________________
1
वोपद्रवसोढा 'यथैव' यद्वदेव 'जिनकल्पी' जिनकल्पिकः तद्वदुपसर्गसह इत्यर्थः, 'एषणा' पिण्डग्रहणप्रकारः, सा च सप्तविधा - “संसट्टमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥" [ असंसृष्टा संसृष्टा उद्धृता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥ १ ॥ ] इति वक्ष्यमाणस्वरूपा 'अभिगृहीता' अभिग्रहवती, अभिग्रहावं-तासां सप्तानामेषणानां मध्ये आद्ययोर्द्वयोरग्रहणं पञ्चसु ग्रहणं, पुनरपि विवक्षितदिवसे अन्त्यानां पश्वानां मध्ये द्वयोरभिग्रहः- एका भक्ते एका च पानके इति, तथा भक्तं च- अन्नं पुनरलेपकृतं - अलेपकारकं वल्लचनकादि 'तस्य' प्रतिमां प्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्चास्य स्वकीयैषणाद्वयलब्ध एव तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात्, जाते तुचिते तं व्युत्सृजति, उक्तं च—“उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥ १ ॥ जाए उचिए य तयं वोसिरइ अहागडं विहाणेणं । इय आणानिरयस्सिह विन्नेयं तंपि तेण समं ॥ २ ॥” [ उपकरणं शुद्धैषणामानयुतं यदुचितं स्वकल्पस्य । तत् गृह्णाति यथाकृतं तद्भावे यावदुचितं तु ॥ १ ॥ जाते उचिते च तत् व्युत्सृजति यथाकृतं विधानेन । इत्याज्ञानिरतस्येह विज्ञेयं तदपि तेन सदृशं ॥ २ ॥ ] कल्पोचितं चोपधिमुत्पादयति स्वकीयेनैषणाद्वयेन, एतच्च एषणाचतुष्टयेऽन्तिमं, एषणाचतुष्टयं पुनरिदं - काषीसिकाद्युद्दिष्टमेव वस्त्रं प्रहीष्यामि १ प्रेक्षितमेव २ परिभुक्तप्रायमेवोत्तरीयादितया ३ तदप्युज्झितधर्मकमेवेति ४ ॥ ५७५-५७६-५७७ ।। अथैवं कृतपरिकर्मा यत्करोति तदाह - 'गच्छात्' साधुसमूहाद्विनिष्क्रम्य - तं विमुच्येत्यर्थः, तत्र ययाचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणक्षामणपूर्वकं, उक्तं च – “खामेइ तओ संघ सबालवुडुं जहोचियं एवं । अचंतं संविग्गो पुब्वविरुद्धे विसेसेणं ॥ १ ॥ जं किंचि पमापणं न सुडु मे वट्टियं मए पुवि । तं मे खामेमि अहं निस्सल्लो निक्कसाओत्ति ॥ २ ॥” [ क्षमयति ततः सङ्घ सबालवृद्धं यथोचितं एवं । अत्यन्तं संविद्मः पूर्वविरुद्धान् विशेषेण ॥ १ ॥ यत् किश्चित् प्रमादेन न सुष्ठु भवतां वर्त्तितं मया पूर्व । तद् भवतां क्षमयामि अहं निश्शल्यो निष्कषाय इति ॥ २ ॥ ] प्रतिपद्यते - अभ्युपगच्छति 'मासिक' मासप्रमाणां 'महाप्रतिमां' गुरुकप्रतिज्ञां तत्र च दत्तिः - अविच्छिन्नदानरूपा 'एका' एकैव भोजनस्य - अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तरैषणापश्व कोपात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैवागुर्विणीबालवत्सापीयमानस्तनीभिः एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य दीयमानस्य तथा 'पानस्यापि' पानकाहारस्य चैकैव 'तत्र' मासिक्यां प्रतिमायां दत्तिर्भवेदिति ॥ तथा 'यत्र' जलस्थलदुर्गादौ स्थितस्येति गम्यते 'अस्तमेति' पर्यन्तं याति 'सूरो' रविः 'न' नैवं 'ततः' तस्मात्स्थानाज्जलादेः 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूरं 'सञ्चरति' गच्छति आदित्योदयं यावत्, तथा 'ज्ञातः' प्रतिमानप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी–एकत्र प्रामादावहोरात्रमेवावतिष्ठते, न त्वधिकमित्यर्थः, तथा 'अज्ञातो' यत्र प्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एकं वा - एकरात्रं द्विकं वा - रात्रिद्वयं वसति, न परत इति । तथा 'दुष्टानां मारकाणां हस्त्यादीनां आदिशब्दात्सिंहव्याघ्रादीनां च 'भयेन' मरणभीत्या 'पदमपि पादविक्षेपमात्रमपि किं पुनः दूरतः ?, नैवापसरति - अपगच्छति, दुष्टो हि मारणार्थमागच्छन्नपसृतेऽपि • साधौ हरितादि विराधयिष्यतीत्यतो नापसरति, अदुष्टस्त्वपसृते साधौ मार्गेणैव गच्छति ततो हरितादिविराधना न स्यादित्यदुष्टादपसरतीति, 'एवमादिनियमसेवी' एतत्प्रभृतिकाभिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णं उष्णाच्छायायां च नोपसर्पतीत्याद्यमित्रहो विहरति—प्रामानुप्रामं सञ्चरति यावदखण्डितः - परिपूर्णो मासो जात इति शेषः, आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः, यथा संस्तार कोपाश्रयादीनां याचनार्थ संशयितसूत्रार्थयोर्गृहादेव प्रश्नार्थं तृणकाष्ठादीनामनुज्ञापनार्थं प्रनितानां सूत्रादीनां सकृद् द्विर्वा कथनार्थमेव चायं प्रतिमाप्रतिपन्नो वक्ति न तु भाषान्तरमिति, तथा आगन्तुकागारविवृतगृहवृक्षमूललक्षण एव वसतित्रये वसति न त्वन्यत्र, तत्र आगन्तुकागारं यत्र कापेटिकादय आगत्य वसन्ति विवृतगृहं यदधः कुड्याभावादुपरि चाच्छादनाभावादनावृतं वृक्षमूलंकरीरादितरुमूलं साधुवर्जनीयदोषरहितं, उक्तं च – “ जायणपुच्छाणुन्नवणपुट्ट वागरणभासगो चेव । आगमणवियडगिहरुक्खमूलगावासयतिगोत्ति ।। १ ।।” [ याचनापृच्छानुज्ञापनष्पृष्टव्याकरणभाषक एव । आगमनविवृतगृहवृक्षमूलत्रयावासक इति ॥ १ ॥ ] तथा व बिभेति- प्रदीप्तादप्युपाश्रयान्न निर्गच्छति, अथ कश्चिद् बाह्रादौ गृहीत्वाऽऽकर्षति तदा निर्यात्यपि, तथा चरणप्रविष्टं दारुकण्टकशर्करादिकं न स्फेटयति अक्षिगतं रेणुतृणमलादिकं च नापनयति, तथा करचरणमुखादिकमङ्गं प्रासुकजलेनापि न क्षालयति, तदन्यसाधवो हि पुष्टालम्बने पटादि प्रक्षालयन्त्यपीति ॥ ५७८- ५७९ - ५८० ।। पश्चात् - मासपूरणानन्तरं गच्छं - साधुसमूहमुपैति विभूत्या, तथाहिगच्छस्थानासन्नप्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो नृपादीनां निवेद्यते यथा परिपालितप्रति मारूप महातपाः साधुरत्रागतः, ततो नृपादिलोकैः श्रमणसङ्गेन चामिनन्द्यमानस्तत्र प्रवेक्ष्यते तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं चेति, एवमाद्या उक्ता शेषाः षडतिदिशन्नाह - ' एवं ' अनेनैव क्रमेण द्वैमासिकी त्रैमासिकी यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता, 'नवरं' केवलं प्रथमायाः–मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेष:- यथा दत्तयस्तासु वर्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयं त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तय इति ॥ ५८१ ।। अथाष्टमीमाह - ' ततश्च' सप्तम्या अनन्तरमष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन - एकान्तरोपवासेन आसितव्यमिति शेषः, 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, 'अ
109