SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कायगुप्तिद्वैधा-चेष्टानिवृत्तिलक्षणा यथागमचेष्टानियमलक्षणा च, तत्र दिव्यमानुषाद्युपसर्गसद्भावेऽपि क्षुत्पिपासादिपरीषहादिसम्भवेऽपि च यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां च सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा कायगुप्तिः, तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनादि साधुना विधेयं, ततः शयनासननिक्षेपादादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीया कायगुप्तिरिति ॥ ५९५॥ इदानीममिग्रहानाह व्वे खित्ते काले भावे य अभिग्गहा विणिदिहा । ते पुण अणेगभेया करणस्स इमं सख्वं तु द्रव्ये क्षेत्रे काले भावे वाऽमिग्रहा विनिर्दिष्टा:-कथिताः जिनैः, ते पुनः सर्वेऽप्यनेकभेदाः, यथा त्रैलोक्यस्वामिना श्रीमन्महावीरेण छनस्थचर्यायां विहरता कौशाम्ब्यां गृहीताः, तत्र द्रव्याभिप्रहो यद्यहं कुल्माषबाकुलान् सूपैंककोणे स्थितान् लप्स्ये तथा क्षेत्रामिग्रहो निग. डनियबितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिस्तात् दात्री करिष्यति तथा कालाभिग्रहो यदि दिवसद्वितीयपौरुष्यां अतिक्रान्तायां दास्यति तथा भावाभिग्रहो यदि मुण्डितशिरा रुदती सती सा दास्यति तदाऽहं भिक्षां गृहीष्यामि नान्यथेति, एवंविधामिप्रहैभगवतः षण्मासाः पञ्चदिवसोनास्तपस्यतः सखाताः इत्यनया दिशा द्रव्याद्यभिप्रहा विज्ञेयाः ॥ करणस्येदं-उक्तप्रकारेण स्वरूपमिति, अस्यापि करणस्य सप्ततिभेदान् श्रीगुरवः कथयन्ति, ते चैवं-आधाकर्मादयो द्विचत्वारिंशदपि दोषाः पिण्डशय्यावस्त्रपात्रलक्षणवस्तुचतुष्टयविषयत्वेन चत्वार एव समयन्ते समितयः पञ्च भावना द्वादश प्रतिमा अपि द्वादश इन्द्रियनिरोधाः पञ्च प्रतिलेखनाः पञ्चविंशतिः गुप्तयस्तिस्रः अभिप्रहाश्चत्वार इति सर्वमीलने च सप्ततिः ॥ ननु चरणकरणयोः कः प्रतिविशेषः, उच्यते, नित्यानुष्ठानं चरणं यत्तु प्रयोजने आपन्ने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते, न पुनव्रतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादयस्तु प्रयोजन एवापन्नेऽनुष्ठीयन्ते इति ॥ ५९६ ॥६७ ॥ सम्प्रति 'जङ्घाविज्जाचारणगमणसत्ति'त्ति अष्टषष्टं द्वारमाह अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो निस्सं काउं रविकरेऽवि ॥५९७ ॥ एगुप्पारण गओ रुयगवरंमि य तओ पडिनियत्तो । पीएणं नंदीसरंमि एइ तइएण समएणं ॥ ५९८ ॥ पढमेण पंडगवणं बीउप्पाएण नंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ ॥ ५९९ ॥ पढमेण माणुसोत्तरनगं तु नंदीसरं तु बीएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ॥ ६०० ॥ पढमेण नंदणवणे बीउप्पाएण पंडगवणंमि । एइ इहं तइएणं जो विज्जाचारणो होइ॥ ६०१॥ चरणं-गमनं तद्विद्यते येषां ते चारणार, 'ज्योत्स्नादिभ्योऽण' इति (पा०५-२-१३ वा०) मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनामस्ति ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमागमनं चामिगृह्यते, अत एवातिशायने मत्वर्थीयोऽयं, यथा रूपवती कन्येत्यत्र, ततोऽतिशयचरणसमर्था-अतिशयगमनागमनलब्धिसम्पन्नाश्चारणा, ते च द्विभेदा:-जवाचारणा विद्याचारणाश्च, तत्र ये चारित्रतपोविशेषप्रभावतःसमुद्भूतगमनागमनविषयलब्धिसम्पन्नास्ते जसाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, जलाचारणा रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्याचारणाश्च नन्दीश्वरं, तत्र जपाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छंति, ॥५९७॥ विद्याचारणास्त्वेवमेव, जलाचारणश्च रुचकवरद्वीपंगच्छन्नेकेनैवोत्पातेन गच्छति प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानमिति त्रय उत्पाताः, ॥५९८॥ यदि पुनरुशिखर जिगमिषुस्तदा प्रथमेनैवोत्पावेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति, ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति ॥५९९॥ विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, द्वितीयेन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि वन्दते, वतः प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, तत्र चैत्यानि वंदित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति, ॥६००॥ विद्याचारणो हि विद्यावशात् भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्यतिशयसंभवात् एकेनैवोत्पातेन स्वस्थानागमनमिति, एतच्च चारणभेदद्वयमुपलक्षणं, अन्येऽपि बहवश्चारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनसन्निविष्टाः कायोत्सर्गस्थिता वा पादोत्पनिक्षेपरहिता व्योमचारिणः, अपरे वापीसरित्समुद्रादिषु जलमुपेत्याकायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, अपरे भुव उपरि चतुरकुलप्रमिते आकाशे जबोत्क्षेपनिक्षेपनिपुणा जवाचारणाः, अन्ये नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराघयन्तः कुसुमदलपटलमवलम्बमानाः पुष्पचारणाः, अपरे चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य च गिरेष्टकच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादपूर्वकं उत्तरणावतरणनिपुणाः श्रेणिचारणाः, अन्येऽग्निशिखामुपादाय तेजस्कायिकानविराधयन्तः स्वयमदयमानाः पादविहारनिपुणा अग्निशिखाचारणाः, अपरे धूमवति तिरश्चीनामूर्द्धगामिनी वाऽऽलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः, कुब्जवृक्षान्तरालभाविनमःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनतः पादोत्क्षेपनिक्षेपक्षमा मर्कटकतन्तूनाञ्छिदन्तो यान्तो मर्कटकतन्तुचारणाः, चन्द्रार्कप्रहनक्षत्राद्य 112
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy