Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
लिङ्गनादि परदावर्जिनोऽपि परदारेषु निधुवनं परिहरन्ति नालिङ्गनादीति कथञ्चिद् व्रतसापेक्षत्वादतीचाराविति ४, तथा परेषां -अन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहो - विवाहकरणं कन्याफल लिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं, इदं च स्वकलत्रसन्तोषवता स्वकलत्रात् परदारवर्जकेन तु स्वकल बेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, मैथुनत्रतकारी च मन्यते - मया विवाह एवायं विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतीचारः, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिध्यादृष्टेश्च भद्रकावस्थायामनुग्रहार्थ व्रतदाने सा सम्भवति, ननु परविवाहवत् स्वापत्यविवाहनेऽपि समान एवायं दोषः, सत्यमेतत् परं यदि स्वकन्यादीनां विवाहो न कार्य तदा स्वच्छन्दचारित्वं भवेत् ततः शासनोपघातः स्यात्, विहिते तु विवाहे पत्यादिनियन्त्रितत्वेन न तथा भवतीति परेऽप्याहु: - "पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातत्र्यमर्हति ।। १ ।। ” यस्तु यादवशिरोमणेः कृष्णस्य चेटकमहाराजस्य च निजापत्येष्वपि विवाहनियमः श्रूयते स चिन्तकान्तरसद्भावे सति द्रष्टव्य इति ५, मध्ये स्थितस्य 'चउत्थवए' इति पदस्यात्रापि सम्बन्धाच्चतुर्थव्रते एते पथ्वातीचाराः ॥ २७७ ॥ अथ पञ्चमत्रतातीचारानाह - ' जोएई' त्यादिगाथाद्वयं, धनधान्यादिवस्तुरूपनवविधपरिग्रहपरिमाणस्वरूपे पञ्चमत्रतेऽतीचारा विज्ञेयाः, यथा 'जोएई'त्यादि, योजयति - क्षेत्रवास्तूनि एकत्र मीलयतीति, तत्र क्षेत्रंधान्योत्पत्तिभूमिः, तत् त्रिविधं - सेतुकेतूभयभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यशस्यं, उभयक्षेत्रं तूभयजलनिष्पाद्यशस्यं, वास्तु - गृहहट्टादि प्रामनगरादि च तत्र गृहं त्रिविधं - खातं - भूमिगृहादि उच्छ्रितं - प्रासादादि खातोच्छ्रितं - भूमिगृहस्योपरि गृहादिसन्निवेशः क्षेत्राणि च वास्तूनि च क्षेत्रवास्तूनि तान्येकत्र योजयति, गृहीतपरिग्रहव्रतेन हि केनचिदेकं क्षेत्रं परिगृहीतं, तस्य केनापि स्वकीयं क्षेत्रं तत्क्षेत्रप्रत्यासन्नमेव दीयते, ततोऽसौ स्वकीयनियमभङ्गभयेन तत्परदत्तं क्षेत्रं स्वकीयक्षेत्रेण सह योजयति यथैकमेव द्वाभ्यामपि ताभ्यां क्षेत्रं भवति एवं गृहादिकमपि परदत्तं वृत्तिभित्त्याद्यपनयनेन स्वकीयगृहादिनै कीकरोतीत्यतीचारः प्रथमः १, तथा रूप्यकनकादिसङ्ख्यात्रतकाले चतुर्मासादिकालावधिना यत्परिमाणं गृहीतं तावतोऽधिकं जातं व्यवहारादिना ततो यथा मे नियमभङ्गो न भवति न चेदमन्यत्र कुत्रापि याति नियमावधौ च समाप्ते अहमेव प्रहीष्याम्येतदितिबुद्ध्या स्वजनेभ्यो ददत् व्रतसापेक्षत्वादविचरति व्रतमिति द्वितीयः २, तथा धनधान्यादि परगृहे बध्नाति — स्वीकृत्य मुध्वति यावन्निज नियमपर्यन्तः, तत्र धनं-गणिमधरिममेयपरीक्ष्य (परिच्छेद्य) लक्षणं, यदाहु:-- "गणिमं जाईफलफोफलाइ धरिमं तु कुंकुमगुडाई । मेयं चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्जं ॥ १ ॥” धान्यं सप्तदशविधं, यदाहुः—“ब्रीहिर्यत्रो मसूरो गोधूमो मुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥ १ ॥ किव कलायकुलत्थौ सण सप्तदशानि धान्यानि ॥” इति, धनं च धान्यं च धनधान्ये ते आदी यस्य तद्धनधान्यादि, तत्र कृतधनधान्यादिपरिमाणः कोऽपि पूर्वलभ्यमन्यद्वा धनादिकं कस्यापि पार्श्वाल्लभ्यमानमिदानीमेव यदि स्वगृह एवैतत्समानयामि तदा नियमभङ्गो मे भवति अप्रेतने तु विक्रीतादौ सति पूर्णे वा नियमावधौ स्वगृहे समानेष्यामीति बुद्ध्या वचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यन्कारदानादिस्वरूपेण वा बन्धनेन स्वीकृत्य यदा तदीयगृह एव तद्व्यवस्थापयति तदा तृतीयोऽतीचारः ३ || २७८ ॥ तथा 'दुपये 'त्यादि, द्वे पदे येषां तानि द्विपदानि—कलत्रावरुद्धदासीदासकर्मकरपदात्यादीनि हंसमयूरकुक्कुटशुकसारिकाचकोरपारापतप्रभृतीनि च चत्वारि
चतुष्पदानि - गोमहिषमे पाविक कर भरा सभतुरगहस्त्यादीनि तानि यद्गर्भं प्राहयति सोऽतीचार इति सम्बन्धः, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च विवक्षित संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तयात्कियत्यपि काले ते गर्भ प्राहयतो गर्भस्थद्विपदादिभावेन बहिश्च तदभावेन कथञ्चिद् व्रतभङ्गाभङ्गरूपोऽतीचार इति चतुर्थः ४, तथा कुप्यस्य- रूप्यसुवर्णव्यतिरिक्तस्य कांस्यलोहताम्रत्रपुसीसकवंशविकारकटमश्विकामध्य कमन्थानकतूलिकारथशकटहलमृद्भाण्डप्रभृतिकस्य गृहोपकरणकलापस्य सङ्ख्या-परिगणनं तामल्पधनां बहुधनां करोति, कोऽर्थः ? -स्थालादीनां कथचिदधिकत्वे प्रतिपन्ननियमस्य जा सत्यल्पमूल्यं स्थालाद्यपरेणोत्कलितेन स्थालादिना मेलयित्वा बहुमूल्यं करोति यथा नियमो न भज्यत इति पर्यायान्तरकरणेन सङ्ख्यापूरणात्स्वाभाविकसङ्ख्याबाधनाच पश्चमोऽतीचारः ५, एते पञ्चमत्रते दोषा - अतीचारा इति ॥ २७९ ॥ उक्ता अणुव्रतानां प्रत्येकं पथ्य पश्वातीचाराः, अथ गुणव्रतातीचाराणामवसरः, तत्रापि प्रथमगुणत्रतस्य दिग्विरतिलक्षणस्यातीचारानाह
तिरियं अहो य उहुं दिसिवयसंखा अइक्कमे तिन्नि । दिसिवयदोसा तह सहविम्हरणं वित्तबुड्डी य ॥ २८० ॥ अष्पक्कं दुप्पक्कं सच्चित्तं तह सचित्तपडिबद्धं । तुच्छोसहिभक्खणयं दोसा उवभोगपरिभोगे || २८१ ॥ कुक्कुइयं मोहरियं भोगुवभोगाइरेग कंदप्पा । जुत्ताहिगरणमेए अइपाराणत्थदंडव ॥ २८२ ॥
' तिरिय' मित्यादि, तिर्यगधश्च चः समुचये मिन्नक्रमः ऊर्ध्वं चेत्येवं योज्यः, दिग्व्रतस्य सङ्ख्यातिक्रमे त्रयो दिग्ब्रते दोषाः - अतीचाराः तथा स्मृतिविस्मरणं चतुर्थः, क्षेत्रवृद्धिश्च पञ्चमः, तत्र तिर्यक्पूर्वादिदिक्षु अधः - अधोप्रामभूमिगृहकूपादिषु ऊर्ध्व - पर्वततरुशिखरादिषु योऽसौ नियमितः प्रदेशस्तस्य व्यतिक्रमः ३ एते त्रयोऽतीचाराः, एते चानाभोगातिक्रमव्यतिक्रमादिभिरेवातीचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्ग एव, अतिक्रमादीनां च स्वरूपं – “आहाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो
50

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310