________________
कादिच्छेदनेन वनस्पतिकायं मध्वादेर्मत्कुणादिपातनेन च त्रसकायं विनाशयन्त्यां दात्र्यां न गृह्यते २८ तथा सप्रत्यपाया-सम्भाव्यमानापाया, इह अपायास्त्रिविधाः, तद्यथा - तिर्यगूर्द्धमधश्च तत्र तिर्यग्गवादिभ्यः ऊर्द्धमुत्तरङ्गकाष्ठादेः अधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्ध्या सम्भावयन् न ततो मिक्षां गृह्णीयादिति, अत्र च षट् कायान् सङ्घट्टयन्त्यां तथा तानेव विनाशयन्त्यां सप्रत्यपायायां चापवादो नास्ति, ततः सर्वथा न कल्पते एव शेषेषु पुनरपवादो दर्शित एव, २९ एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्तरतश्च परिभाव्य परिहरणीयाः ६ || 'उम्मीसे'त्ति उन्मिश्रं - सचित्तसम्मिश्रं, इह कश्चिद् गृहस्थः केवलं वस्त्विदं व्रतिने वितीर्यमाणमल्पं स्यादिति लज्जया पृथग्वस्तुद्वयदाने वेला लगतीत्यौत्सुक्येन मीलितं वस्तुद्वयं मृष्टं भवतीति भक्त्या सचित्तभक्षणभङ्गो भवतु एतेषामिति प्रत्यनीकतया अनाभोगेन वा साधूनां कल्पनीयतया उचितं पूरणादिकं अकल्पनीयतया मुनीनामनुचितेन करमर्दकदाडिमकुलिकादिना मिश्रयित्वा यद्ददाति तदुन्मिश्रं, अत्र च कल्पनीयाकल्पनीये द्वे अपि वस्तुनी च मिश्रयित्वा यद्ददाति तदुन्मिश्रं संहरणं तु यद्भाजनस्थमदेयं वस्तु तदन्यत्र क्वापि स्थगनिकादौ संहृत्य ददातीत्ययं मिश्रसंहृतयोर्भेदः ७ || 'अपरिणय'त्ति अपरिणतं - अप्रासुकीभूतं, तत्सामान्यतस्तावद् द्विधा - द्रव्यतो भावतश्च, पुनरेकैकं द्विधा - दातृविषयं ग्रहीतृविषयं च तत्र द्रव्यरूपमपरिणतं यत्पृथिवीकायादिकं स्वरूपेण सजीवं, यत्पुनर्जीवेन विप्रमुक्तं तत्परिणतमिति, तञ्च यदा दातुः सत्तायां वर्तते तदा दातृविषयं यदा तु महीतुः सत्तायां तदा प्रहीतृविषयं तथा द्वयोर्बहूनां वा साधारणे देयवस्तुनि यद्येकस्य कस्यचिद्ददामीत्येवं भावः परिणमति न शेषाणां एतद्भावतो दातृविषयमपरिणतं साधारणानिसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमक्षत्वे इत्यनयोर्भेदः, तथा द्वयोः साध्वोः सङ्घाटकरूपेण मिक्षाकृते गृहिगृहं गतयोरेकस्य साधोरेतल्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं न द्वितीयस्येति ग्रहीतृविषयं भावापरिणतं एतच्च साधूनां न कल्पते शङ्कितत्वात् कलद्दादिदोषसम्भवाच ८ || 'लित्त'त्ति हस्तमात्रकादिलेपकारित्वाल्लितं- दुग्धदधितेमनादि तत्पुनरुत्सर्गतः साधुमिर्न प्राह्यं रसाभ्यवहारल|म्पट्यवृद्धिप्रसङ्गात् दध्यादि लिप्तहस्तप्रक्षालनादिरूपपश्चात्क्रमाद्यनेकदोषसद्भावाच्च, किन्तु अलेपकृदेव वल्लचनकौदना - दिकं, तथाविधशक्त्यभावे च निरन्तरस्वाध्यायाध्ययनादिकं किमपि पुष्टं कारणमाश्रित्य लेपकृदपि कल्पते, तत्र च लेपकृति गृह्यमाणे दातुः सम्बधी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्रकं करोटिकादिकं संसृष्टमसंसृष्टं वा, द्रव्यमपि देयं सावशेषं निरवशेषं