________________
स्सजोहिणो मुणिणो ॥ ६३४ ॥ ते सवाभावे ता कुजा एकेकगेण ऊणा जा । तप्पासहिय एगो
जलाइअण्णेसओ बीओ॥ ६३५॥ 'उन्वत्ते'त्यदिगाधाद्वयं, निर्यामका-ग्लानप्रतिचारिणः, ते च पार्श्वस्थावसन्नत्वादिदोषदुष्टा अगीतार्थाश्च न कर्तव्याः किन्तु कालौचित्येन गीतार्थतादिगुणयुक्ता विशेषतो वैयावृत्त्यकरणोद्यताः, एते च उत्कर्षतोऽष्टचत्वारिंशद्भवन्ति, तद्यथा-'उत्त'त्ति उद्वर्तनादिशरीरपरिचेष्टाकारिणः १ 'दार'त्ति अभ्यन्तरद्वारमूलस्थायिनः २ 'संथार'त्ति संस्तारककर्तारः ३ 'कहग'त्ति अनशनिनः पुरतो धर्मकथकाः ४ 'वाइय'त्ति वादिनः ५'अग्गदारंमि'त्ति अग्रद्वारमूलावस्थायकाः ६'भत्त'त्ति तदुचितमक्तानयनयोग्याः ७ 'पान'त्ति पानानयनयोग्याः ८'वियार'त्ति उच्चारप्रश्रवणयोर्ग्रहणं, ततः उच्चारपरिष्ठापकाः ९ प्रश्रवणपरिष्ठापकाश्च १० 'कहग'त्ति' बहिर्धर्मकथकाः ११ 'दिसा जे समत्था य'त्ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः-सहस्रयोधिप्रभृतयः १२ ॥ 'एएसिं तु पयाणं'ति एतेषां पूर्वोक्तानां द्वादशानामपि पदानां प्रत्येकं साधुचतुष्टयसद्भावात् चतुष्ककेण गुण्यमानानां निर्यामकसङ्ख्या भवति यथा-येन प्रकारेण समये-सिद्धान्ते निर्दिष्टा-कथिता अष्टचत्वारिंशल्लक्षणेत्यर्थः, अन्ये तु उच्चारप्रश्रवणपरिष्ठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्षु प्रत्येकं द्वौ द्वावित्यष्टौ महायोधान्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्तीति ॥ ६२९-६३०॥ अथ सूत्रकृदेवैतान् विवृणोति-उबत्तंते'त्यादि गाथाचतुष्टयं, इह च उत्सर्गतस्तावदनशनिना स्वयमेवोद्वर्तनादि विधेयं, अथ न शक्नोति तदा तं प्रतिपन्नानशनं चत्वारः साधव उद्वर्तयन्ति परावर्तयन्ति च, उपलक्षणमेतत् , उत्थापनोपवेशनबहिर्निर्गमनान्तःप्रवेशनोपधिप्रत्युपेक्षणादिकमपि तदीयं परिकर्म त एवं कुर्वन्ति, तथा अभ्यन्तरद्वारमूले जनसम्मर्दरक्षणार्थ चत्वारः साधवस्तिष्ठन्ति, जनसम्मर्दे हि कदाचिदनशनिनोऽसमाधिरप्युत्पयेत, तथा चत्वारस्तदनुकूलसुखस्पर्शाद्यपेतं समाधिसंवर्धनाय संस्तारकमास्तृणन्ति, तथा चत्वारः साधवो विशिष्टदेशनालब्धिसम्पन्नाः सततं कथयन्ति 'से तस्य विदितवस्तुतत्त्वस्यापि संवेगसमुल्लासकं धर्म, तथा तस्यानश निनः प्रभावनामतिशायिनी श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिद् दुरामानस्तामसहमानाः सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनो-वावदूकाश्चत्वारः प्रमाणप्रवीणाः प्रगुणीभूतास्तिष्ठन्ति, तथाऽप्रद्वारमूले प्रत्यनीकादिप्रवेशरक्षार्थ मुनिचतुष्कं-चत्वारः साधवः सामोपेतास्तिष्ठन्ति, तथा प्रत्याख्यातेऽप्याहारे परीषहपीडितो यद्यसौ कथमप्याहारममिलषति तदा मा कथञ्चिदसौ प्रत्यनीकदेवताधिष्ठितो याचते इति परीक्षार्थ प्रथमतस्तावत्पृच्छयते यथा-कस्त्वं गीतार्थो वा अगीतार्थो वा? प्रतिपन्नाशन एवमेव वा? इदानी दिनं वर्तते रात्रिर्वेत्यादि, एवं च पृष्टे यद्यसौ प्रस्तुतं वक्ति तदा ज्ञायते न देवताधिष्ठितः किन्तु परीषहपीडित इति ज्ञात्वा समाधिसम्पादनाय किच्चिदाहारो दीयते, ततस्तद्बलेन परीषहान् परिभूय प्रस्तुतपारगामी भवति, अथ वेदनार्दित आहारं न करोति तदाऽऽध्यानोपगतस्तिर्यक्षु भवनपतिव्यन्तरेषु वा समुत्पद्येत, प्रत्यनीकेषु च भवनपतिव्यन्तरेषूत्पन्नः कोपवशात्कदाचित्पाश्चात्ययतीनांमुपद्रवमपि कुर्यादिति ततश्चत्वारो मुनयस्तस्यानशनिन उचितं-योग्य आहारं 'निभालयन्ति' गवेषयन्ति, तथा चत्वारो देहदाहाद्युपशमसमर्थ पानीयमन्वेषयन्ति, तथा चत्वार उच्चार-पुरीषं परिष्ठापयन्ति-परित्यजन्ति, तथा चत्वारः प्रश्रवणं-मूत्रं परिष्ठापयन्ति, तथा चत्वारो बहिर्भागे जनानां पुरतश्वेतश्चमत्कारकारिणं मनोहारिणं धर्म कथयन्ति, तथा चत्वारश्चतसृष्वपि दिक्षु क्षुद्रोपद्रवरक्षकाः सहस्रयोधिनो-महामल्ला मुनयस्तिष्ठन्ति, क्षुद्रोपद्रवनिवारणार्थमेकैकश्चतसृष्वपि दिक्षु तिष्ठतीत्यर्थः ॥ ६३१-६३२-६३३-६३४ ॥ अथैते परिपूर्णा यदा न प्राप्यन्ते तदा किमित्याह-ते-निर्यामकाः सर्वेषामष्टचत्वारिंशत्सङ्ख्यानामभावे एकैकहान्या तावत्कार्या यावजघन्यतोऽवश्यं द्वौ निर्यामको, तत्रैकस्तत्पार्श्वस्थितः-तस्य-प्रतिपन्नानशनस्य सर्वदेव समीपावस्थायी, द्वितीयस्तु जलाद्यन्वेषको भक्तपानाद्यानयनार्थ पर्यटतीति, एकेन पुनर्निर्यामकेन न कर्तव्यैवानशनप्रतिपत्तिः, यदुक्तं'एगो जइ निजवगो अप्पा चत्तो परो पवयणं च । सेसाणमभावेऽवि हुता बीओऽवस्स कायब्वो ॥१॥'त्ति [योको निर्यामकस्तर्हि आत्मा त्यक्तः परः प्रवचनं च । तस्मात् शेषाणामभावेऽपि चावश्यं द्वितीयः कर्त्तव्यः (निर्यामकः) ॥१॥] ७१ ॥ ६३५ ॥ इदानीं 'पणवीसं भावणाओ' इति द्वासप्ततितमं द्वारमाह
इरियासमिए सया जए १ उवेह भुंजेज व पाणभोयणं २। आयाणनिक्खेवदुगुंछ ३ संजए समाहिए संजयए मणो ४ वई ५॥ ६३६ ॥ अहस्ससच्चे ६ अणुवीय भासए ७, जे कोह ८ लोह ९ भय १० मेव वजए। से दीहरायं समुपेहिया सया, मुणी हु मोसंपरिवजए सिया ॥ ६३७ ।।
उ उग्गहजायणे ११ घडे महमं निसम्मा १२सह भिक्खु उग्गहं १३ । अणुनविय भुजीय पाणभोयणं १४ जाइत्ता साहम्मियाण उग्गहं १५ ॥ ६३८ ॥ आहारगुत्ते १६ अविभूसियप्पा १७ इत्थी न निज्झाय १८ न संथवेज्जा १९ । बुद्धे मुणी खुडुकहं न कुजा २० धम्माणुपेही संघए बंभचेरं॥६३९॥ जे सद्द २१रूव २२ रस २३ गंधमागए २४, फासे ।
मणुण्णपावए २५ । गेहिं पओसं न करेज पंडिए, से होइ दंते विरए अकिंचणे ॥ ६४०॥ 'इरियासमिए' इत्यादि वृत्तपञ्चक, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतानां दाापादनार्थ भाव्यन्ते-अभ्यस्यन्ते इति भावनाः, अनभ्यस्यमानामिर्भावनामिरनभ्यस्यमानविद्यावन्मलीमसीभवन्ति महाव्रतानीति, ताश्च प्रतिमहाव्रतं पश्च पञ्च भवन्ति, तत्र प्रथममहाव्रतस्य
118