयः, अधस्तु द्वयोरपि गृहपतिसागारिकयोर्वापीकूप भूमिगृहादिपर्यन्तः ऊर्द्ध पुनः पर्वतपादपादिशिखरान्तोऽवग्रह इति ४, तथा समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः सूरिः - आचार्यः, उपलक्षणत्वादुपाध्यायादिश्च ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकालः–कृतचतुर्मासकस्तन्नगरं गव्यूतपञ्चकादर्वाक् तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ, एते पश्च अवग्रहाः, अतः पञ्चभिरेतैर्देवेन्द्रादिभिरननुज्ञाते अवग्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुं - अवस्थानं कर्तुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहेण देवेन्द्रावग्रहो बाधितः तथाहि - राजावग्रहे राज्ञ एव प्राधान्यं न देवेन्द्रस्य ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति, एवं राजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ।। ८५ ।। ६८२ ।। ६८३ ।। ६८४ ॥ इदानीं 'परीसह 'त्ति षडशीतं द्वारमाह
1
खुहा १ पिवासा २ सी ३ उन्हं ४, दंसा ५ चेला ६ र ७ स्थिओ ८ । चरिया ९ निसीहिया १० सेज्जा ११, अक्कोस १२ वह १३ जायणा १४ ।। ६८५ ।। अलाभ १५ रोग १६ तणफासा १७, मल १८ सक्कार १९ परीसहा । पन्ना २० अन्नाण २१ सम्मत्तं २२, इइ बावीसं परीसहा ॥ ६८६ ॥ दंसणमोहे दंसणपरीसहो पन्नानाण पढमंमि । चरमेऽलाभपरीसह सत्तेव चरित्तमोहम्मि ॥ ६८७ || अक्कोस अरह इत्थी निसीहियाऽचेल जायणा चेव । सक्कारपुरकारे एक्कारस वेयणिज्जंमि ॥ ६८८ ॥ पंचेव आणुपुत्री चरिया ६ सेज्जा ७ तहेव जल्ले य ८ । वह ९ रोग १० तणफासा ११ सेसेसुं नत्थि अवयारो ॥ ६८९ ॥ बावीसं बायरसंपराय चउद्दस य सुहुमरायम्मि । छउमत्थवीयरागे चउदस एक्कारस जिणंमि ॥ ६९० ॥ वीसं उक्कोसपए वहति जहन्नओ य एक्को य। सीओसिणचरियनिसीहिया य जुगवं न वर्हति ॥ ६९९ ॥
'खुहे' त्यादिगाथासप्तकं, मार्गाच्यवनार्थ निर्जरार्थं च परि-सामस्त्येन सह्यन्त इति परीषहाः, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहच, शेषा विंशतिर्निर्जरार्थ, एते च द्वाविंशतिसङ्ख्याः क्षुत्पिपासाशीतोष्ण दंशा चेलारति स्त्री चर्यानैषेधि कीशय्याऽऽक्रोशवधयाच्याऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वानि, अमीषां च यथाक्रमं सङ्क्षेपतोऽयमर्थः - क्षुद्वेदनामुदितामशेषवेदनातिशायिनीं सम्यग्विषमाणस्य जठरान्तर्विदाहिनीमागमविहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषह विजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, अयं चाशेषपरीषहाणां मध्येऽतिदुस्सह इत्यादावुपन्यस्तः १ तदनु बुभुक्षापीडितस्य तदुपशमनायोश्चावचेषु गृहेषु हिण्डमानस्य श्रमवशात् तृष्णा जायते, ततः पिपासापरीषहो द्वितीयस्थाने, एवमप्रेतनपरीषाणामप्युत्तरोत्तरभणने कारणं ज्ञातव्य
128