________________
कम्मुद्देसियचरिमेतिय पूइयमीसचरिमपाहुडिया । अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ ५७० ॥
सूचामात्रत्वात्सूत्रस्य 'कम्म'त्ति आधाकर्म सप्रभेदं औदेशिकस्य - विभागौदेशिकस्य चरमनिकं - कर्मभेदसत्कमन्त्यमेव भेदत्रयं, पूतिर्भपानरूपा 'मीस'त्ति मिश्रजातं पाखण्डिगृहिमिश्रं साधुगृहिमिश्रं चरमा - अन्त्या बादरेत्यर्थः प्राभृतिका 'अज्झोयर'त्ति अध्यवपूरकस्य स्वगृहिपाखण्डिमिश्रस्वगृहिसाधुमिश्ररूपमन्त्यं भेदद्वयं एते उद्गमदोषा अविशोधिकोटिः, अस्याश्वाविशोधिकोट्या अवयवेन शुष्कसिक्थादिना तथा तत्रादिना लेपेन वल्लचणकादिना च अलेपेन संसृष्टं यत् शुद्धं भक्तं तस्मिन्नुज्झितेऽपि यदकृतकल्पत्रये पात्रे शुद्धमपि भक्तं पञ्चात्परिगृह्यते तत्पूतिरवगन्तव्यं, 'विसोहिकोडी भवे सेस'ति शेषा:- ओघौदेशिकं नवविधमपि च विभागौदेशिकमुपकरणपूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राभृतिका प्रादुष्करणं क्रीतं प्रामित्यकं परिवर्तितमभ्याहृतमुद्भिन्नं मालापहृतमाच्छेद्यमनिसृष्टमध्यव पूरकस्याद्यो भेदश्चेत्येवंरूपा विशोधिकोटिः, विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नुद्धृते यद्वा विशुद्ध्यति पात्रकंमकृतकल्पन्त्रयमपि यस्मिन्नुज्झिते सा विशोधिः सा चासौ कोटिश्व-भेदश्च विशोधिकोटिः, उक्तं च – “उद्देसियंमि नवगं उवगरणे जं च पूइयं होइ । जावंतियमीसगयं अज्झोयर य पढमपयं ॥ १ ॥ परियट्टिए अभिहडे उभिने मालोहडे इय । अच्छिज्जे अणिसट्ठे पाओयर कीय पामिचे ॥ २ ॥ सुहुमा पाहुडियाऽविय ठवियगपिंडो य जो भवे दुविहो । सव्वोऽवि एस रासी विसोहिकोडी मुणेयव्वो ॥ ३ ॥” [ औद्देशिके नवकमाद्यमुपकरणे यश्च पूतिकं भवति । यावदर्थिकं मिश्रगतं अध्यवपूरके च प्रथमपदम् ॥ १॥ परिवर्त्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च । आच्छेद्यमनिसृष्टं प्रादुष्करणमपमित्यं क्रीतं ।। २ ।। सूक्ष्मा प्राभृतिका स्थापनापिण्डश्च यो भवेत् द्विविधः । सर्वोऽप्येष राशिर्विशोधिकोटी ज्ञातव्यः ॥ ३ ॥ ] इह च मिक्षामटता पूर्व पात्रे शुद्धं भक्तं गृहीतं ततस्तत्रैवानाभोगादिकारणवशतो विशोधिकोटिदोषदुष्टं गृहीतं पश्चाच्च कथमपि ज्ञातं यथैतद्विशोधिकोटिदोषदुष्टं मया गृहीतमिति ततो यदि तेन विनाऽपि निर्वहति तर्हि सकलमपि तद्विधिनाऽऽहारादि परिष्ठापयति, अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मात्रं सम्यक्परिज्ञाय परित्यजति यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक्परिज्ञातुमशक्येन मिश्रितं भवति यद्वा द्रवेण तत्रादि तदा सर्वस्यापि तस्य विवेकः, कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यत्परिगृह्णन् शुद्धः साधुः त्यक्तभक्तादेर्विशोधि कोटित्वादिति ॥ ५७० || अथ समितीराहइरिया १ भासा २ एसण ३ आयाणाईसु ४ तह परिद्ववणा ५ । सम्मं जा उ पवित्ती सा समिई पंचहा एवं ।। ५७१ ॥
1
ईरणमीर्या - गतिः भाषणं- भाषा एषणमेषणा आदीयते -गृह्यते इत्यादानं तदादिर्येषां निक्षेपादिक्रियाविशेषाणां ते आदानादयः ईर्ष्या च भाषा च एषणा च आदानादयश्च ते तथा (तेषु), परिष्ठापने -त्यजने सम्यगागमानुसारेण या प्रवृत्तिः - चेष्टा सा समितिः, पश्वानां चेष्टानां तात्रिकीयं संज्ञा, तत ईर्यासमितिर्भाषासमितिरेषणासमितिरादाननिक्षेपसमितिः परिष्ठापनासमितिरित्येवमुक्तन्यायेन पञ्चप्रकारा समितिः, तत्र त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य यतेरावश्यके प्रयोजने लोकैरत्यन्तक्षुण्णेषु रविरश्मिप्रतापितेषु प्रासुकविविक्तेषु मार्गेषु गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाप्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य या ईर्ष्या - गतिस्तस्यां समितिरीर्यासमितिः, यदुक्तं"पुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जेंतो बीयहरियाई, पाणे य द्गमट्टियं ॥ १ ॥ ओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छज्जा, विज्जमाणे परकमे ॥ २ ॥” [ पुरतो युगमात्रेण प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणांश्च दुकमृत्तिके ॥ १ ॥ अवपातं विषमं स्थाणुं कर्दमं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने सरले पथि ॥ २ ॥ ] एवंविधोपयोगेन गच्छतो यतेर्यदि कथमपि प्राणिवधो भवति तथाऽपि तस्य पापं न भवति, यदाहुः – “उच्चालियंमि पाए इरियासमियरस संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥ १ ॥ न हु तस्स तन्निमित्तो बंधो सुडुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा | २ ||” [ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत द्वीन्द्रियादिर्भियेत तद्योगमासाद्य ॥ १ ॥ नैव तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ॥ २ ॥ ] तथा - " जियदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदस्स ॥ १ ॥ [ जीवतु वा प्राणी म्रियतां वा अयताचारस्य निश्चयतो हिंसा । प्रयतस्य नास्ति बन्धः हिंसामात्रेण समितस्य । । १ ॥ ] तथा वाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्तकामुकक्रव्यादचौरचार्वाकादिभाषितानि च निर्दम्भतया वर्जयतः सर्वजनीनं खल्पमप्यतिबहुप्रयोजनसाधकमसन्दिग्धं च यद्भाषणं सा भाषासमितिः, तथा गवेषणग्रहणप्रासैषणादोषैरदूषितस्यान्नपानादे रजोहरणमुखवस्त्रिकाद्यौधिकोपधेः शय्यापीठफलकचर्मदण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यद् ग्रहणं सा एषणासमितिः, तथा आसन संस्तारकपीठफलकवस्त्रपात्रदण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यद् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेप समितिः, अनुपयुक्तस्य तु प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि - " पडिलेहणं कुणंतो मिहो कहूं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ १ ॥ पुढवी आउकाए वाऊ तेऊ वणस्सइतसाणं । पडिलेहणापमत्तो छण्डंपि विराहओ भणिओ || २ ||" [ प्रतिलेखनां कुर्वाणो मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ॥ १ ॥ पृथ्व्यप्कायवायु
104