________________
न्यतमज्योतीरश्मिसम्बन्धेन भुवीव चरणचङ्क्रमणप्रवणा ज्योतीरश्मिचारणाः, प्रतिलोमानुलोमवृत्तिषु नानादिग्मुखोन्मुखेषु मारुतेषु तत्प्रदेशश्रेणिमुपादाय गतिमस्खलितक्रमविन्यासा मास्कन्दन्तो वायुचारणाः, परे नीहारमवष्टभ्याप्कायिकजीवपीडामजनयन्तो गतिमसङ्गां कुर्वाणा नीहारचारणाः, एवमादयोऽन्येऽपि जलदचारणावश्यायचारणफलचारणादयो वक्तव्याः || ६०१ ॥ ६८ ॥ इदानीं 'परिहारविसुद्धितवो 'ति एकोनसप्ततितमं द्वारमाह
परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ ६०२ ॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोंसो एसो सिसिरे पवक्खामि ॥ ६०३ ॥ सिसिरे तु जहन्न तवो छट्ठाई दसमचरमगो होइ । वासासु अट्ठमाई बारसपज्जतगो नेओ ।। ६०४ ॥ पारणगे आयामं पंचसु गहो दोसुऽभिग्गहो भिक्खे । कप्पट्ठियावि पइदिण करेंति एमेव आयामं ॥ ६०५ ॥ एवं छम्मासतवं चरिडं परिहारिया अणुचरंति । अणुचरगे परिहारियपरिट्ठिए जाव छम्मासा ॥ ६०६ ॥ कप्पट्ठिओऽवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारियभावं वयंति कप्पट्ठियत्तं च ॥ १०७ ॥ एवं सो अट्ठारसमासपमाणो य वन्निओ कप्पो । संखेवओ विसेसो विसेससुताउ नायव्वो ।। ६०८ ।। कप्पसम्मत्तीऍ तयं जिण
| एगो बायणायरिभो चउरो तविणो तदणुचरा चउरो । मुणिनवगं निम्गच्छङ्ग परिहारविसुद्धिचरणाय ॥ १ ॥ इत्यविवृता गाथा कचिट्टीकापुस्तकाद सोपयोगा च । कप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवज्जंति ॥ ६०९ ॥ तित्थयरसमीवासेवगरस पासे व नो व अन्नस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ ६१० ॥
'परी' त्यादिगाथानवकं, परिहरणं परिहारः- तपोविशेषस्तेन चरन्तीति पारिहारिकाः, ते द्विधा - निर्विशमानका निर्विष्टकायिकाच, तत्र निर्विशमानका - विवक्षिततपोविशेषासेवकाः निर्विष्टकायिकाः- आसेवितविवक्षिततपोविशेषाः, इह च नवको गणः - चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्य:, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते, तेषां च परिहारिकाणां निर्विशमाननिर्विष्टकायिकानां तपस्त्रिधा - जघन्यं मध्यममुत्कृष्टं च तच त्रिविधमपि शीतकाले उष्णकाले वर्षाकाले च प्रत्येकं भणितं धीरैः - तीर्थकृद्भिरिति ॥ ६०२ ॥ तत्र ग्रीष्मकाले तप आह— 'तत्र' तेषु त्रिषु कालेषु मध्ये ग्रीष्मे - उष्णकाले - तिरूक्षत्वाज्जघन्यं तपश्चतुर्थ- एक उपवासः मध्यमं पुनः षष्ठं- द्वावुपवासौ अष्टमं त्रय उपवासा उत्कृष्टं तपो भवति, तपःशब्दस्य सूत्रे सर्वत्र प्राकृतत्वात् पुंस्त्वं, इत ऊर्द्ध शिशिरे - शीतकाले तपः प्रवक्ष्यामि ॥। ६०३ ॥ तदेवाह - शिशिरे - शीतकाले प्रीष्मतः किञ्चित्साधारणे पुनर्जघन्यादि—जघन्यमध्यमोत्कृष्टं यथाक्रमं पष्ठादिदशमपर्यन्तं तपो भवति, कोऽर्थः ? - जघन्यं षष्ठं मध्यममष्टमं उत्कृष्टं दशममुपवासचतुष्टयलक्षणमिति, तथा वर्षासु साधारणे कालेऽष्टमादिद्वादशपर्यन्तं क्रमेण जघन्यमध्यमोत्कृष्टं तपो ज्ञेयं, कोऽर्थः ? - जघन्यं अष्टमं मध्यमं दशमं उत्कृष्टं च द्वादशमुपवासपश्च कलक्षणं तप इति ॥ ६०४ || पारणके त्रिष्वपि कालेषु - प्रीष्मशीतवर्षालक्षणेषु तेषामावाम्लं भवति, तथा संसृष्टादयः सप्त मिक्षा भवन्ति, तत्र पश्चसु उत्तरासु - उद्धृतादिषु प्रहो-ग्रहणं, संसृष्टासंसृष्टे आद्ये द्वे भिक्षे वर्जयित्वा उद्धृतादयः पश्चैव ग्रहीतव्या इत्यर्थः पुनरपि विवक्षित दिनेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः - अद्य मया द्वे एव विवक्षिते भिक्षे ग्राह्ये इत्येवंस्वरूपः, तत्राप्येका भक्ते एका च पानके इति, इदं चतुर्णां पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च एको वाचनाचार्यश्चत्वारश्चानुचारिणः, ते सर्वेऽपि एवमेवपूर्वोक्तमिक्षामिप्रहयुक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति ॥ ६०५ ॥ एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरन्ति - अनुचरा भवन्ति, वैयावृत्त्यकरा इत्यर्थः, ये चानुचरका आसन् ते पारिहारिकतपसि परि-सामस्त्येन स्थिता भवन्ति यावत् षण्मासाः, अयमर्थ:ये पूर्वमनुचारिण आसन ते पूर्वोक्तप्रकारेणैव षण्मासान् यावत् निर्विशमानका भवन्ति, ये च पूर्वं तपः प्रविष्टा आसन् तेऽनुचारिणो भवन्ति ।। ६०६ ।। मासद्वादशकानन्तरं कल्पस्थितोऽपि - वाचनाचार्योऽप्येवं पूर्वोक्तन्यायेन षण्मासान् यावत् परिहारिकतपः करोति, शेषास्तु अष्टौ अनुपारिहारिकभावं - वैयावृत्त्यकरत्वं कल्पस्थितत्वं च - वाचनाचार्यत्वं व्रजन्ति, शेषाणामष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति एकस्तु वाचनाचार्य इत्यर्थः ।। ६०७ ॥ एवमसौ कल्पोऽष्टादशमासप्रमाणो वर्णितः सङ्क्षेपतः, यस्त्वत्र विशेषः कश्चित् स विशेषसूत्रात् —कल्पादेर्ज्ञातव्यः ।। ६०८ ॥ कल्पसमाप्तौ च यत्कर्तव्यं तदाह - ' कप्पसम्मत्तीए' इत्यादि गाथापूर्वार्द्ध, कल्पस्य - पारिहारिकानुष्ठानरूपस्य समाप्तौ 'तयं'ति तकं तमेव मारिहारिककल्पं जिनकल्पं वा उपयान्ति - प्रतिपद्यन्ते गच्छं वा अनुसरन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाश्च तत्र ये कल्पसमात्यनन्तरं तमेव कल्पं गच्छं वा समुपयान्ति ते इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिकाः, उक्तं च - "इत्तरिय थेरकप्पे जिणकप्पे आवकहिय"त्ति, [ इत्वराः स्थविरकल्पे यावत्कथिका जिनकल्पे ] अत्र स्थविरकल्पग्रहणमुपलक्षणं, स्वकल्पे चेति द्रष्टव्यं, इह चेत्वराणां कल्पप्रभावादेव देवमानुषतिर्यग्योनिक कृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुर्भवन्ति, यावत्कथिकानां तु सम्भवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च-" इत्तरियाणुवसग्गा आयंका वेयणाय न
113