वा एतेषां च त्रयाणां पदानां संसृष्टहस्तासंसृष्टमात्र सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं योगतोऽष्टौ भङ्गा भवन्ति, ते चामी - संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं ५ असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं ६ असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ७ असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ८, एतेषु चाष्टसु भङ्गेषु मध्ये विषमेषु भङ्गेषु - प्रथमतृतीयपश्चमसप्तमेषु प्रहणं कर्तव्यं न समेषु - द्वितीयचतुर्थषष्ठाष्टमरूपेषु, इयमत्र भावना-इह हस्तो मात्रं द्वे वा स्वयोगेन संसृष्टे वा भवेतामसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि द्रव्यवशेन ?, तथाहि - यत्र द्रव्यं सावशेषं तत्र तेन साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात्, यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्द्द्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पत इति ९|| 'छद्दिय'त्ति छर्दितं उज्झितं त्यक्तमिति पर्यायाः, तच त्रिधा - सचित्तमचित्तं मित्रं च, तदपि च कदाचिच्छर्दितं सचित्तमध्ये कदाचिदचित्तमध्ये कदाचिन्मिश्रमध्ये, तत्र उभयत्रापि मिश्रस्य सचित्त एवान्तर्भावात् छर्दने सचित्ताचित्तद्रव्ययोराधारभूतयोराधेयभूतयोश्च संयोगतश्चतुर्भङ्गी भवति, तद्यथा - सचित्ते सचित्तं अचित्ते सचित्तं सचित्ते अचित्तं अचित्ते अचित्तं, अत्र चाद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसद्भावान कल्पते, चरमे पुनः परिशाटिसद्भावात्, परिशाटौ च महान् दोषः, तथाहि—उष्णस्य द्रव्यस्य छर्दने भिक्षां ददमानो दह्येत भूम्याश्रितानां वा पृथिव्यादीनां दाहः स्यात् शीतद्रव्यस्य च भूमौ पतने भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते इति १० ॥ ५६८ ।। एते दश एषणादोषा भवन्ति, उक्तास्तावत्सङ्क्षेपतो द्विचत्वारिंशदपि दोषाः, विस्तरतस्तु पिण्डनिर्युक्तेरवगन्तव्याः ॥ अथ पिण्डविशुद्धेः सर्वसङ्ग्रहमाह -
पिंडेसणाय सव्वा संखित्तोयरइ नवसु कोडीसु । न हणइ न किणइ न पयइ कारावणअणुमईहि नव ॥ ५६९ ।।
पिण्डैषणा-पिण्डविशुद्धिः सर्वाऽपि सङ्क्षिप्ता-सङ्क्षेपेण भण्यमाना अवतरति - अन्तर्भवति नवसु कोटीषु - विभागेषु, ता एवाह-न स्वयं हन्ति न च क्रीणाति न च पचति इति त्रयं, एवं कारणानुमतिभ्यामपि तथा नान्येन घातयति न क्रापयति न च पाचयति तथा नापरेण हन्यमानं न क्रीयमाणं न च पच्यमानमनुमोदते, मिलिताश्चैता नव कोटयः, एतैर्नवभिः पदैः पिण्डविशुद्धिः सर्वाऽपि सङ्गृह्यत इति भावः ॥ ५६९ ।। इह च पूर्वं षोडशविध उद्गम उक्तः, स च सामान्यतो द्विधा भवति, तद्यथा-विशोधिकोटिरूपोऽविशोधिकोटिरूपञ्च तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः, तत्र ये दोषा अविशोधिकोटिरूपा ये च विशोधिकोटिरूपास्तानाह
103