________________
मिति, तत्र पातुमिच्छा-पिपासा सैवात्यन्तव्याकुलीकरणहेतुरपि शीतलजलाद्यप्रार्थनतः परिषह्यमाणा पिपासापरीषहः, एषणीयभावे तु प्राणिदयालुना समग्रमनेषणीयं परिहरता शरीरस्थितिः कार्या २ तथा 'श्यैङ्गतावित्यस्य गत्यर्थत्वात् कर्तरि क्तः, ततो 'द्रवमूर्तिस्पर्शयोः श्य' ( पा०६-१-२४ ) इति सम्प्रसारणे स्पर्शवाचित्वाच्च 'श्योऽस्पर्शे' ( पा० ८-२-४७ ) इति नत्वाभावे शीतं - शिशिरस्पर्शः तदेव परीषहः शीतपरीषहः, शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय आगमोक्तेन विधिना एषणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा, नापि शीतार्तो ज्वलनं ज्वालयेत् अन्यज्वालितं वा न सेवेत, एवमनुतिष्ठता शीत परीषहजयः कृतो भवति ३ तथा 'उष् दाहे' इत्यस्य उणादिनक्प्रत्ययान्तस्योष्णं - निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषद उष्णपरीषहः, उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वांछेत, न चातपत्राद्युष्णत्राणायाददीत, किन्तूष्णमापतितं सम्यक्सहेत, एवमनुतिष्ठतोष्णपरीषहजयः कृतो भवति ४ तथा दशन्ति-भक्षयन्ति इति पचाद्यचि दंशाः मशकयूकामत्कुणादिक्षुद्रसत्त्वोपलक्षणमेतत् त एव परीषहो दंशपरीषहः, दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत्, न च तदुपनयनार्थं धूमादिना यतेत, नापि व्यजनादिना तन्निवारयेदित्येवं दंशादिपरीषद्दजयः कृतः स्यात्, एवमन्यत्रापि क्रिया योज्या ५ तथा चेलस्याभावोऽचेलं जिनकल्पिकादीनां अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमप्यचेलमुच्यते, यथा कुत्सितं शीलमशीलमिति, तदेव परीषहोऽचेलपरीवहः, अमहामूल्यानि खण्डिता मलिनानि च वासांसि साधुर्धारयेत्, न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्रं नास्ति नापि तथाविधो दातेति दैन्यं गच्छेत्, अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति ६ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः सैव परीषहोऽरतिपरीषहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव भवितव्यं ७ तथा स्त्यायतेः स्तृणातेर्वा त्रुटि टिश्वात् ङीपि स्त्री सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकने ऽपि ' त्वग्रुधिरमांस मेदस्नाय्वस्थिसिरान्रणैः सुदुर्गन्धि । कुचनयनजघनवदनोरुमूच्छितो मन्यते रूपम् ॥ १ ॥ तथा - निष्ठीवनं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् । कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजते ॥ २ ॥' इत्यादितत्स्वरूपपरिभावनातः परिषह्यमाणत्वात्परीषहः स्त्रीपरीषहः, अयमर्थ:-न स्त्रीणामङ्गप्रत्यङ्गस्थानहसितललितविभ्रमाद्याश्चित्ताक्षेपकारिणीश्चेष्टाश्चिन्तयेत्, न जातुचिचक्षुरपि तत्र निक्षिपेत् मोक्षमार्गार्गलासु ललनासु कामबुद्धयेति ८ तथा चरणं चर्या द्रव्यतो प्रामानुप्रामविहरणात्मिका भावतस्त्वेकस्थानमधितिष्ठतोऽप्यप्रतिबद्धता सैव परीषहचर्यापरीषहः, वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिर्निर्ममत्वात्प्रतिमासं चर्यामाचरेदिति ९ तथा निषेधनं निषेधः - पापकर्मणां गमनादिक्रियायाश्च प्रतिषेधः