SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ " रिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनाख्याः ॥ २४ ॥ योजनलक्षप्रमिताजम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥ २५ ॥ बोद्धव्या घातकी खण्डकालोदाद्या असल्यकाः । स्वयम्भूरमणान्ताश्च द्वीपवारिधयः क्रमात् ॥ २६ ॥ युग्मम् । प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥ २७ ॥ सुजातपरमद्रव्य हृद्यमद्यसमोदकः । वारुणीवरवार्धिः स्यात्, क्षीरोदजलधिः पुनः ॥ २८ ॥ सम्यक्कथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥ २९ ॥ लवणान्धिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥ ३० ॥ मेघोदकरसाः किन्तु, कालोदजलधैर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुनः ॥ ३१ ॥ हितं लघुपरिणामं, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२ ॥ त्रिभागावर्तसुचतुर्जातकेक्षुरसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूर्द्ध योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्यादुधस्तर्लः ।। ३४ ।। तस्योपरि च दशसु योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः ॥ ३५ ॥ तस्योपरि च विंशत्यां योजनेषु महादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् || ३६ || जम्बूद्वीपे भ्रमन्तौ च द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः ॥ ३७ ॥ धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालो द्विचत्वारिंशञ्चन्द्राः सूर्याश्च कीर्तिताः || ३८ ॥ पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते ॥ ४० ॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्ध्या, वृद्धिमन्तश्च यया ॥ ४१ ॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः ॥ ४२ ॥ समभूमितलादूर्द्ध, सार्धरज्जौ व्यवस्थितौ । कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ ॥ ४३ ॥ सार्धरज्जुद्वये स्यातां समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ देवलोकौ मनोहरौ ॥ ४४ ॥ ऊर्द्धलोकस्य मध्ये च ब्रह्मलोकः प्रकीर्तितः । तदूर्द्ध लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥ ४५ ॥ देवलोकः सहस्रारोऽथाष्टमो रज्जुपाके । एकेन्द्रौ चन्द्रवद् वृत्तावानतप्राणतौ ततः ॥ ४६ ॥ रज्जुष ततः स्यातामेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः ॥ ४७ ॥ मैवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यमकास्तथा । श्रयश्वोपरितनाः स्युरिति प्रैवेयका नव ॥ ४८ ॥ अनुत्तर विमानानि तदूर्द्ध पश्च तत्र च । प्राच्यां विजयमपाच्यां वैजयन्तं प्रचक्षते ॥ ४९ ॥ प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ ५० ॥ स्थितिप्रभावले श्यामिर्विशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥ ५१ ॥ पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगति गर्वपरिग्रहैः ॥ ५२ ॥ घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥ ५३ ॥ ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः । इत्यूर्द्ध्वलोक विमानप्रतिष्ठानविधिः स्मृतः ॥ ५४ ॥ सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोजवला । योजनपञ्चचत्वारिंशलक्षायामविस्तरा ॥ ५५ ॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥ ५६ ॥ तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ अनन्तसुख विज्ञान वीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥ ५८ ॥ एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारैकनिबन्धने न विषयग्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धुरं, धर्मध्यानविद्याविह स्थिरतरं तज्जायते संततम् ॥ ५९ ॥ १० ॥ अथ बोधिदुर्लभत्वभावना - पृथ्वीनीरहुताशवायुतरुषु छिटैर्निजैः कर्ममिश्रम्यन् भीमभवेऽत्र पुलपरावदनिनन्तानहो । जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभं प्राप्नोति प्रसरूपतां कथमपि द्वित्रीन्द्रियाद्यामिह ॥ १ ॥ आर्यक्षेत्रसुजाति सत्कुलवपुर्नीरोगतासम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । तत्त्वातत्त्व विवेचनैककुशलां बोधिं न तु प्राप्तवान् कुत्राप्यक्षय मोक्षसौख्यजननीं श्रीसविदेशिताम् ॥ २ ॥ बोधिर्लब्धा यदि भवेदेकदाऽप्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् ॥ ३ ॥ द्रव्यचारित्रमप्येतैर्बहुशः समवाप्यत । सज्ज्ञानकारिणी कापि, न तु बोधिः कदाचन ॥ ४ ॥ येऽसिध्यन् ये च सिद्ध्यन्ति, ये सेत्स्यन्ति च केचन । सर्वे बोधिमाहात्म्यात्तस्माद्बोधिरुपास्यताम् ॥ ५ ॥ ११ ॥ अथ धर्मकथकोऽर्हन्निति भावना - अर्हन्तः केवलालोकालोकितालोकलोककाः । यथार्थ धर्ममाख्यातुं, पटिष्टा न पुनः परे ॥ १ ॥ वीतरागा हि सर्वत्र, परार्थकरणोयताः । न कुत्राप्यनृतं ब्रूयुस्ततस्तद्धर्मसत्यता ॥ २ ॥ क्षान्त्यादिभेदैर्धर्मं च, दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवान्धौ न निमज्जति ॥ ३ ॥ पूर्वापरविरुद्धानि, हिंसादेः कार - काणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥ ४ ॥ कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि कथं स्वाख्यातता भवेत् ? ॥ ५ ॥ यञ्च तत्समये कापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमात्रं, बुधैर्ज्ञेयं न तस्त्वतः ॥ ६ ॥ यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निः शेषजनप्रमोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् ॥ ७ ॥ यन प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां घिनोति सलिलासारेण धाराधरः । यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ८ ॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिकान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितत्रातजनकः ॥ ९ ॥ अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्मे धीमान् दृढतरो 107
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy