SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भूतगुणोत्कीर्तनादिरूपा प्रतिपत्तिः स एव परीषहः सत्कारपरीषहः, सत्कारं हि परस्माज्जायमानं दृष्ट्वा नोत्कर्षाद्याकुलं चेतः कुर्यात् असत्कारितो वा न प्रद्वेषं व्रजेत् १९ तथा प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा- बुद्ध्यतिशयः स एव परीषहः प्रज्ञापरीषहः, मनोज्ञप्रज्ञाप्राग्भारप्राप्तौ हि न गर्वमुद्वहेत्, प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परीषहो भवति नाहं किञ्चिज्जाने मूर्खोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तत्परीषह्जयः २० तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं श्रुताख्यं तदभावोऽज्ञानं स एव परीषहोऽज्ञानपरीषहः, आगमशून्योऽहमिति न मनसि खेदं विदध्यात् एतत्प्रतिपक्षेणापि ज्ञानेन परीषहो भवति, ततः समग्रश्रुतपारगोऽहमिति नोत्सेकं गच्छेदिति २१ तथा सम्यक्त्वं सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषदः सम्यक्त्वपरीषहः, आवश्यके तु असम्यत्तत्वपरीषह इति पठितं, तत्र चैवं व्याख्या - सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निस्सङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्न प्रेक्षे ततो मृषा समस्तमेवेदमिति असम्यक्त्वपरीषदः, तत्रैवमालोचयेत्-धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिकौ धर्माधर्मौ ततः स्वानुभवादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्षमानुभावाच न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवाति तीव्र वेदनार्त्ताः पूर्वकृतदुष्कर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषहजयो भवतीति, इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति न न्यूनाधिकाः परीषहा भवन्तीति । सम्प्रत्येतेषां द्वाविंशतेरपि परीषाणां समवतारश्चिन्त्यते - स च द्वेधा-प्रकृतिसमवतारो गुणस्थानकसमवतारश्च तत्र प्रकृतिसमवतारे ज्ञानावरणवेदनीयमोहनीयान्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशतिरपि परीषहाः समवतरन्ति ।। ६८५ ॥ ६८६ ।। तत्र च यस्य यत्रावतारस्तमाह - 'दंसणे' त्यादि गाथात्रयं मोहनीयं द्विधा चारित्रमोहनीयं दर्शनमोहनीयं च, तत्र दर्शनमोहे - मिथ्यात्वादित्रयलक्षणे दर्शनपरीषहः - सम्यक्त्वपरीषह एकोऽवतरति, तदुदये तस्य भावात्, तथा 'पन्न नाण'त्ति प्राकृतत्वेन प्रथमाद्विवचनलोपात् प्रज्ञाऽज्ञाने -प्रज्ञापरीषहोऽज्ञानपरीषहश्च प्रथमे - ज्ञानावरणकर्मण्यवतरतः, तत्क्षयोपशमोदयाभ्यामनयोः सद्भावात्, तथा चरमे - अन्तरायकर्मणि अलाभपरीषहोऽवतरति, लाभान्तरायोदयनिबन्धनत्वादलाभस्य, तथा चारित्रमोहे - चारित्रमोहनीयनानि मोहनीयभेदे आक्रोशारति स्त्रीनैषेधिक्यचेलयाच्या सत्कारपुरस्कारलक्षणाः सप्तैव परीषहा अवतरन्ति, अयमर्थः - क्रोधोदयादाक्रोशपरीषहः अरतिमोहनीयोदयादरतिपरीषदः पुंवेदोदयात्स्त्रीपरीषहः भयकर्मोदयान्नैषेधिकीपरीषहः जुगुप्सोदयादचेलपरीषहः मानोदयाद्याच्यापरीषहः लोभोदयात्सत्कारपुरस्कारपरीषह इति, अत्र च सत्कारो - वस्त्रादिभिः पूजनं पुरस्कार : - अभ्युत्थानादिप्रतिपत्तिः