________________
तेजोवनस्पतित्रसानां षण्णामपि प्रतिलेखनाप्रमत्तो विराधको भणितः ॥२॥] तथा पुरीषप्रश्रवणनिष्ठीवनश्लेष्मशरीरमलानुपकारिव सनानपानादीनां यजन्तुजातरहिते स्थण्डिले उपयोगपूर्वक्वं परित्यजनं सा परिष्ठापनासमितिः ॥५७१॥ इदानीं भावनाः प्रतिपादयति
पढममणिच १ मसरणं २ संसारो ३ एगया य ४ अन्नत्तं ५। असुइत्तं ६ आसव ७ संवरो ८ य तह निजरा ९ नवमी ॥५७२ ॥ लोगसहावो १० बोहि य दुलहा ११धम्मस्स साहओ अरहा १२।
एयाउ हुंति बारस जहक्कम भावणीयाओ॥५७३॥ तत्र प्रथममनित्यभावना १ द्वितीया अशरणभावना २ तृतीया संसारभावना ३ चतुर्थी एकत्वभावना ४ पञ्चमी अन्यत्वभावना ५ षष्ठी अशुचित्वभावना ६ सप्तमी आश्रवभावना ७ अष्टमी संवरभावना ८ तथा नवमी निर्जराभावना ९ दशमी लोकस्वभावभावना १० एकादशी बोधिदुर्लभत्वभावना ११ द्वादशी धर्मकथकोऽहन्निति १२, एतास्तु भावना द्वादश भवन्ति यथाक्रम-भणितक्रमेण भावनीया-अहर्निशमभ्यसनीया इति ॥ एतासां च स्वरूपं किञ्चिन्निरूपयामः, तत्रैवमनित्यभावना-प्रस्यन्ते वनसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः॥१॥ विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः ? ॥२॥ धराधरधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधूतध्वजपटोपमम् ॥ ३ ॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥४॥ स्वाम्यं स्वप्नावलीसाम्यं, चपलाचपलाः श्रियः । प्रेम द्वित्रिक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥ ५॥ सर्वेषामपि भावानां, भावयन्नित्यनित्यताम् । प्राणप्रियेऽपि पुत्रादौ, विपन्नेऽपि न शोचति ॥६॥ सर्ववस्तुषु नित्यत्वग्रह्मस्तस्तु मूढधीः । जीर्णवार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ॥७॥ ततस्तृष्णाविनाशेन, निर्ममत्वविधा. यिनीम् । शुद्धधीर्भावयेन्नित्यमित्यनित्यत्वभावनाम् ॥८॥१॥अथाशरणभावना-पितुर्मातुर्धातुस्तनयदयितादेश्च पुरतः, प्रभूताऽऽधिव्याधिब्रजनिगडिता:-कर्मचरटैः । रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोकः शरणरहितः स्थास्यति कथम्? ॥१॥ये जानन्ति विचित्रशास्त्रविसरं ये मत्रतत्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योतिःकलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वसनव्यप्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ॥ २॥ नानाशस्त्रपरिश्रमोद्भटभटेरावेष्टिताः सर्वतो, मत्युद्दाममदान्धसिन्धुरशतैः केनाप्यगम्याः कचित् । शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निस्त्राणता प्राणिनाम् ॥३॥ उइंडं ननु दण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात् , ये कर्तु प्रभविष्णवः कृशमपि केशं विनैवात्मनः । निःसामान्यबलप्रपश्चचतुरास्तीर्थरास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ ५॥२ । अथ संसारभावना-सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यक् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥१॥ बद्धा पापमनेककल्मषमहारम्भादिमिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसट्टनष्टाध्वसु । अङ्गच्छेदनभेदनप्रदहनक्लेशादिदुःखं महज्जीवो यल्लभते तदत्र गदितुं ब्रह्मापि जिझाननः ॥२॥ मायाादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरश्चां गति, सिंहव्याघ्रमतङ्गजैणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तष्णावधबन्धताडनरुजावाहादिदुःखं सदा, यज्जीव: सहते न तत्कथयितुं केनाप्यहो शक्यते ॥३॥ खाद्याखाद्यविवेकशून्यमनसो निहींकतालिङ्गिताः, सेव्यासेव्यविधौ समीकृतधियो निःशूकतावल्लभाः। तत्रानार्यनरा निरन्तरमहारम्भादिमिर्दुस्सहं, लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं चिन्वते ॥४॥ माः क्षत्रियवाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञानदरिद्रताव्यसनितादौर्भाग्यरोमादिमिः । भन्यप्रेषणमानभजनजनावहादिमिश्चानिशं, दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्पैरपि ॥५॥ रम्भागर्भसमः सुखी शिखिशिखा
मिरुचैरयःसूचीमिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थितौ, सम्पचेत सदष्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥ ६॥ बाल्ये मूत्रपुरीषधूलिलुठनाज्ञानादिमिर्नन्दिता, तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिय॑था। वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्यां जनः १॥७॥ सम्यग्दर्शनपालनादिमिरथ प्राप्त भवे त्रैदशे, जीवाः शोकविषादमत्सरभयस्खल्पर्धिकत्वादिमिः । ईर्ष्याकाममदक्षुधाप्रभृतिमिश्चात्यन्तपीडार्दिताः, केशेन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥ ८॥ इत्थं शिवफलाधायिभववैराग्यवीरुधः । सुधावृष्टिं सुधीः कुर्यादेनां संसारभावनाम् ॥१॥ ३ । अयैकत्वभावना-उत्पद्यते जन्तुरिहैक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥१॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाळते, तत्सम्भूय कलत्रमित्रतनयभ्रात्रादिभिर्भुज्यते । तत्तत्कर्मवशाच नारकनरस्वर्षासितिर्यग्भवेध्वेकः सैष सुदुःसहानि सहते दुःखान्यसङ्ख्यान्यहो ॥ २॥ जीवो. यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद्दश्यति बधयत्वतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति । ॥३॥ स्वार्थैकनिष्ठं स्वजनस्वदेहमुख्यं ततः सर्वमवेत्य सम्यग् । सर्वत्र कल्याणनिमित्तमेकं, धर्म सहायं विदधीत धीमान् ॥४॥४। अथान्यत्वभावना-जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तद्भिन्नोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिवस्तुव्रजे'। तस्मालिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डादिमिर्यः पुष्णाति धनावि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ १॥ अन्यत्वभावनामेवं, यः करोति महामतिः। तस्य सर्वखनाशेऽपि, न शोकांशोऽपि, जायते ॥२॥५। अथाशचित्वभावना-लवणाकरे पदार्थाः पतिता लवणं यथा
कविषादमत्सरभयस्वल्पर्धिकत्वादिलामह प्राप्नोति यस्यां जनः nan
यन्ति दीनमनसो दीर्घ
105