SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भवेत् ॥ १०॥ १२ ॥ एकामप्यमलामिमासु सततं यो भावयेद्भावनां, भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । बस्त्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादभ्यस्येल्लभते स सौख्यमतुलं किं तत्र कौतूहलम् ? ॥१॥ ५७२-५७३ ॥ अथ प्रतिमाः प्रतिपादयति मासाई सत्संता ७ पढमा ८ विह ९ तइय सत्सराइदिणा १० । अहराइ ११ एगराई १२ भिक्खुपडिमाण पारसगं ॥५७४॥ पडिवजह एयाओ संघयणधिइजुओ महाससो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥ ५७५ ॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्थु होइ जहण्णो सुआभिगमो ॥५७६ ॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवडं तस्स ॥५७७ ॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेगा भोयणस्सा पाणस्सवि तत्थ एग भवे ॥५७८॥ जत्थऽत्थमेइ सूरो न तओ ठाणा पयंपि संचलइ ।नाएगराइवासी एगं च दुगं च अण्णाए ॥५७९॥ दुट्ठाण हत्थिमाईण नो भएणं पयंपि ओसरइ । एमाइनियमसेवी विहरइ जाऽखण्डिओ मासो ॥५८० ॥ पच्छा गच्छमुवेई एव दुमासी तिमासि जा सत्त । नवरं दत्ती वहुइ जा सत्त उ सत्तमासीए ॥ ५८१॥ तत्तो य अट्ठमीया भवई इह पढम सत्तराइंदी । तीइ चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥५८२॥ उत्ताणगपासल्ली नेसजी वावि ठाण ठाइत्ता । सहस्सग्गे घोरे दिव्वाई तत्थ अविकंपो ॥५८३ ॥ दोचावि एरिसचिय बहिया गामाइयाण मवरं तु । उकुडलगंडसाई दण्डाययउव्व ठाइत्ता ॥ ५८४ ॥ तचावि एरिसच्चिय नवरं ठाणं तु तस्स गोदोही। वीरासणमहवावि चिहिजा अंबखुलो वा ॥ ५८५ ॥ एमेव अहोराई छ8 भत्तं अपाणगं नवरं । गामनगराण बहिया वग्घारियपाणिए ठाणं ॥ ५८६ ॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपन्भारगए अणिमिसनयणेगदिट्ठीए ॥५८७ ॥ साहड्ड दोवि पाए वग्धारियपाणि ठायए ठाणं । वाघारियलंबियभुओ अंते य इमीइ लद्धित्ति ॥५८८॥ 'मासाई'त्यादि गाथापञ्चदशकं, मासादयः' मासप्रभृतयः 'सप्तान्ताः' सप्तमासावसाना एकैकमासवृद्ध्या सप्त प्रतिमा भवन्ति, तत्र मास: परिमाणमस्या मासिकी प्रथमा एवं द्विमासिकी द्वितीया त्रिमासिकी तृतीया यावत् सप्तमासिकी सप्तमी, 'पढमा बिइ तइय सत्तराइदिण'त्ति सप्तानां प्रतिमाणामुपरि प्रथमा द्वितीया तृतीयाच सप्त रात्रिदिनानि-रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति, तमिलापश्चैवं-प्रथमा सप्तरात्रिन्दिवा द्वितीया सप्तरात्रिन्दिवा तृतीया सप्तराविन्दिवा च, एताश्च तिम्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति, 'अहराइ'त्ति अहोरात्रं परिमाणमस्याः साहोरात्रिकी एकादशी प्रतिमा, 'एगराइ'त्ति एका रात्रिर्यस्यां सा एकरात्रिः एकरात्रिरेवैकरात्रिकी द्वादशी प्रतिमा, इत्येवं 'भिक्षुप्रतिमाणां' साधुप्रतिज्ञाविशेषाणां द्वादशकं संभवतीति ॥ ५७४ ॥ अथ य एताः प्रतिपद्यते तमाह-'पडिवजई' इत्यादिगाथात्रयं, प्रतिपद्यते-अभ्युपगच्छत्येताः-अनन्तरोक्ताः प्रतिमाः 'संहननधृतियुतः' तत्र संहननं-वर्षभनाराचादेरन्यतरत् एतद्युको अत्यन्तं परीषहसहनसमर्थो भवति धृतिः-चित्तस्वास्थ्यं तद्युक्तश्च रत्यरतिभ्यां न बाध्यते, महासत्त्वः-सात्त्विकः स बनुकूलप्रतिकूलोपसर्गेषु हर्षविषादौ न विधत्ते, 'भावितात्मा' सद्भावनाभावितान्तःकरणः प्रतिमानुष्ठानेन वा भावितात्मा, तद्भावना च तुलनापश्चकेच स्यात् , तद्यथा-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, पडिमं पडिवजओ ॥१॥" [तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पश्चधोक्ता प्रतिमा प्रतिपद्यमानस्य ॥१॥] एतद्व्याख्या च प्रागेवोक्ता, कथं भावितात्मेत्याह–'सम्यक्' यथाऽऽगमं, तथा 'गुरुणा' आचार्येणानुज्ञातः-अनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥५७५॥ तथा 'गच्छ एव' साधुसमुदायमध्य एव तिष्ठन् 'निर्मातः' आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, आह च-"पडिमाकप्पियतुल्लो गच्छे चिय कुणइ दुविहपरिकम्मं । आहारोवहिमाइसु तहेव पडिवजई कप्पं ॥ १॥" [प्रतिमाकल्पिकतुल्यो गच्छ एव करोति द्विविधपरिकर्म । आहारोपध्यादिषु तथैव प्रतिपद्यते कल्पं ॥१॥] आहारादिप्रतिकर्म चाप्रेतनगाथायां कथयिष्यते, परिकर्मपरिमाणं चैवं-मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च परिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुथ्यौँ चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे परिकर्म अन्यत्र वर्षे प्रतिपत्तिः, तदेवं नवमिर्वराधाः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताभिगमो भवतीत्याह-जापुव्वेत्यादि, यावत्पूर्वाणि दश 'असम्पूर्णानि किश्चिदूनानि, सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमादिकल्पं न प्रतिपद्यते, 'भवेत् स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायं जघन्यस्य वक्ष्यमाणत्वात् , अथ तमेवाह-नवमस्य पूर्वस्य-प्रत्याख्याननामकस्य तृतीयं वस्तु-आचाराख्यं तद्भागविशेष यावदिति वर्तते स्यात् अस्य जघन्यः-अल्पीयान् श्रुताधिगमः-श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतत्श्रुतविरहितो हि निरतिशयज्ञानत्वात्कालादि न जानातीति ॥५७६॥ तथा व्युत्सृष्टः परिकाभावेन त्यक्तो ममत्वत्यागेन देहः-कायो येन सः तथा, 'उपसर्गसहो दिव्यमानुषतैर 108
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy