________________
हवंति । आवकहियाण भइया" इति [इत्वराणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति । यावत्कथिकानां भक्ताः] अथायं कल्यो यस्य समीपे प्रतिपद्यते तं सार्धगाथया प्राह-'पडिवजेत्यादि प्रतिपद्यमानका:-पारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्यकरपार्श्वे प्रतिप. द्यन्ते, तीर्थकरसमीपासेवकस्य वा पार्श्वे, येनैतत्तपत्तीर्थकरसमीपे प्रतिपन्नपूर्व भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः, एतवयं मुक्त्वा न पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति, एतेषां यच्चरणं-चारित्रं तत्परिहारविशुद्धिकमभिधीयते, परिहारेण-तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन् चारित्रे इति व्युत्पत्तेः ६०९-१०॥अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ बहूनि द्वाराणि प्रवचने निरूप्यन्ते अस्माभिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुप्रहाय कानिचिद्दर्श्यन्ते-(प्रन्थानं ६०००) तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो मार्गणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, वत्र जन्मतः सद्भावतश्व पचासु भरतेषु पञ्चसु चैरवतेषु प्राप्यन्ते नतु महाविदेहेषु, न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् , उक्तं च-खेचे भरहेवएसु होंति संहरणवजिया नियमा[क्षेत्रे भरतैरवतयोर्भवन्ति संहरणवर्जिता नियमात् । १ । कालद्वारे अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनस्तृतीये चतुर्थे वा, उक्तं च-ओसप्पिणीए दोसुं जम्मणओ तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मणो संतिभावे य॥१॥" [अवस. पिण्यां द्वयोर्जन्मतस्तिसृषु सद्भावे च । उत्सर्पिण्यां विपरीतो जन्मतः सद्भावतश्च ॥ १॥] नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्येव, महाविदेहक्षेत्रे तेषामसम्भवात् २ । तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्त्या वा तदभावे जातिस्मरणादिना, उक्तं च-"तित्थेत्ति नियमओषिय होइ स तित्थंमि न उण पदभावे । विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥१॥" [तीर्थ इति नियमत एव भवति स तीर्थे नतु तदभावे । विगतेऽनुत्पमे वा जातिस्मरणादिकैस्तु ॥१॥1३। पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च, तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणो, उक्तं च पञ्चवस्तुके-"एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा। जइपरियाओ वीसा दोसुवि उकोस देसूणा ॥१॥" [एतस्यैष शेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् यतिपर्यायो विंशति: द्वयोरप्युत्कर्षतो देशोना (पूर्वकोटी)॥१॥1 यत्पुनरत्र सूत्रे-"जम्मेण तीसवरिसो परियारण गुणवीसवरिसो य । परिहारं पट्ठविउं कप्पइ मणुओ हु एरिसओ॥१॥" इत्युक्तं तदसङ्गतमिव लक्ष्यते, कल्पादिमिर्व्यभिचारात् , यदुक्तं कल्पभाष्ये
-"गिहिपरियाए जहन्नओ गुणतीसा । जइपरियाए वीसा दोसुं उक्कोसदेसूणा ॥१॥" [गृहिपर्याये जघन्यत एकोनत्रिंशत् यतिपर्याय विंशतिः द्वयोरुत्कर्षतो देशोना ॥ १॥४। आगमद्वारे अपूर्वमागमं स नाधीते, यस्मात्तं कल्पमधिकृत्य गृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च-"अप्पुठ्वं नाहिजह आगममेसो पडुच्च तं कप्पं । जमुचियपगहियजोगाराहणओ एस कयकिच्चो ॥१॥ पुन्वाहीयं तु तयं पायं अणुसरह नियमेवेसो । एग. ग्गमणो सम्मं विस्सोयसियाएँ खयहेऊ ॥२॥" [अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥१॥ पूर्वाधीतं तु तं नित्यमेवैषोऽनुस्मरति । एकाप्रमनाः सम्यक् विस्रोतसिकायाः क्षयहेतोः॥२॥] ५ । वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुंसकवेदो वा, न स्त्रीवेदः, खियाः परिहारविशुद्धिकल्पप्रतिपत्त्यसम्भवात् , अतीतनयमधिकृत्य पुनः पूर्वप्रतिपमश्चिन्यमानः सवेदो वा भवेदवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तंच-"वेदो पवित्तिकाले इत्थीवज्जो उ होइ एगयरो। पुव्वपडिवनगो पुण होइ सवेदो अवेदो वा ॥१॥" [वेदः प्रवृत्तिका कतरः । पूर्वप्रतिपन्नकः पुनर्भवति सवेदोऽवेदो वा ॥१॥] ६ । कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकप्पंमि य नियमा इति वचनात् , तत्र आचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्यु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षटसु अस्थितास्तत्कल्पोऽस्थितकल्पः ७ । लिङ्गद्वारे नियमतो द्विविधेऽपि लिने भवन्ति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात ८ध्यानद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः ९ । गणनाद्वारे जघन्यतनयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः , पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च-"गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उकोसो । उक्कोस जहन्नेण य सयसोश्चिय पुव्वपडिवना ॥ १ ॥ सत्तावीस जहन्ना सहस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्न उकोसो ॥२॥" [गणतनय एव गणा जघन्यतः प्रतिपत्तौ शतश उत्कृष्टतः । उत्कृष्टतो जघन्यतश्च शतशः एव पूर्वप्रतिपन्नाः॥१॥ सप्तविंशतिर्जघन्यतः सहस्रमुत्कृष्टतश्च प्रतिपत्तौ । शतशः सहस्रशो वा प्रतिपन्ना जघन्यात् उत्कृष्टाञ्च ॥ २॥] अन्यच्च यदा पूर्वप्रतिफअकलमध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपे प्रतिपत्तो कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च-"पडिवजमाण भयणाएँ होज एकोऽवि ऊणपक्खेवो । पुव्वपडिवन्नयावि य भइया एको पुहुत्तं वा ॥ १॥"।[प्रतिपद्यमाना भजनया ऊनप्रक्षेपे एकोऽपि भवेत् पूर्वप्रतिपन्ना अपि च भक्ताः एकः पृथत्वं वा ॥१॥] १०।
114