स प्रयोजनं यस्याः सा नैषेघिकी - शून्यागारस्मशानादिका स्वाध्यायादिभूमिः सैव परीषहो नैषेधिकीपरीषहः, अन्यत्र तु निषद्येत्येवं पठ्यते, तत्र निषीदन्त्यस्यामि निषद्या—स्थानं स्त्रीपशुपण्डकविवर्जितं तत्र इष्टानिष्टोपसर्गान् अनुद्विद्मः सम्यक्सहेत १० तथा शेरतेऽस्यामिति शय्या - उपाश्रयः संस्तारको वा सैव परीषहः शय्यापरीषहः समविषमभूमिकं पांशूत्करप्रचुरमतिशिशिरं बहुधर्मकं वा उपाश्रयं वा मृदुकठिनादिभेदेनोच्चावचं संस्तारकं वा प्राप्य न कदाचिदप्युद्विजेत् ११ तथा आक्रोशनमाक्रोशः - अनिष्टवचनं स एव परीषहः आक्रोशपरीषहः तद्यदि सत्यं तर्हि कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति, अनृतं चेत् सुतरां कोपो न कर्तव्यः, उक्तं च - "आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोप: ? स्यादनृतं किमिह कोपेन ? ॥ १ ॥" इत्यादि परिभाव्य न कोपं कुर्यात् १२ तथा हननं वधः-ताडनं स एव परीषहो वधपरीषहः, परैर्हि दुरात्मकैः पाणिपाणिलत्ताकशादिमि: प्रद्वेषादितस्ताडनं क्रियमाणं सम्यक्सहेत, न पुनः कोपकलुषितान्तः करणो भवेत्, चिन्तयेच्च - अन्यदेवेदं शरीरमात्मन: पुद्गलसंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंसयितुं, अतः स्वकृतफलमुपनतमिदं ममेति १३ तथा याचनं याञ्चा प्रार्थनेत्यर्थः सैव परीषहो याभ्यापरीषहः, मिक्षोर्हि वस्त्रपात्रान्नपानप्रतिश्रयादि परत एव सर्वमपि लभ्यं, शालीनतया च यद्यपि याञ्चां कर्तुं न शक्नोति तथापि त्रपामपहाय प्रागल्भ्यभाजा सखाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति १४ तथा लम्भनं लाभो न लाभोऽलाभः - अभिलषितविषयाप्राप्तिः स एव परीषहोऽलाभपरीषहः, याचनीयालाभेऽपि - "बहु परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥ १ ॥” [ बहु परगृहेऽस्ति विविधं खाद्यस्वाद्यं । न तत्र पण्डितः कुप्येत् इच्छा परो दद्यात् न वा ॥ १ ॥ ] इत्यादि परिभाव्य प्रसन्नचेतसाऽविकृतवदनेन च भवितव्यं १५ तथा रोगः - कण्डूज्वरादिरूपः स एव परीषहो रोगपरीषहः, ज्वरकासश्वासादिके सत्यपि न गच्छनिर्गता जिनकल्पिकादयश्चिकित्साविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्तीति १६ तथा तरन्तीति तृणानि, औणादिको नक् ह्रस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः, अशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छवासिनां च यतीनां तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावीषदार्द्रतादियुक्तायामास्तीर्य संस्तारोत्तरपट्टकौ च दर्भा - णामुपरि विधाय शेरते, चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाप्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्श सम्यक् सहेतेति १७ तथा मलः - प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः स एव परीषहो मलपरीषहः, मलो हि वपुषि स्थिरतां गतो ग्रीष्मोष्मसन्तापजनितधर्मजलार्द्रतां प्राप्तो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदुपनयनाय न कदाचिदभिषेकाद्यमिलाषं कुर्यादिति १८ तथा सत्कारो भक्तपानान्न वस्त्रपात्रप्रदानवन्दनाभ्युत्थानासनसम्पादनस
129