यद्वा सत्कारेण पुरस्कारः–पुरस्करणं ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषह इति, तथा एकादश परीषदा वेदनीयेऽवतरन्ति तदुदयाद्भवन्तीत्यर्थः, ते चैते 'पञ्चेव आणुपुषि' पश्चैव - पञ्चसङ्ख्या एव, ते च कचिदनानुपूर्व्या अपि व्याख्याङ्गत्वात्तयाऽपि स्युरित्याह-आनुपूर्व्या-परिपाट्या क्षुत्पिपासाशीतोष्णदंशमशकाख्या इतियावत् तथा चर्या शय्या 'जल्ले य'त्ति जल्लो - मलः, वधो रोगस्तृणस्पर्शश्चेत्येकादश, शेषेषु-पूर्वोक्तकर्मचतुष्ट्रयव्यतिरिक्तेषु दर्शनावरणायुर्नामगोत्राख्येषु कर्मसु नास्ति परीषाणामवतारः - अन्तर्भावः, तदुदये परीषहाणामसम्भवात् ।। ६८७ ।। ६८८ ॥ ६८९ ।। अधुना गुणस्थानकसमवतारमाह - 'बावी सं' गाहा, द्वाविंशतिरित्यपिशब्दस्य लुप्तनिर्दिष्टत्वाद् द्वाविं शतिरपि परीषहा बादरसम्परायनानि गुणस्थानके, कोऽर्थः ? - अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भवन्तीति, तथा चतुर्दश चशब्दस्यैव कारार्थत्वाच्चतुर्दशसङ्ख्या एव - क्षुत्पिपासाशीतोष्ण दंशमशकचर्या शय्यावधालाभ रोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपाः परीषहाः सूक्ष्मरागं - सूक्ष्मसम्परायनाम्नि दशमगुणस्थान के उदयमासादयन्ति, मोहनीयस्य क्षपितत्वेन उपशमितत्वेन वा सप्तानां चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, तथा छद्म-आवरणं तत्र स्थितश्छद्मस्थः वीत:अपगतो रागः समस्तमोहोपशमात्सकलमोहक्षयाच्च यस्य स तथा ततः कर्मधारयः, छद्मस्थवीतरागशब्देन उपशान्तमोहक्षीणमोहलक्षणं गुणस्थानकद्वयं परिगृह्यते, तत्रापि उक्तरूपा एव चतुर्दश परीषहाः सम्भवन्तीति, तथा जिने-सयोगिकेवल्ययोगिकेवलिलक्षणे त्रयोदशचतुर्दशगुणस्थानकद्वये परीषहकारणभूतस्य वेदनीयस्यैव सद्भावात्तत्प्रतिबद्धा एव एकादश परीषहाः सम्भवन्ति, उक्तं च - "क्षुत्पिपासा च शीतोष्णे, दंशाश्चर्या वधो मलः । शय्या रोगतृणस्पर्शो, जिने वेद्यस्य सम्भवात् ॥ १ ॥” इति ॥ ६९० ॥ नन्वेते परीषहा एकस्मिन् काले उत्कृष्टतो जघन्यतश्च एकस्मिन् प्राणिनि कियन्तः प्राप्यन्ते ?, तत्राह —- 'वीसं गाहा विंशतिरुत्कृष्टपदे चिन्त्यमाने परीषदा वर्तन्ते युगपदेकत्र प्राणिनि, जघन्यतश्च - जघन्यपदमाश्रित्य एक एव परीषहः, ननूत्कृष्टपदे किं न द्वाविंशतिरपि परीषहा एकत्र वर्तन्ते ? इत्याह शीतोष्णे चर्यानिषेधिक्यौ च युगपद् - एककालमेकत्र न वर्तेते-न सम्भवतः, परस्परपरिहारस्थितिलक्षणत्वादमीषां तथाहि-न शीतमुष्णेन सह भवति नोष्णं शीतेन सह न चर्यायां नैषेधिकी न च नैषेधिक्यां सत्यां चर्येति, अतो यौगपद्येनामीषामसम्भवाद् द्वयोरभावान्नोत्कृष्टतोऽपि द्वाविंशतिरेकदा परीषहा वर्तन्त इति, ननु नैषेधिकीवत्कथं शय्यापि चर्यया सह न विरुध्यते ?, अत्रोच्यते, निरोधबा - धादितस्त्वङ्गनिकादेरपि तत्र सम्भवात्, नैषेधिकी तु स्वाध्यायादीनां भूमिध्वेव प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति, तत्त्वार्थे तु उत्कृष्टतोऽप्येकोनविंशतिरेवोक्ताः, चर्याशय्यानिषद्यादीनामेकस्य सम्भवे द्वयोरभावात्, तथाहि चर्यायां सत्यां 130 "
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy