Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 51
________________ ,, रणपूर्वकं तद्विक्रयः, एतश्चोपलक्षणं अन्यदपि यदग्निसमारम्भपूर्वक मिष्टकाभांडादिपाकभ्राष्ट्रादिकरणेन जीवनं तदप्यङ्गारकर्म, यदाहु:“अङ्गारविक्कयं इट्टयाणं कुंभारलोहगाराणं । सुन्नारभाडभुंजाइयाण कम्मं तभिंगालं ॥ १ ॥” [ अङ्गारविक्रय इष्टकानां कुम्भकारलोहकाराणां । सुवर्णकारंभ्राष्ट्रभुञ्जकादीनां कर्म तदङ्गारकर्म ॥ १ ॥ ] ५ ॥ अतीचारता चैतेषां कृततत्प्रत्याख्यानस्य अनभोगादिना प्रवृत्तेः, एवमन्यत्रापीति, एतत्स्वरूपाणि कर्माणि पञ्च, तथा वाणिज्यानि - क्रयविक्रयस्वरूपाणि, चः समुच्चये, विषलाक्षादन्तरसकेशविषयाणि, तत्र विषवाणिज्यं विषं-शृङ्गिकादि तच्चोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामस्त्रादीनां च तेषां विक्रयः, यदाहुः — "विसवाणिज्जं भन्नइ विसलोहप्पाणहणणविक्किणणं । धणुहसरखग्गछुरिआपरसुयकुद्दालियाईणं ॥ १ ॥ [ विषवाणिज्यं भण्यते विषलोहप्राणघातकविक्रयणं धनुःशरखङ्गक्षुरिकापर्श कुद्दालिका दीनां ॥ १ ॥] ६ ॥ तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, यदवाचि — “लक्खाधायइगुलियामणसिलहरिआलवज्जलेवाणं । विकिणणं लक्खवणिज्जं तुयरीसकूडमाईणं ।। १ ।। " [ लाक्षाधातकीगुलिकामनःशिलहरितालवज्रलेपानां । विक्रयणं लाक्षावाणिज्यं तूरीकूटादीनां ।। १ ।।] ७ ॥ तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्तशङ्खपूतिशचर्मकेशादीनामानयननिमित्तं मूल्यं ददाति आकरे वा गत्वा स्वयं क्रीणाति ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ घ्नन्ति तद्विक्रयपूर्व यदाजीवनं तद्दन्तवाणिज्यं, यदवोचन् - "नह दंतचमर खल्ला भेरिकबड्डा य सिप्पिसंखा य । कत्थूरियपूइसमाइयं च इह दंतवाणिज्जं ॥ १ ॥ ” [ नखदन्तचामरखल्लाभेरीकपर्दकाः शुक्तिशङ्खाश्च । कस्तूरिकापूति शादिकं चेह दन्तवाणिज्यं ॥ १ ॥ ] अज्ञाकरे तु दन्तादेर्ग्रहणे विक्रयणे च न दोषः ८ ।। तथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि - "महुमज्जमंसमक्खण चउण्ह विगईण जमिह विक्किणणं । रसवाणिज्जं तह दुद्धतिल्लघयदहि अपमिईणं || १ || ” [ मधुमद्यमांसम्रक्षणानां चतसृणां विकृतीनां यदिह विक्रयणं । रसवाणिज्यं तथा दुग्धतैलघृतदधिप्रभृतीनां ॥ १ ॥ ] ९ ॥ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वग वोष्ट्रम हिष वालेयादिजीवान् गृहीत्वा तत्रान्यज्ञ वा विक्रीणीते जीविकानिमित्तं तत् केशवाणिज्यं, यदाहु:-- “ मणुयाणं तिरियाणं विक्किणणं इत्थ अन्नदेसे वा । केसवणिज्जं भन्नइ गोगद्दहअस्समाईणं ॥ १ ॥” [ मनुजानां तिरयां विक्रयणमत्रान्यदेशे वा केशवाणिज्यं भण्यते गोगर्दभाश्वादीनां ।। १ ।। ] १० ॥ सजीवानां विक्रये केशवाणिज्यं, अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः || २६४ ॥ तथा दवदानं यत्रवाहनं निर्लाव्हनं असतीपोषः, एतैः सहितानि, सह जलाशयशोषेण वर्तन्ते सजलाशयशोषाणि, चः समुच्चये, कर्माणि भवन्ति पश्वादश, तत्र 'दवदानं' दवस्य – दवाग्नेस्तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच्च द्विधा भवति-व्यसनात् - फलनिरपेक्षप्रवृत्तिरूपात् यथा वनेचरा एवमेव तृणादावनिं ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थं धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे सति नवतृणाङ्कुरोद्भेदाद्गावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमात्रं ज्वालयन्तीति यदुक्तं – “वणदवदाणमरणे दव्वग्गिदाणं तु जीववहजणयं ।” [ अरण्ये वनदवदानं द्वाग्निदानं जीववधजनकं ] ॥ ११ ॥ 'यन्त्रवाहन' मिति तिलेक्षु सर्षपैरण्डफला दिपीलननिमित्तं तत्तद्यत्राणां - घाणकादीनां अरघट्टादिजलयन्त्राणां च वाहनं - व्यापारणं शिलोदूखलमुशलादीनां विक्रयणं वा यत्रवाहनं, यत्रपीलनकर्मेत्यर्थः, उक्तं च—“सिलउक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुत्तिलपीलणं वा तं बिंती जंतपीलणयं ॥ १ ॥ " [ शिलोदूखलमुशलघरट्टकंकटादीनां यदिद्द विक्रयणं । इक्षुतिलपीडनं वा तत् ब्रुवते यत्रपीडनकर्म ॥ १ ॥ ] एतच पीलनीयतिलादिक्षोदात्तद्गतजीववधात्र सदोषं, यतो लौकिका अपि भाषन्ते -- "दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १ ॥” १२ इति । 'निर्लाञ्छन' मिति नितरां लाञ्छनं - अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लाच्छनकर्म, तत्र गोमहिषोष्ट्रादीनां नासावेधो गवाश्वादीनामनं तेषामेव वर्धितकीकरणं करभाणां पृष्ठगालनं गवां च कर्णकम्बलच्छेदनादिकमिति, यदाहुः - "नासावधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥ १ ॥” १३ इति ॥ ' असतीपोष' इति असत्यो - दुःशीलास्तासां दासीसारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमतत्रं तेन शुकश्वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि - " मज्जारमोरमक्कडकुक्कुडसालहीअकुक्कुराईणं । दुट्ठित्थिनपुंसाईण पोसणं असइपोसणयं ॥ १ ॥” इति [ मार्जार मयूर मर्कटकुर्कुटशुक कुर्कुरादीनां । दुष्टस्त्रीनपुंसकादीनां पोषणमसतीपोषणं ॥ १ ॥ ] एषां च पोषणं पापहेतुरेवेति १४ ।। तथा 'जलाशयशोषी' जलाशयानां - सरःप्रभृतीनां शोषणमिति, तदुक्तं - " सरदहतलायसोसो बहुजलयरजीवखयगारी" [ सरोद्रहतटाकशोषो बहुजलचरजीवक्षयकारी ] १५ ॥ एतानि च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैतद्बहुसावद्यानां कर्मणामेव जातीयानां न पुनः परिगणनमिदमिति ॥ २६६ ॥ 'नाणाइअट्ठ'त्ति ज्ञानदर्शनचारित्राणां प्रत्येकमष्टावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे आचारलक्षणे ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आह 9 third fair बहुमाणोर्वेहाणे तहा अनिण्हवणे । वजण अत्थ तदुर्भए अट्ठविहो नाणमायारो ।। २६७ ॥ निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूदिट्ठी य । उबवूह थिरीकरणे वच्छल्ल पर्मावणे अट्ठ ॥ २६८ ॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । चरणायारो विवरीययाई तिपि अइयारा ॥ २६९ ॥ 'काले 'त्यादि, काले - कालविषये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव 42

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310