________________
रिओ खेत्तबहिं अहालंदियसगासं गन्तुं ताहे जो तेसिं अहालंदियाणं धारणाकुसलो सो अंतरपल्लिं आसन्नत्तबहिं एइ, आयरिया तत्थ गन्तुं अत्थं कहिंति, एत्थ पुण संघाडो भत्तपाणं गहाय आयरियस्स नेइ, गुरू य वेयालियं पडिएइत्ति, एवंपि असमत्थे गुरू अंतरपल्लि. याए पडिवसभगामस्स य अंतरा वाएइत्ति, असइ पडिवसमे वाएइ, असइ पडिवसभस्स वसभगामस्स य अंतरा वाएइ, असइ वसभगामस्स बहियाए वाएइ, अतरंते सग्गामे अन्नाए वसहीए, अतरंते एकवसहीए, तीए च अपरिभोगे ओवासे वाएई” इत्यादि, 'तीए च अपरिभोगे'त्ति तस्यां च-मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेषं प्रयच्छतीति योगः, तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते, स पुनर्यथालन्दिकस्तान वन्दत इति, एवं तमर्थशेषं गृहीत्वा ततः परं निष्ठितप्रयोजनत्वाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः खेच्छया-खकल्पानुरूपं विहरन्ति-निजकल्पं परिपालयन्त इति ॥ ६१९ ॥ ६२० ॥ ६२१ ॥ ६२२ ॥ अथ जिनकल्पिकस्थविरकल्पिकभेदमिन्नानां परस्परं विशेषमाह
जिणकप्पियावि तहियं किंचि तिगिच्छंपि ते न कारेंति । निप्पडिकम्मसरीरा अवि अच्छिमलंपि नऽवणिति ॥ ६२३ ॥ थेराणं नाणत्तं अतरंतं अप्पिणंति गच्छस्स । तेऽवि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥ ६२४ ॥ एक्ककपडिग्गहगा सप्पाउरणा भवंति थेरा उ । जे पुण सिं जिणकप्पे भयएसिं वत्थपायाई ॥ २५॥ गणमाणओ जहण्णा तिणि गणा सयग्गसो य उकोसा । पुरिसपमाणे पनरस सहस्ससो चेव उक्कोसा ॥ ६२६ ॥ पडिवजमाणगा वा एक्काइ हवेज्न ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ ६२७ ॥ पुव्वपडिवनगाणवि उक्को
सजहण्णसो परीमाणं । कोडिपुष्टुत्तं भणियं होइ अहालंदियाणं तु ॥ ६२८॥ जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यात समुत्पन्ने न कामपि चिकित्सां ते कारयन्ति, यथाकल्पस्थितेः, अपिच निष्पतिकर्मशरीरा:-प्रतिकर्मरहितदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ॥ ६२३ ॥ स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं-भेदः, यथा अशक्वन्तं व्याधिबाधितं सन्तं स्वसाधुमर्पयन्ति गच्छस्य-च्छवासिसाधुसमूहस्य, स्वकीयपश्चकगणपरिपूरणार्थ च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनि स्वकल्पे प्रवेशयन्ति, तेऽपि च गच्छवासिनः साधवः 'से'त्ति तस्याशक्नुवतः प्रासुकेन-निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणमिति ॥ ६२४॥ किश्च-स्थविरा:-स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतग्रहका:-प्रत्येकमेकैकपतप्रधारिणः तथा सप्रावरणाश्च भवन्ति, ये पुनरेषां-यथालन्दिकानां मध्ये जिनकल्पे भविष्यन्ति जिनकल्पिकयथालन्दिका इत्यर्थः भाज्ये तेषां वनपात्रे-सप्रावरणाप्रावरणपतग्रहधारिपाणिपात्रभेदमिन्ना भाविजिनकल्पापेक्षया केषाश्चिद्वस्त्रपात्रलक्षणमुपकरणं भवति केषांचिञ्च नेत्यर्थः ॥ ६२५ ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-गणमानतो-माणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिपद्यमानका भवन्ति, शताप्रशश्च -शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते गणाश्च जघन्यतनयः ततः पश्च त्रिमिर्गुणिताः पञ्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः-सहस्रपृथक्वं ॥ ६२६ ॥ पुरुषप्रमाणमेवानित्य पुनर्विशेषमाह-प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च यवा ग्लानत्वादिकारणवशतो गच्छसमर्पणादिना तेषां न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताप्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ॥ ६२७ ॥ पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो.
परिमाणं कोटिपृथत्तवं भणितं भवति यथालन्दिकानां, उक्तं च कल्पचौँ -"पडिवजमाणगा जहण्णणं तिन्नि गणा उक्कोसेणं सयपुहुत्तं, पुरिसपमाणेणं पडिवजमाणगा जहण्णेणं पन्नरस पुरिसा, उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवनगाणं जहण्णेणं कोडिपुहुत्तं, उक्कोसेणवि कोडिपुहुत्त"मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ७७ ॥ ६२८ ॥ इदानीं 'निजामयाण अडयाल'त्ति एकसप्ततितमं द्वारमाह
उच्चत्त १ दार २ संथार ३ कहग ४ वाईय ५ अग्गदारंमि ६ । भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था य १२॥ ६२९ ॥ एएसिं तु पयाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा होइ जहासमयनिधिहा ॥ ६३० ॥ उच्चत्तंति परावत्तयंति पडिवण्णअणसणं चउरो१तह चउरो अन्भंतर दुवारमूलंमि चिट्ठति २॥६३१ ॥ संथारयसंथरया चउरो ३ चउरो कहिंति धम्म से ४ । चउरो य वाइणो ५ अग्गदारमूले मुणिचउक्कं ६॥ ६३२ ॥ चउरो भत्तं ७चउरो य पाणियंतदुचियं निहालंतिदाउरो उच्चारं परिट्ठवंति९चउरोय पासवणं १०॥६३३॥ घरो बाहिं धम्म कहिंति ११ चउरो य चउमुवि दिसासु । चिट्ठति १२ उवद्दवरक्खया सह
117