________________
केवलं पादाभावात्तस्य भिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत्, तथा च सति भूम्याश्रितपिपीलिकाप्रभृतिप्राणिप्रणाशः, छिन्नकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिन्नचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृझते १०-११ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वासत्वक्संस्पर्शार्धपक्चरुधिरस्वेदमललालादिभिः साधोः कुष्ठसङ्क्रमो भवेत्, सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कल्पते न शेषकुष्ठिनः सागारिके वा पश्यति, तत्र मण्डलानि - वृत्ताकार - विशेषरूपाणि प्रसूतिः - नखविदारणेऽपि वेदनाया असंवेदनमिति १२ तथा करविषय काष्ठमयबन्धनरूपेण हस्ताण्डुना पादविषय लोहबन्धनरूपेण निगडेन च बद्धे दातरि मिक्षां प्रयच्छति दुःखं तस्य स्यात् तथा मूत्राद्युत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षाग्रहणे लोके जुगुप्सा, यथा अमी अशुचयो यदेतस्मादप्यशुचीभूताद्भिक्षामाददत इति, तथा पादबद्धश्चेदितश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततस्तस्मादपि कल्पते, इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु मिक्षां दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना १३ तथा पादुकयोः - काष्ठमयोपानहोरारूढस्य मिक्षादानाय प्रचलतः कदाचिद् दुःस्थितत्वेन पतनं स्यात्, पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते १४ तथा कण्डूयन्त्या - उदूखले तण्डुलादिकं छटयन्त्या न गृह्यते, यत इयमुदूखलक्षिप्तशाल्यादि बीज सङ्घट्टादि करोति, मिक्षादानात्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरः कर्मदोषं पश्चात्कर्मदोषं वा विदध्यादित्यादयो दोषाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काभ्यां बीजं लग्नमस्ति अत्रान्तरे च समायातः साधुः ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादौ मुशलं स्थापयित्वा मिक्षां ददाति तदा कल्पते १५ तथा पिंषन्ती - शिलायां तिलामलकादि प्रमृगन्ती यदा मिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादिसत्काः काश्चिन्नखिकाः सचित्ता अपि हस्तादौ लगिताः सम्भवन्ति ततो मिक्षादानाय हस्तादिप्रस्फोटने भिक्षां वा ददत्या. भिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत् ततोऽकायविराधना, एषाऽपि पेषणसमाप्तौ प्राशुकं वा पिंषन्ती यदि ददाति तदा कल्पते १६ तथा भर्ज्जमाना - चुल्लयां कडिल्हकादौ चनकादीन् स्फोटयन्ती, तस्यां हि भिक्षां ददत्यां वेलालगनेन कडिल्हकक्षिप्त गोधूमचनकादीनां दाहे सति प्रद्वेषादयो दोषाः स्युः, अत्रापि यत्सचित्तं गोधूमादिकं कडिल्हके क्षिप्तं तद्भष्टोत्तारितं अन्यश्च नाद्यापि करे गृह्णाति एतस्मिन्नन्तरे भिक्षाकृते साधुः समागतः ततो यद्युत्थाय ददाति तदा कल्पते १७ तथा कृन्तत्यां-यत्रेण रूतपोणिकां सूत्ररूपां कुर्वत्यां १८ तथा लोढयन्त्यां—लोढिन्यां कर्पासं कणकेन रूततया विदधत्यां १९ तथा विक्ष्णुवत्यां रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वत्यां २० तथा पिञ्जयन्त्यां पिश्ञ्जनेन रूतं विरलं कुर्वत्यां न गृह्यते, देयलिप्तहस्तधावनरूपस्य पुरः कर्मपश्चात्कर्मादेर्दोषस्य सम्भवात् कार्पासिकादिसचित्तसङ्घट्टसम्भवाच्चेति २१, इह च कर्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्तौ न खरण्टयति खरण्टने वा यदि जलेन न प्रक्षालयति तदा कल्पते, लोढनेऽपि यदि हस्ते धृतः कार्पासो न स्यात् कार्पासिकान् वा यदि उत्तिष्ठन्ती न घट्टयति तदा गृह्यते, विष्णुवत्यां पिञ्जयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पते, तथा दलयन्ती - घरट्टेन गोधूमादि चूर्णयन्ती, तस्यां हि ददत्यां घरट्टक्षिप्तबीजसङ्घट्टः हस्तधावने जलविराधना च, दलयन्त्यपि सचित्तमुद्रादिना दल्यमानेन सह घरट्टं मुक्तवती अत्रान्तरे च साधुरायातस्ततो यधुत्तिष्ठति अचेतनं वा भृष्टं मुद्गादिकं दलयति तर्हि तद्धस्तात्कल्पते २२ तथा विरोलयन्ती - दध्यादि मन्नन्ती, यदि तद्दध्यादि संसक्तं मध्नाति तर्हि तेन संसक्तदध्यादिना लिप्तकरत्वाद्भिक्षां ददती तेषां रसजीवानां वधं विदध्यात्, अत्रापि चेदसंसक्तं दध्यादि मध्नाति तदा कल्पते २३ तथा भुखाना दात्री भिक्षादानार्थमाचमनं करोति आचमने च क्रियमाणे उदकं विराध्यते अथ न करोत्याचमनं तर्हि लोके जुगुप्सा, उक्तं च—“छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुर्गुछिए पिंडगहणे य ॥ १ ॥” [ षट्कायदयावानपि संयतो दुर्लभां करोति बोधिं । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥१॥] २४ तथा आपन्नसत्त्वायां भिक्षां ददत्यां न प्राह्यं यतस्तस्या भिक्षादानार्थमूर्डीभवन्त्या भिक्षां दत्त्वा आसने उपविशन्त्याश्च गर्भबाधा भवेत्, तत्रापि स्थविरकल्पिकानां मासाष्टकं यावत् तत्करेण कल्पते वेलामासे तु न कल्पते, ऊर्जीभवनाद्यायासमन्तरेण स्वभावस्थितयैव तया यदि दीयते तदा वेलामासेऽपि गृह्यते २५ तथा बालबा बालकं भूमौ मचिकादौ वा निक्षिप्य यदि भिक्षां ददाति तर्हि तं बालकं मार्जारसारमेयादयो मांसखण्डं शशकशिशुरिति वा कृत्वा विनाशयेयुः, तथा आहारखरण्टितौ शुष्कौ हस्तौ कर्कशौ भवतः ततो भिक्षां दत्त्वा पुनर्दात्र्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा स्यात्, यस्यास्तु बाल आहारेऽपि लगति भूमौ च मुक्तः सन्न रोदिति तस्या हस्तात्कल्पते स्थविरकल्पिकानां, आहारं हि गृहन् बालः प्रायः शरीरेण महान् भवेत् ततो न मार्जारादिविराधनाप्रसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते निरपवादत्वात्सूत्रबलेन गर्भाधानादि ज्ञात्वा मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति २६ तथा षट्कायान् पृथिव्यप्तेजोवायुवनस्पतित्रसस्वरूपान् संघट्टयन्ती - हस्तपादादिना शरीरावयवेन स्पृशन्ती ततः सजीवलवणोदकाग्निवायुपूरितबस्तिबीजपूरफलादिमत्स्यादीन् हस्तस्थान् सिद्धार्थकदूर्वापल्लवमल्लि काशतपत्रिकाप्रमुखपुष्पाणि शिरः स्थानि मालतीमालादीन्युरः स्थानि जपाकुसुमान्याभरणतया कर्णस्थानि परिधानाद्यन्तःस्थापितसरससवृन्त ताम्बूलपत्रादीनि कटीस्थानि सचित्त जलकणादीनि पादलमानि धारयन्ती यदि ददाति तदा न कल्पते सङ्घट्टादिदोषसद्भावात् २७ तथा तानेव षट्कायान् पृथिव्यादीन् विनाशयन्ती-व्यापादयन्ती, तत्र कुश्यादिना भूम्यादिखननेन पृथिवीकायं मज्जनवस्त्रादिधावनवृक्षादिसेचनादिमिरष्कायं उल्मुकघट्टनादिभिरग्निकार्य चुल्ल्यामनिफूत्करणादिभिः सचित्तवातभृतबस्त्यादेरितस्ततः प्रक्षेपणेन वा वायुकायं चिटि
102