SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अभिप्रहद्वारे अभिग्रहाश्चतुर्विधा:-द्रव्याभिग्रहाः क्षेत्रामिग्रहाः कालामिप्रहा भावाभिग्रहाच, तत्र परिहारविशुद्धिकस्यैतेऽमिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते, उक्तं च-"दवाईय अभिग्गह विचित्तरूवा न हुंति पुण केई । एयस्स जाव कप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयम्मि गोयराई नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयस्स विसुद्धिठाणं तु ॥२॥" [द्रव्यादिका अमिग्रहा विचित्ररूपा न भवन्ति पुनः केचित् । एतस्य यावत् कल्पः कल्प एव येनामिग्रहः ॥१॥ एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतस्य विशुद्धिस्थानं ॥२॥] ११ । प्रव्रज्याद्वारे नासावन्यं प्रव्राजयति कल्पस्थितिरियमितिकृत्वा, आह च-पवावेइ न एसो अन्नं कप्पटिइत्ति काऊणं। [प्रव्राजयति नैषोऽन्यं कल्प इतिकृत्वा] इति, उपदेशं पुनयथाशक्ति प्रयच्छति १२ । निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणंतिएवि य तहा वसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगंडपेयं चिय इमस्स ॥ २॥" [निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च तथा व्यसने न वर्त्तते द्वितीये ( अपवादे लोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावात् बहुकमप्येतदेवास्य ॥ २ ॥] १३ । भिक्षाद्वारे पथिद्वारे च मिक्षा विहारक्रमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्वल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरन्नपि महाभागो नापवादपदमासेवते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति, उक्तं च-"तइयाइ पोरसीए भिक्खाकालो विहारकालो य । सेसासु य उस्सग्गो पायं अप्पा य निहत्ति ॥१॥ जवाबलंमि खीणे अविहरमाणोऽवि न वरमावज्जे । तत्थेव अहाकप्पं कुणइ उ जोगं महाभागो ॥२॥" [तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालश्च शेषासु चोत्सर्गः प्रायोऽल्पा च निद्रेति ॥ १॥ जवाबले क्षीणे अविहरन्नपि न परं (अपवादं) आपद्यते । तत्रैव यथाकल्पं करोति योगं तु महाभागः ॥२॥] १४, १५ ।। ६९ ॥ इदानीं 'अहालंद'त्ति सप्ततितमं द्वारमाह लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहन्नो । उदउल्लकरो जाविह सुक्का सो होइ उ जहन्नो ॥ ६११ ॥ उक्कोस पुव्वकोडी मज्झे पुण होति गठाणाई । एत्थ पुण पंचरतं उकोसं होई अहलंदं ॥ ६१२ ॥ जम्हा उ पंचरत्तं चरंति तम्हाउ हुंतिऽहालंदी। पंचेव होइ गच्छो तेसिं उकोसपरिमाणं ॥ ६१३ ॥ जा चेव य जिणकप्पे मेरा सा चेव लंदियाणंपि । नाणत्तं पुण सुत्ते भिक्खायरिमासकप्पे य ॥ ६१४ ॥ अहलंदिआण गच्छे अप्पडिबद्धाण जह जिणाणं तु । नवरं कालविसेसो उउवासे पणग चउमासो ॥ ६१५ ॥ गच्छे पडिबद्धाणं अहलंदीणं तु अह पुण वि. सेसो । उग्गह जो तेसिं तु सो आयरियाण आभवइ ॥ ६१६ ॥ एगवसही पणगं छठवीहीओ य गामि कुव्वंति । दिवसे दिवसे अन्नं अडंति वीहीसु नियमेणं ॥ ६१७ ॥ पडिबद्धा इयरेवि य एकेका ते जिणा य थेरा य । अत्थस्स उ देसम्मि य असमत्ते तेसि पडिबंधो॥ ६१८॥ लग्गाइसु तूरते तो पडिवजितु खित्तवाहिठिया । गिण्हंति जं अगहियं तत्थ य गंतूण आयरिओ । तर्सि तयं पयच्छा खेतं इंताण तेसिमे दोसा। वंदंतमवंदते लोगंमि यहोहपरिवाओं ॥ ६२० ॥ न तरेन जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लिं. पडिवसभ गामवहि अण्णवसहिं वा ॥ ६२१ । तीए य अपरिभोगे ते वंदंते न वंदई सो उ । तं घेतु अपडिबद्धा ताहि जहिच्छाइ विहरंति ॥ ६२२॥ 'लंद' मित्यादिगाथाद्वादशकं, लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः, स पुनः कालत्रेधा-उत्कृष्टो मध्यमो जघन्यश्च, तत्र उदकाकरो यावता कालेन 'इह' सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, अस्य चेह जघ. न्यत्वं प्रत्याख्याननियमविशेषादिषु विशेषत उपयोगित्वात् , अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालस्य सम्भवात ॥६११॥ उत्कृष्टः पूर्वकोटीप्रमाणः, अयमपि चारित्रकालमानमाश्रित्य उत्कृष्टः उक्तः, अन्यथा पल्योपमादिरूपस्यापि कालस्य सम्भवात् , मध्ये पुनर्भवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पञ्चरात्रं 'यथे'त्यागमानतिक्रमेण लन्दं-काल उत्कृष्टं भवति, तेनैवात्रोपयोगात् ॥ ६१२ ॥ यस्मात्पञ्चरात्रं चरन्ति पेटार्धपेटाद्यन्यतमायां वीभ्यां भैक्षनिमित्तं पश्चरात्रिन्दिवान्यटन्ति तस्माद्धवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् , तथा पञ्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां-यथालन्दिकानां, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते इत्युत्कृष्टमेकेकस्य गणस्य पुरुषपरिमाणमेतदिति ॥६१३।। अत्र बहुवक्तव्यत्वानिरवशेषामिधाने प्रन्थगौरवप्रसक्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे-जिनकल्पविषया मेरा-मर्यादा पञ्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं -भेदः पुनर्जिनकल्पिकेभ्यो यथालन्दिकानां 'सत्रे' सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे च, चकारात्प्रमाणविषयं चेति ॥ ६१४ ॥ अथातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह-यथालन्दिका द्विविधाः-च्छे प्रतिबद्धा अप्रतिबद्धाश्च, गच्छे च प्रतिब 115
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy