Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 114
________________ तेजोवनस्पतित्रसानां षण्णामपि प्रतिलेखनाप्रमत्तो विराधको भणितः ॥२॥] तथा पुरीषप्रश्रवणनिष्ठीवनश्लेष्मशरीरमलानुपकारिव सनानपानादीनां यजन्तुजातरहिते स्थण्डिले उपयोगपूर्वक्वं परित्यजनं सा परिष्ठापनासमितिः ॥५७१॥ इदानीं भावनाः प्रतिपादयति पढममणिच १ मसरणं २ संसारो ३ एगया य ४ अन्नत्तं ५। असुइत्तं ६ आसव ७ संवरो ८ य तह निजरा ९ नवमी ॥५७२ ॥ लोगसहावो १० बोहि य दुलहा ११धम्मस्स साहओ अरहा १२। एयाउ हुंति बारस जहक्कम भावणीयाओ॥५७३॥ तत्र प्रथममनित्यभावना १ द्वितीया अशरणभावना २ तृतीया संसारभावना ३ चतुर्थी एकत्वभावना ४ पञ्चमी अन्यत्वभावना ५ षष्ठी अशुचित्वभावना ६ सप्तमी आश्रवभावना ७ अष्टमी संवरभावना ८ तथा नवमी निर्जराभावना ९ दशमी लोकस्वभावभावना १० एकादशी बोधिदुर्लभत्वभावना ११ द्वादशी धर्मकथकोऽहन्निति १२, एतास्तु भावना द्वादश भवन्ति यथाक्रम-भणितक्रमेण भावनीया-अहर्निशमभ्यसनीया इति ॥ एतासां च स्वरूपं किञ्चिन्निरूपयामः, तत्रैवमनित्यभावना-प्रस्यन्ते वनसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः॥१॥ विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः ? ॥२॥ धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधूतध्वजपटोपमम् ॥ ३ ॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥४॥ स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥ ५॥ सर्वेषामपि भावानां, भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ, विपन्नेऽपि न शोचति ॥६॥ सर्ववस्तुषु नित्यत्वग्रह्मस्तस्तु मूढधीः । जीर्णवार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ॥७॥ ततस्तृष्णाविनाशेन, निर्ममत्वविधा. यिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् ॥८॥१॥अथाशरणभावना-पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधिब्रजनिगडिता:-कर्मचरटैः । रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोकः शरणरहितः स्थास्यति कथम्? ॥१॥ये जानन्ति विचित्रशास्त्रविसरं ये मत्रतत्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योतिःकलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वसनव्यप्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ॥ २॥ नानाशस्त्रपरिश्रमोद्भटभटेरावेष्टिताः सर्वतो, मत्युद्दाममदान्धसिन्धुरशतैः केनाप्यगम्याः कचित् । शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निस्त्राणता प्राणिनाम् ॥३॥ उइंडं ननु दण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात् , ये कर्तु प्रभविष्णवः कृशमपि केशं विनैवात्मनः । निःसामान्यबलप्रपश्चचतुरास्तीर्थरास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ ५॥२ । अथ संसारभावना-सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यक् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥१॥ बद्धा पापमनेककल्मषमहारम्भादिमिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसट्टनष्टाध्वसु । अङ्गच्छेदनभेदनप्रदहनक्लेशादिदुःखं महज्जीवो यल्लभते तदत्र गदितुं ब्रह्मापि जिझाननः ॥२॥ मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरश्चां गति, सिंहव्याघ्रमतङ्गजैणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीव: सहते न तत्कथयितुं केनाप्यहो शक्यते ॥३॥ खाद्याखाद्यविवेकशून्यमनसो निहींकतालिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः। तत्रानार्यनरा निरन्तरमहारम्भादिमिर्दुस्सहं, लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं चिन्वते ॥४॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोमादिमिः । भन्यप्रेषणमानभजनजनावहादिमिश्चानिशं, दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥५॥ रम्भागर्भसमः सुखी शिखिशिखा मिरुचैरयःसूचीमिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थितौ, सम्पचेत सदष्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥ ६॥ बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिमिर्नन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिय॑था। वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः १॥७॥ सम्यग्दर्शनपालनादिमिरथ प्राप्त भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्खल्पर्धिकत्वादिमिः । ईर्ष्याकाममदक्षुधाप्रभृतिमिश्चात्यन्तपीडार्दिताः, केशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ ८॥ इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम् ॥१॥ ३ । अयैकत्वभावना-उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥१॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाळते, तत्सम्भूय कलत्रमित्रतनयभ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच नारकनरस्वर्षासितिर्यग्भवेध्वेकः सैष सुदुःसहानि सहते दुःखान्यसङ्ख्यान्यहो ॥ २॥ जीवो. यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद्दश्यति बधयत्वतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति । ॥३॥ स्वार्थैकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥४॥४। अथान्यत्वभावना-जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तद्भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे'। तस्मालिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिमिर्यः पुष्णाति धनावि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ १॥ अन्यत्वभावनामेवं, यः करोति महामतिः। तस्य सर्वखनाशेऽपि, न शोकांशोऽपि, जायते ॥२॥५। अथाशचित्वभावना-लवणाकरे पदार्थाः पतिता लवणं यथा कविषादमत्सरभयस्वल्पर्धिकत्वादिलामह प्राप्नोति यस्यां जनः nan यन्ति दीनमनसो दीर्घ 105

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310