________________
थे'त्ययं उक्तो वक्ष्यमाणश्च 'विशेषो' भेदः प्राक्तनप्रतिमाभ्यः, इह च पारणके आचाम्लं कर्तव्यं, दत्तिनियमस्तु नास्तीति ॥ तथा 'उत्तानक' ऊर्ध्वमुखशयितः 'पासल्लीति पार्श्वशयितः 'निसजी'ति निषद्यावान् समपुततयोपविष्टः 'वापी'ति विकल्पार्थः 'स्थानं' उक्तमेव कायचेष्टाविशेषरूपं "स्थित्वा' कृत्वा प्रामादिभ्यो बहिरिति शेषः, 'सहते' क्षमते 'उपसर्गान्' उपद्रवान् 'घोरान्' रौद्रान् 'दिव्यादीन्' देवकृतादीन , आदिशब्दान्मानुषतैरश्चादिग्रहः, 'तत्र' तस्यां प्रतिमायामविकम्पो-मनःशरीराभ्यामचल इति ॥ ५८२५८३ ॥ नवमीमाह-'द्वितीयाsपि' द्वितीयसप्तरात्रिन्दिवाप्रतिमाऽपि 'ईदृश्येव' प्रथमसप्तरात्रिन्दिवप्रतिमासदृश्येव तपःपारणकसाधाद् प्रामादिबहिर्वृत्तिसाधाच्च, अत एवाह-'बहिस्तादेव' बहिरेव प्रामादिसन्निवेशविशेषाणां, नवरं-केवलमयं विशेषः, तुशब्दोऽवधारणे, स च योजित एव, 'उत्कटुको' भूमावन्यस्तपुततया उपविष्टः, तथा लगण्डं-दुःसंस्थितं काष्ठं तद्वच्छेते य एवंशीलोऽसौ लगण्डशायी, मस्तकपार्णिकाभिरेव पृष्ठदेशेनैव वा स्पृष्टभूभागः, तथा दण्डवद्-यष्टिवदायतो-दीक़ दण्डायतः-पादप्रसारणेन भूमिन्यस्तायतशरीरः स एव दण्डायतकः वाशब्दो विकल्पार्थः, स्थित्वा-अवस्थाय देवाद्युपसर्गान् सहत इति प्रक्रमः ॥ ५८४ ॥ दशमीमाह-तृतीयाsपि' तृतीयसप्तरात्रिन्दिवप्रतिमाऽपि 'ईदृश्येव' उक्तस्वरूपैव तपःपारणकप्रामादिबहिर्वृत्तिसाधर्म्यात्प्रथमरात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः, 'नवरं' केवलं 'स्थान' शरीरावस्थानं 'तस्य' प्रतिमाप्रतिपत्तुर्गोदोहीति-गोदोहकसमाकारत्वाद्गोदोहिका गोदोहनप्रवृत्तस्येव पुतयोः पाणिभ्यां संयोगे अप्रपादतलाभ्यामवस्थानक्रिया, सा विधेयेति शेषः, तथा वीराणां-दृढसंहननानामासनं वीरासनं, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य तथैवावस्थानरूपं तदपि स्थानं, तस्येति प्रक्रमः, यद्वा वामपादो दक्षिणस्योरोरुपरि दक्षिणश्च पादो वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतलस्योपरि वामतलं वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नामिलनं च यत्र विधीयते तद्वीरासनं 'अहवावित्ति अथवेति प्रकारान्तरोद्योतनार्थ अपिः समुच्चये 'तिष्ठेद्' अवतिष्ठेत् 'आयकुब्जो चा आम्रफलवद्वक्राकारेणावस्थितः, एवमेतास्तिस्रोऽपि प्रथमसप्तरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसैर्यान्तीति ॥ ५८५ ॥ एकादशीमाह-एवमेव' अनन्तरोक्तनीत्या अहोरात्रिकी प्रतिमा भवति, नवरं-केवलं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत् षष्ठभक्त-उपवासद्वयरूपं तपः, तत्र युपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, षष्टमित्यत्र चानुस्वारोऽनागमिकः, अपानकं-पानकाहाररहितं तस्यां विधेममिति शेषः, तथा प्रामनगरेभ्यो बहिस्तात् 'व्याघारितपाणिके' प्रलम्बितमुजस्य स्थानं-अवस्थानं भवति प्रतिमाप्रतिपन्नस्येति । इयं च अहोरात्रिकी प्रतिमा दिनत्रयेण याति अहोरात्रस्यान्ते षष्ठभक्तकरणात् , यदाह-'अहोराइया तिहिं, पच्छा छ8 करेइत्ति ॥ ५८६ ॥ द्वादशीमाह-एवमेव-अहोरात्रिकीवदेव च एकरात्रिकी प्रतिमा भवति, विशेषमाह-अष्टमभक्तेन-उपवासत्रयरूपेण पानकाहाररहितेन स्थानं-अवस्थानं तत्कत्तुर्बहिस्ताद् प्रामादेः, तथाहि ईषत्प्राग्भारगतः-ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, तथाऽनिमिषनयनो-निर्निमेषनेत्रः, तथैकदृष्टिक:-एकपुद्गलगतदृष्टिर्यथास्थितगात्रो गुप्तसर्वेन्द्रिय इति । 'साहट्टत्ति संहृत्य द्वावपि 'पादी' क्रमौ जिनमुद्रया व्यवस्थाप्येत्यर्थः व्याघारितपाणि:-वक्ष्यमाणार्थः 'ठायए'त्ति तिष्ठति करोति 'स्थानं' कायावस्थानविशेषं । अथ 'वाघारियपाणित्ति पदं सूत्रकृदेव व्याख्याति-वाघारित्ति व्याघारितपाणिर्लम्बितभुजोऽवलम्बितबाहुरुच्यते, सम्यक् पालने चास्या यत् स्यात्तदाह-अन्ते च-सम्यक्पर्यन्तं नयने पुनरस्याः-एकरात्रिकीप्रतिमाया लन्धिः-लाभविशेषः स्यात्, आह च-"एगराइयं च णं मिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाए भवन्ति, संजहा-ओहिनाणे वा समुपज्जेजा, मणपज्जवनाणे वा समुपजेजा, केवलनाणे वा असमुप्पण्णपुव्वे समुपज्जेज्जा" विराधने पुनः "उम्मायं वा लभेजा, दीहकालियं वा रोगायकं पाउणेजा, केवलिपन्नत्ताओ धम्माओ भंसिजा" [एकरात्रिकी च मिक्षुप्रतिमां सम्यगनुपालयत इमानि त्रीणि स्थानानि हिताय भवन्ति, तद्यथा-अवधिज्ञानं वा समुत्पद्येत मन:पर्यवज्ञानं वा समुत्पद्येत असमुत्पन्नपूर्व वा केवलज्ञानं समुत्पद्येत । उन्मादं वा लभेत दीर्घकालिकं वा रोगातकं प्राप्नुयात् केवलिप्रज्ञप्तात् धर्मात् भ्रश्येत] इतिशब्दः समाप्ती, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणाच्चतूरात्रिन्दिवमाना स्यात् , यदाह-एगराइया चउहिं, पच्छा अट्ठमं करेइति । अत्र च 'साहदोवि पाए वाघारियपाणि ठायए ठाणं । वाघारियलंबियभुओ अंते य इमीय लद्धित्ति ॥१॥" इयं गाथा केषुचित्सूत्रपुस्तकेषु न दृश्यत इति ॥५८८॥ अथेन्द्रियनिरोधमाह
फासण १ रसणं २ घाणं ३ चक्खू ४ सोयंति ५ इंदियाणेसिं । फास १ रस २ गंघ ३ वण्णा ४
सद्दा ५ विसया विणिद्दिट्टा ॥५८९॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति इन्द्रियाणि पश्च, स्पर्शे रसो गन्धो वर्णः शब्दश्चेति तेषामिन्द्रियाणां यथाक्रमं विषया विनिर्दिष्टाः, अत्र च गाथायां यद्यपीन्द्रियनिरोधवचनं नास्ति तथाऽपीन्द्रियनिरोधस्य प्रस्तुतत्वादेतेषु विषयेषु इन्द्रियाणामासक्तिर्वर्जनीयेत्यर्थो ज्ञेयः । अनियत्रितानि हीन्द्रियाणि पदे पदे केशसागर एव पातयन्ति, यदभ्यधायि-"सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भ्रमरो गन्धेन च विनष्टः ॥ १॥ पञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥२॥ तुरगैरिव तरलतरैर्दुर्दान्तैरिन्द्रियैः समाकृष्य । उन्मार्गे नीयन्ते तमोघने दुःखदे जीवाः ॥३॥ इन्द्रियाणां जये तस्माद्यनः कार्यः सुबुद्धिमिः । तज्जयो येन भविनां, परत्रे च शर्मणे ॥ ४ ॥ ५८९ ॥ अथ प्रतिलेखनामाह
110