SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ निषधाशय्ये न स्तः निषद्यायां तु शय्याचर्ये शय्यायां पुनर्निषद्याचये न भवत इति ८६॥ ६९१ ।। इदानीं 'मंडलि सत्त'ति सप्ताशीतं द्वारमाह सुत्ते १ अत्थे २ भोयण ३ काले ४ आवस्सए य ५ सज्झाए ६ । संथारे ७ चेव तहा सत्तेया मंडली जइणो॥ ६९२॥ सूत्रे-सूत्रविषयेऽर्थे अर्थविषये भोजने काले-कालप्रहे आवश्यके-प्रतिक्रमणे स्वाध्यायप्रस्थापने संस्तारके चैव सप्तैता मण्डल्यो यतेः, एतासु चैकैकेनाचाम्लेन प्रवेष्टुं लभ्यते नान्यथेति ८७॥ ६९२ ॥ इदानीं 'दसठाणववच्छेओ'त्ति अष्टाशीतं द्वारमाह मण १ परमोहि २ पुलाए ३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संयमतिय ८ केवल ९ सिझणा य जंबुमि वोच्छिन्ना ॥ ६९३ ॥ पदैकदेशेऽपि पदसमुदायदर्शनात् मनःपर्ययज्ञानं तथा परम:-प्रकृष्टस्तदुत्पत्ताववश्यमेव केवलज्ञानलाभादवधिः-मूर्तद्रव्यपरिच्छेदी ज्ञानविशेषः परमावधिः स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासाहयेयखण्डविषयः कालतस्तु असङ्ख्येयोत्सर्पिण्यवसर्पिणीविषयः तथा पुलाकलब्धिस्तथा आहारकशरीरलब्धिस्तथा क्षपकश्रेणिस्तथोपशमश्रेणिस्तथा कल्पो-जिनकल्पः तथा संयमत्रिकं परिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातलक्षणचारित्रत्रयं तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनं इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्ना:-जम्बूस्खाम्यनन्तरमेतेषामभाव इत्यर्थः, इह च केवलिग्रहणेन सिज्मणाग्रहणेन वाऽऽगते यत् उभयोरुपादानं तत् यः केवली स नियमात्सिद्ध्यति यश्च सिद्ध्यति स नियमात् केवली सन्निति ख्यापनार्थ, तथा प्रथमसंहननं वर्षभनाराचं प्रथमं संस्थानं-समचतुरस्र, यश्चान्तमुहूर्तन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं एते त्रयोऽप्यर्थी अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवच्छिन्नाः उक्तं च-"संघयणं संठाणं च पढमगं जो य पुव्वउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभदंमि ॥१॥" [प्रथमकं संहननं संस्थानं यश्च पूर्वोपयोगः एते त्रयोऽप्यर्था व्यवच्छिन्नाः स्थूलभद्रे ॥ १॥] ॥ ८८ ॥ ६९३ इदानीं 'खवगसेढि'त्ति एकोननवतितमं द्वारमाह- अणमिच्छमीससम्मं अट्ठ नपुंसित्थीवेयछक्कं च । पुंवेयं च खवेइ कोहाईएवि संजलणे ॥ ६९४ ॥ कोहो माणो माया लोहोऽणंताणुबंधिणो चउरो। खविऊण खवह संढो मिच्छं मीसं च सम्मत्तं ॥ ६९५ ॥ अप्पचक्खाणे चउरो पञ्चक्खाणे य सममवि खवेइ । तयणु नपुंसगइत्थीवेयदुगं खविय खवइ समं ॥ ६९६ ॥ हासरइअरइपुंवेयसोयभयजुयदुगुंछ सत्त इमा। तह संजलणं कोहं माणं मायं च लोभं च ॥ ६९७ ॥ तो किट्टीकयअस्संखलोहखंडाई खविय मोहखया । पावइ लोयालोयप्पयासयं केवलं नाणं ॥ ६९८॥ नवरं इत्थी खवगा नपुंसगं खविय खवइ थीवेयं । हासाइछगं खविउ खवइ सवेयं नरो खवगो ॥ ६९९ ॥ इह क्षपकश्रेणिप्रतिपत्ता पुमान् वर्षाष्टकस्योपरि वर्तमानो वर्षभनाराचसंहननी शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः, तत्र प्रथमतोऽनन्तानुबन्धिनां विसंयोजनाऽभिधीयते-इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यो मनुष्या वा सर्वविरतास्तु मनुष्या एव सर्वामिः पर्याप्तिमिः पर्याप्ता यथासम्भवं विशुद्धया परिणमन्तोऽनन्तानुबन्धिनां क्षपणार्थ यथाप्रवृत्तकरणापूर्वकरणानिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया, अनिवृत्तिकरणं च प्राप्तः सन् अनन्तानुबन्धिनां स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासक्रमेणाधस्तादावलिकामानं मुक्त्वा उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति, आवलिकामात्रं तु स्तिबुकसक्रमेण वेद्यमानासु प्रकृतिषु सक्रमयति, तदेवं क्षपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थ यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासक्रमेणोद्वलयति यावत्पल्योपमासङ्ख्येयभागमात्रमवतिष्ठते, ततो मिथ्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तञ्चैवं-प्रथमसमये स्तोकं द्वितीयसमये ततोऽसङ्ख्येयगुणं एवं यावदन्तर्मुहूर्तचरमसमये आवलिकागतं मुक्त्वा शेषं द्विचरमसमयसक्रमितदलिकादसोयगुणं सक्रमयति, आवलिकागतं तु स्तिबुकसक्रमेण सम्यत्तवे प्रक्षिपति, एवं मिथ्यात्वं क्षपितं, ततोऽन्तर्मुहूर्तेन सम्यगमिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति, ततः सम्यगमिथ्यात्वमपि क्षपितं, ततः सम्यक्त्वमपवर्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्तेन तदप्यन्तर्मुहूर्तमानस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः, ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः, ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिर्जायते, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते ततः कदाचिन्मिध्यात्वोदयाद्भयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात्, क्षीणमिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् , क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषूत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणाम सर्वगतिभाग्भवति, बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं सक्रामन् कतितमे भवे मोक्षमुपयाति ?, उच्यते, तृतीये चतुर्थे वा भवे, 131
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy