SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भवन्तीह । काये तथा मलाः स्युस्तदसावशुचिः सदा कायः ॥ १ ॥ कायः शोणितशुक्रमीलनभवो गर्भे जरावेष्टितो, मात्रास्वादितखाथपेयरसकैर्वृद्धिं क्रमात्प्रापितः । विद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः ? ॥ २ ॥ सुस्वादं शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकामृताघृतपूरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कायं सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥ ३ ॥ अम्भः कुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कालं लम्भयथोत्तमं परिमलं कस्तूरिकाद्यैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये तु शौंचं कथङ्कारं नेष्यथ सूत्रयिष्यथ कथङ्कारं च तत्सौरभम् ? ॥ ४ ॥ दिव्यामोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुङ्कुमप्रभृतयो भावा यदाश्लेषतः । दौर्गन्ध्यं दधति क्षणेन मलतां चाविभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत ॥ ५ ॥ इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममतां तत्र, न कुर्वीत कदाचन ॥ ६ ॥ ६ ॥ अथा स्रवभावना-मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम् । भविनामात्रवन्त्येते, प्रोक्तास्तेनास्रवा जिनैः ॥ १ ॥ मैया सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च ॥ २ ॥ सततं वासितं स्वान्तं कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ ३ ॥ रौद्रार्त्तध्यानमिध्यात्वकषाय विषयैर्मनः । आक्रान्तमशुभं कर्म, विदधाति द्व्यशीतिधा ।। ४ ।। सर्वज्ञगुरुसिद्धान्तसङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्म सच्चिनुते शुभम् ॥ ५ ॥ श्रीगुरुसर्वज्ञधर्मधार्मिकदूषकम् । उन्मार्गदेशि वचनमशुभं कर्म पुष्यति ॥ ६ ॥ देवार्चनगुरूपास्तिसाधु विश्रामणादिकम् । वितन्वती सुगुप्ता च तनुर्वितनुते शुभम् ॥ ७ ॥ मांसाशनसुरापानजन्तुघातनचौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः ॥ ८ ॥ एनामाश्रवभावनामचिरतं यो भावयेद्भावतस्तस्या - नर्थपरम्परैकजनकाद् दुष्टाश्रवौघात् मनः । व्यावृत्त्याखिलदुःखदावजलदे निःशेषशर्मावली निर्माणप्रवणे शुभाश्रवगणे नित्यं रतिं पुष्यति ।। ९ ।। ७ । अथ संवरभावना - आश्रवाणां निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति द्विधा स तु विभज्यते ॥ १ ॥ भयोगिकेवलिष्वेव, सर्वतः संवरो मतः । देशतः पुनरेकद्विप्रभृत्याश्रवरोधिषु ॥ २ ॥ प्रत्येकमपि स द्वेधा, द्रव्यभावविभेदतः । यत्कर्म - पुद्गलादानमात्मन्याश्रवतो भवेत् ॥ ३ ॥ एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः । भवहेतुक्रियायास्तु त्यागोऽसौ भावसंवरः ॥ ४ ॥ युग्मम् । मिथ्यात्वकषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्या उपायाः प्रतिपन्थिनः ॥ ५ ॥ यथा- मिध्यात्वमार्त्तरौद्राख्यकुष्याने च सुधीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् || ६ || क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः ॥ ७ ॥ शब्दादिविषयानिष्टानिष्टांश्चापि विषोपमान् । रागद्वेषप्रहाणेन, निराकुर्वीत कोविदः ॥ ८ ॥ य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति स्वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् ॥ ९ ॥ ७ । अथ निर्जराभावना-संसारहेतुभूताया, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनर्द्वधा, सकामाकामभेदतः ॥ १ ॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः स्वत उपायाच कर्मणां स्याद् यथाऽऽम्रवत् ॥ २ ॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ४ ॥ कष्टुं वेदयमानानां यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥ ५ ॥ युग्मम् । तपःप्रभृतिभिर्वृद्धिं, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसारं हन्यात्तां भावयेत्ततः ॥६।। ९ । अथ लोकस्वभावभावना - वैशाखस्थानस्थितकटिस्थ करयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः स्थित्युत्पत्तिन्ययाक्रान्तैः ॥ १ ॥ ऊर्द्धतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्य व्यवस्थितात् ॥ २ ॥ नवयोजनशत्यूर्द्धमधोभागेऽपि सा तथा । एतत्प्रमाणकस्तिर्यग्लो कश्चित्रपदार्थभृत् ॥ ३ ॥ ऊर्द्धलोकस्तदुपरि सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥ ४ ॥ रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । घनोदधिधनवाततनुवातैस्तमोचनाः ॥ ५ ॥ तृष्णाक्षुधावघाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ ६ ॥ प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च, तत्रोपरि सहस्रकम् ॥ ७ ॥ अधश्च मुक्त्वा पिण्डेस्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवानां भवनानि जगुर्जिनाः ॥ ८ ॥ युग्मम् । असुरा नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥ ९ ॥ व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥ १० ॥ उदीच्यानां बलिर्नागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च हरिर्हरिसहस्तथा ॥ ११ ॥ वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवौ । वेलम्बः प्रभञ्जनच, सुघोषमहाघोषकौ ॥ १२ ॥ जलकान्तो जलप्रभस्ततः पूर्णो वशिष्टकः । अमितो मितवाहनः, इन्द्रा ज्ञेया द्वयोर्दिशोः ॥ १३ ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहस्रे । योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥ १४ ॥ पिशाचाद्यष्टभेदानां व्यन्तराणां तरस्विनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयोदिशोः ॥ १५ ॥ पिशाचा भूता यक्षाश्च, राक्षसाः किन्नरास्तथा । किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा ॥ १६ ॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्वाविन्द्रौ समाम्नातौ, यथासङ्ख्यं सुबुद्धिभिः ॥ १७ ॥ कालस्ततो महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥ १८ ॥ किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामकौ तदनु । अतिकायमहाकायौ गीतरतिश्चैव गीतयशाः ॥ १९ ॥ अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तं । तन्मध्यादध उपरि च योजनदशकं परित्यज्य ॥ २० ॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अष्टावत्पर्धिकाः किञ्चित् ॥ २१ ॥ अत्र प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महाद्युती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२ ॥ योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगि 106
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy