________________
न्धोऽमीषां कारणतः किश्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यं, ततो यथालन्दिकानां गच्छे अप्रतिबद्धानामुपलक्षणत्वात्प्रतिबद्धानां च 'तवेण सत्तेण' इत्यादिभावनारूपा सर्वापि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता तथैव समवसेया, नवरं-केवलं द्विविधानामपि यथालन्दिकानां जिनकल्पिकेभ्यः काले-कालविषये विशेषो-भेदो ज्ञातव्यः, तमेवाह–'उउ वासे पणग चउमासो'त्ति ऋतौ-ऋतुबद्धकाले वर्षे-वर्षाकाले च यथासङ्ख्यं दिनपश्चकं मासचतुष्टयं चैकत्रावस्थानं भवति, इयमत्र भावना-ऋतुबद्धे काले यथालन्दिकाः साधवो यदि विस्तीर्णो प्रामादिर्भवति तदा तं गृहपतिरूपामिः षड्भिर्वीथीमिः परिकल्प्य एकैकस्यां वीभ्यां पञ्च पञ्च दिवसानि मिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिरेकस्मिन् प्रामे मासः परिपूर्णो भवति, तथाविधविस्तीर्णप्रामाभावे तु निकटतमेषु षट्सु प्रामेषु पञ्च पश्च दिवसान वसन्ति, उक्तं च कल्पभाष्ये-"एकेक पंचदिणे पण पणएण य निहिओ मासो। एतञ्चूर्णिश्व-जइ एगो चेव गामो सवियारोत्ति-वित्थिण्णो ता छ वीहीओ का एकेकीए पंच पंच दिवसाणि हिंडन्ति बीयाएवि पंच दिवसे जाव छट्ठीएवि पंच दिवसा, एवं एगगामे मासो भवइ, अह नस्थि एगो गामो सवियारो तो हवंतऽहालंदियाण छग्गामा खेत्तस्स परियंतेणं, तेसिं एकेक पंच दिवसाणि अच्छन्ति, एवं मासो विभजमाणो पणपणएण निढिओ होई"त्ति ॥६१५।। अथ यथालन्दिकानामेव परस्परं भेदमाह-च्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छाप्रतिबद्धेभ्यः सकाशात् विशेषो-भेदो भवति, तमेवाह-तेषां गच्छप्रतिबद्धयथालन्दिकानां यः क्रोशपचकलक्षणः क्षेत्रावग्रहः स आचार्याणामेव भवति, यस्याचार्यस्य निश्रया ते विहरन्ति तस्यैव स क्षेत्रावग्रहो भवतीति भावः, गच्छाप्रतिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति ॥ ६१६॥ अथ द्विविधानामपि यथालन्दिकानां मिक्षाचर्यानानात्वं विवक्षुराह-ऋतुबद्धे काले एकस्यां वसतौ 'पञ्चकं' पञ्च दिवसानि यावदवतिष्ठन्ते, वर्षासु पुनश्चतुरो मासान् यावदेकस्यां वसतौ तिष्ठन्ति, प्रामे पड़ वीथीः कुर्वन्ति, अयमर्थः-यथालन्दिका गृहपतिरूपाभिः षड्भिर्वीथीमिमं परिकल्पयन्ति, एकैकस्यां च वीभ्यां पञ्च पञ्च दिवसानि मिक्षा पर्यटन्ति, तत्रैव च वसतिं विदधति, उक्तं च पञ्चकल्पचूणौं-“छन्भागे गामो कीरइ, एगेगे पञ्चदिवसं मिक्खं हिंडंति, तत्थेव वसंति, वासासु एगत्थ चउम्मासो"त्ति, तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामटन्ति, उद्धृतादिमिक्षापञ्चकमध्यादेकस्मिन् दिवसे यां भिक्षामटन्ति न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति किन्त्वन्यामिति भावः, इत्थं तावदस्माभिर्व्याख्यातं सुधिया तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति ॥ ६१७ ॥ अथ सूत्रनानात्वं निर्दिदिक्षुर्यथालन्दिकभेदानेवाह-यथालन्दिका द्विविधा:-गच्छप्रतिबद्धा इतरे च-गच्छाप्रतिबद्धाः, ते पुनरेकैकशो द्विभेदाः-जिनकल्पिकाः स्थविरकल्पिकाश्च, तत्र यथालन्दिककल्पपरिसमात्यनन्तरं ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु स्थविरकल्पमेवाश्रयिष्यन्ति ते स्थविरकल्पिकाः, इह च ये गच्छे प्रतिबद्धास्तेषां प्रतिबन्धोऽनेन कारणेन भवति–'अत्थस्से'त्यादि, अर्थस्यैव न सूत्रस्य, देश:-एकदेशोऽद्याप्यसमाप्तो-न गुरुसमीपे परिपूर्णो गृहीत इति तद्ग्रहणाय गच्छे प्रतिबन्धस्तेषां, तस्यावश्यं गुरुसमीपे प्रहीष्यमाणत्वादिति ॥ ६१८ ॥ अथ परिपूर्ण सूत्रार्थ गुरुसमीपे गृहीत्वैव कथं कल्पं न प्रतिपद्यन्ते ? इत्याह-लमादिषु त्वरमाणेषु-शुभेषु लग्नयोगचन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लनादिषु दूरकालवर्तिषु न तथाभव्येषु वाऽगृहीतपरिपूर्णसूत्रार्था अपि लमादिभव्यतया कल्पं प्रतिपद्यन्ते, ततः प्रतिपद्य तं कल्पं गच्छान्निर्गत्य गुर्वधिष्ठिताक्षेत्राद् प्रामनगरादेर्बहिर्दूरदेशे स्थिता विशिष्टतरनिष्ठरनिखिलनिजानुष्ठाननिरता गृहंति यद्गृहीतं-अनधीतमर्थजातं, तत्र चायं विधिःयदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः 'तयं ति तमर्थशेषं प्रयच्छति-ददाति, अथ त एवाचार्यसमीपमागत्य किमिति तमर्थशेषं न गृहन्तीत्याह-'खेत्तं इंताणे'त्यादि, क्षेत्रमध्यं समागच्छतां तेषां-यथालन्दिकानामेते-वक्ष्यमाणा दोषाः, तथाहि-वंदमानेषु गच्छवासिषु साधुषु अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो-निन्दा भवति, तथाहि-यथालन्दिकानां कल्पस्थित्यैव आचार्य मुत्तवा अन्यस्य साधोः प्रणामं कर्तुं न कल्पते, गच्छसाधवश्व महान्तोऽपि तान् वन्दन्ते, ते पुनर्न प्रतिवन्दन्ते, ततो लोको वदेद् यथा दुष्टशीला एते येन अन्यान् साधून वन्दमानानपि न व्याहरन्ति न वन्दन्ते वा, गच्छसम्बन्धिसाधूनां वा उपरि भ्रष्टत्वाशा भवेत् , अवश्यमेते दुःशीला निर्गुणाश्च येन न वन्दन्ते, आत्मार्थिका वा एते येन अप्रतिवन्दमानानपि वन्दन्ते इति । अथ यदि जावलक्षीणतया तत्सकाशं गन्तुं न तरेत्-यदि न शक्नुयादाचार्यस्तदा एति-आगच्छति, केत्याह-अन्तरपल्ली-मूलक्षेत्रात्सार्धद्विगन्यूतस्थं प्रामविशेष यद्वा प्रतिवृषभप्रामान्-मूलक्षेत्राद् द्विगव्यूतस्थान् मिक्षाचर्यायामान अथवा बहिर्मूलक्षेत्रात् मूलक्षेत्र एव वा अन्यवसतिं वाशब्दान्मूलवसतिमिति, इयमत्र भावना-यद्याचार्यों यथालन्दिकसमीपे गन्तुं न शक्नोति तदा यस्तेषां यथालन्दिकानां मध्ये धारणाकुशलः सोऽन्तरपल्लीमागच्छति, आचार्यस्तु तत्र गत्वाऽर्थ कथयति, अत्र पुनः साधुसङ्घाटको मूलक्षेत्राद्भक्तं पानं च गृहीत्वा आचार्याय ददाति, स्वयं चाचार्यः सन्ध्यासमये मूलक्षेत्रमायाति, अथान्तरपल्लीमागन्तुं न शक्नोति तदा अन्तरपल्लीप्रतिवृषभप्रामयोरन्तराले गत्वाऽर्थ कथयति, तत्रापि गन्तुं शक्त्यभावे प्रतिवृषभप्रामे, तत्रापि गन्तुमशक्ती प्रतिवृषभग्राममूलक्षेत्रयोरन्तराले, तत्रापि गन्तुमसामर्थ्य मूलक्षेत्रस्यैव बहिविजने प्रदेशे, अथ तत्रापि गन्तुमसमर्थस्तदा मूलक्षेत्रमध्य एवान्यस्यां वसतौ गत्वा तत्रापि गमनशक्त्यभावे मूळवसतावेव प्रच्छन्नं आचार्यस्तस्मै यथालन्दिकायार्थशेषं प्रयच्छतीति, उक्तं च कल्पचूर्णी-आयरिए सुत्तपोरिसिं अत्थपोरिसिं च गच्छे ठियाणं दाउं अहालंदियाणं सगासं गन्तुं अत्थं सारेइ, अह न तरइ दोवि पोरिसीओ दाउं गन्तुं तो सुत्तपोरिसिं दाउं वच्चइ, अत्थपोरिसिं च सीसेणं दवावेइ, अथ सुत्तपोरिसिंपि दाउं गन्तुं न तरह तो दोवि पोरिसीओ सीसेणं वावेइ, अप्पणा अहालंदिए वाएइ, जइ न सकेइ आय
116