Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 118
________________ 1 वोपद्रवसोढा 'यथैव' यद्वदेव 'जिनकल्पी' जिनकल्पिकः तद्वदुपसर्गसह इत्यर्थः, 'एषणा' पिण्डग्रहणप्रकारः, सा च सप्तविधा - “संसट्टमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥" [ असंसृष्टा संसृष्टा उद्धृता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥ १ ॥ ] इति वक्ष्यमाणस्वरूपा 'अभिगृहीता' अभिग्रहवती, अभिग्रहावं-तासां सप्तानामेषणानां मध्ये आद्ययोर्द्वयोरग्रहणं पञ्चसु ग्रहणं, पुनरपि विवक्षितदिवसे अन्त्यानां पश्वानां मध्ये द्वयोरभिग्रहः- एका भक्ते एका च पानके इति, तथा भक्तं च- अन्नं पुनरलेपकृतं - अलेपकारकं वल्लचनकादि 'तस्य' प्रतिमां प्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्चास्य स्वकीयैषणाद्वयलब्ध एव तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात्, जाते तुचिते तं व्युत्सृजति, उक्तं च—“उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥ १ ॥ जाए उचिए य तयं वोसिरइ अहागडं विहाणेणं । इय आणानिरयस्सिह विन्नेयं तंपि तेण समं ॥ २ ॥” [ उपकरणं शुद्धैषणामानयुतं यदुचितं स्वकल्पस्य । तत् गृह्णाति यथाकृतं तद्भावे यावदुचितं तु ॥ १ ॥ जाते उचिते च तत् व्युत्सृजति यथाकृतं विधानेन । इत्याज्ञानिरतस्येह विज्ञेयं तदपि तेन सदृशं ॥ २ ॥ ] कल्पोचितं चोपधिमुत्पादयति स्वकीयेनैषणाद्वयेन, एतच्च एषणाचतुष्टयेऽन्तिमं, एषणाचतुष्टयं पुनरिदं - काषीसिकाद्युद्दिष्टमेव वस्त्रं प्रहीष्यामि १ प्रेक्षितमेव २ परिभुक्तप्रायमेवोत्तरीयादितया ३ तदप्युज्झितधर्मकमेवेति ४ ॥ ५७५-५७६-५७७ ।। अथैवं कृतपरिकर्मा यत्करोति तदाह - 'गच्छात्' साधुसमूहाद्विनिष्क्रम्य - तं विमुच्येत्यर्थः, तत्र ययाचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणक्षामणपूर्वकं, उक्तं च – “खामेइ तओ संघ सबालवुडुं जहोचियं एवं । अचंतं संविग्गो पुब्वविरुद्धे विसेसेणं ॥ १ ॥ जं किंचि पमापणं न सुडु मे वट्टियं मए पुवि । तं मे खामेमि अहं निस्सल्लो निक्कसाओत्ति ॥ २ ॥” [ क्षमयति ततः सङ्घ सबालवृद्धं यथोचितं एवं । अत्यन्तं संविद्मः पूर्वविरुद्धान् विशेषेण ॥ १ ॥ यत् किश्चित् प्रमादेन न सुष्ठु भवतां वर्त्तितं मया पूर्व । तद् भवतां क्षमयामि अहं निश्शल्यो निष्कषाय इति ॥ २ ॥ ] प्रतिपद्यते - अभ्युपगच्छति 'मासिक' मासप्रमाणां 'महाप्रतिमां' गुरुकप्रतिज्ञां तत्र च दत्तिः - अविच्छिन्नदानरूपा 'एका' एकैव भोजनस्य - अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तरैषणापश्व कोपात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैवागुर्विणीबालवत्सापीयमानस्तनीभिः एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य दीयमानस्य तथा 'पानस्यापि' पानकाहारस्य चैकैव 'तत्र' मासिक्यां प्रतिमायां दत्तिर्भवेदिति ॥ तथा 'यत्र' जलस्थलदुर्गादौ स्थितस्येति गम्यते 'अस्तमेति' पर्यन्तं याति 'सूरो' रविः 'न' नैवं 'ततः' तस्मात्स्थानाज्जलादेः 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूरं 'सञ्चरति' गच्छति आदित्योदयं यावत्, तथा 'ज्ञातः' प्रतिमानप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी–एकत्र प्रामादावहोरात्रमेवावतिष्ठते, न त्वधिकमित्यर्थः, तथा 'अज्ञातो' यत्र प्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एकं वा - एकरात्रं द्विकं वा - रात्रिद्वयं वसति, न परत इति । तथा 'दुष्टानां मारकाणां हस्त्यादीनां आदिशब्दात्सिंहव्याघ्रादीनां च 'भयेन' मरणभीत्या 'पदमपि पादविक्षेपमात्रमपि किं पुनः दूरतः ?, नैवापसरति - अपगच्छति, दुष्टो हि मारणार्थमागच्छन्नपसृतेऽपि • साधौ हरितादि विराधयिष्यतीत्यतो नापसरति, अदुष्टस्त्वपसृते साधौ मार्गेणैव गच्छति ततो हरितादिविराधना न स्यादित्यदुष्टादपसरतीति, 'एवमादिनियमसेवी' एतत्प्रभृतिकाभिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णं उष्णाच्छायायां च नोपसर्पतीत्याद्यमित्रहो विहरति—प्रामानुप्रामं सञ्चरति यावदखण्डितः - परिपूर्णो मासो जात इति शेषः, आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः, यथा संस्तार कोपाश्रयादीनां याचनार्थ संशयितसूत्रार्थयोर्गृहादेव प्रश्नार्थं तृणकाष्ठादीनामनुज्ञापनार्थं प्रनितानां सूत्रादीनां सकृद् द्विर्वा कथनार्थमेव चायं प्रतिमाप्रतिपन्नो वक्ति न तु भाषान्तरमिति, तथा आगन्तुकागारविवृतगृहवृक्षमूललक्षण एव वसतित्रये वसति न त्वन्यत्र, तत्र आगन्तुकागारं यत्र कापेटिकादय आगत्य वसन्ति विवृतगृहं यदधः कुड्याभावादुपरि चाच्छादनाभावादनावृतं वृक्षमूलंकरीरादितरुमूलं साधुवर्जनीयदोषरहितं, उक्तं च – “ जायणपुच्छाणुन्नवणपुट्ट वागरणभासगो चेव । आगमणवियडगिहरुक्खमूलगावासयतिगोत्ति ।। १ ।।” [ याचनापृच्छानुज्ञापनष्पृष्टव्याकरणभाषक एव । आगमनविवृतगृहवृक्षमूलत्रयावासक इति ॥ १ ॥ ] तथा व बिभेति- प्रदीप्तादप्युपाश्रयान्न निर्गच्छति, अथ कश्चिद् बाह्रादौ गृहीत्वाऽऽकर्षति तदा निर्यात्यपि, तथा चरणप्रविष्टं दारुकण्टकशर्करादिकं न स्फेटयति अक्षिगतं रेणुतृणमलादिकं च नापनयति, तथा करचरणमुखादिकमङ्गं प्रासुकजलेनापि न क्षालयति, तदन्यसाधवो हि पुष्टालम्बने पटादि प्रक्षालयन्त्यपीति ॥ ५७८- ५७९ - ५८० ।। पश्चात् - मासपूरणानन्तरं गच्छं - साधुसमूहमुपैति विभूत्या, तथाहिगच्छस्थानासन्नप्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो नृपादीनां निवेद्यते यथा परिपालितप्रति मारूप महातपाः साधुरत्रागतः, ततो नृपादिलोकैः श्रमणसङ्गेन चामिनन्द्यमानस्तत्र प्रवेक्ष्यते तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं चेति, एवमाद्या उक्ता शेषाः षडतिदिशन्नाह - ' एवं ' अनेनैव क्रमेण द्वैमासिकी त्रैमासिकी यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता, 'नवरं' केवलं प्रथमायाः–मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेष:- यथा दत्तयस्तासु वर्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयं त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तय इति ॥ ५८१ ।। अथाष्टमीमाह - ' ततश्च' सप्तम्या अनन्तरमष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन - एकान्तरोपवासेन आसितव्यमिति शेषः, 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, 'अ 109

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310