________________
बीजपूरकबाणखगमुद्रपाशकाभययुक्तदक्षिणकरषट्को नकुलधनुःफलकशूलाडशाक्षसूत्रयुक्तवामपाणिषट्कश्च १८ श्रीमल्लिजिनस्य कूबरो यक्षश्चतुर्मुख इन्द्रायुधवों गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्राक्षसूत्रयुतवामपाणिचतुष्टयश्च अन्ये कूबरस्थाने कुबेरमाहुः १९ श्रीमुनिसुव्रतस्य वरुणो यक्षश्चतुर्मुखत्रिनेत्रोऽसितवर्णो वृषभवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूरकगदाबाणशक्तियुक्तदक्षिणकरकमलचतुष्को नकुलपद्मधनुःपरशुयुतवामपाणिचतुष्टयश्च २० श्रीनमिजिनस्य भृकुटियक्षश्चतुर्मुखत्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्राभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुवनाक्षसूत्रयुक्तवामकरचतुष्टयश्च २१ श्रीनेमिजिनस्य गोमेधो यक्षत्रिमुखः श्यामकान्तिः पुरुषवाहनः षड्भुजो मातुलिंगपरशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवामपाणित्रयश्च २२ श्रीपार्श्वजिनस्य वामनो यक्षो मतान्तरेण पार्श्वनामा यक्षो गजमुख उरगफणमण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणियुगश्च २३ श्रीवीरजिनस्य मातङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुक्तदक्षिणभुजो वामकरधृतबीजपूरकश्चेति २४ ॥ ३७४ ॥ २६ ॥ इदानीं 'जिणदेवीओ'त्ति सप्तविंशतितमं द्वारमाह
देवीओ चक्केसरी १ अजिया २ दुरियारि ३ कालि ४ महकाली५ । अच्चुय ६ संता ७ जाला ८ सुतारया ९ऽसोय १० सिरिवच्छा ११ ॥ ३७५ ॥ पवर १२ विजयं १३ कुसा १४ पण्णत्ती १५ निव्वाणि १६ अचुया १७ धरणी १८ । वइरोह १९ ऽछुत्त २० गंधारि २१ अंब २२ पउमावई २३ सिद्धा २४ ॥ ३७६॥ 'देवी'त्यादि गाथाद्वयं, तत्राद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाप्रतिचक्रा, सुवर्णवर्णा गरुडवाहना अष्टकरा वरदबाणचक्रपाशयुक्तदक्षिणपाणिचतुष्टया, धनुर्वनचक्राशयुक्तवामपाणिचतुष्टया चेति १, श्रीअजितजिनस्याजिताऽजितबला वा देवी गौरवर्णा लोहासनाधिरूढा चतुर्भुजा वरदपाशकाधिष्ठितदक्षिणकरद्वया बीजपूरकाङ्कुशालकृतवामपाणिद्वया च २, श्रीसम्भवस्य दुरितारिदेवी गौरवर्णा मेषवाहना चतुर्भुजा वरदाक्षसूत्रभूषितदक्षिणभुजद्वया फलाभयान्वितवामकरद्वया च ३, श्रीअमिनन्दनस्य कालीनामा देवी श्यामकान्तिः पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया नागाङ्कुशालकतवामपाणिद्वया च ४, श्रीसुमतेर्महाकाली देवी सुवर्णवर्णा पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया मातुलिङ्गांकुशयुक्तवामपाणिद्वया चेति ५, श्रीपद्मप्रभस्याच्युता मतान्तरेण श्यामा देवी श्यामवर्णा नरवाहना चतुर्भुजा वरदबाणान्वितदक्षिणकरद्वया कार्मुकाभययुतवामपाणिद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया शूलाभययुक्तवामहस्तद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिर्देवी पीतवर्णा वरालकाख्यजीवविशेषवाहना चतुर्भुजा खङ्गमुद्रभूषितदक्षिणकरद्वया फलकपरशुयुतवामपाणिद्वया च ८, श्रीसुविधेःसुतारा देवी गौरवणों वृषभवा. हना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया कलशाङ्कशाञ्चितवामपाणिद्वया च ९, श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतु
वरदपाशयुक्तदक्षिणपाणिद्वया फलकावशयक्तवामपाणिद्वया च १०, श्रीश्रेयांसस्य श्रीवत्सा देवी मतान्तरेण मानवी गौरवर्णा सिंहवा हना चतुर्भुजा वरदपाशयुक्तदक्षिणकरद्वया कलशाकुशयुक्तवामकरद्वया च ११॥३७५॥ श्रीवासुपूज्यस्य प्रवरा देवी मतान्तरेण चण्डा देवी श्यामवर्णा तुरगवाहना चतुर्भुजा वरदशक्तियुक्तदक्षिणकरयुगा पुष्पगदायुतवामकरद्वया च १२, श्रीविमलस्य विजया मतान्तरेण विदिता देवी हरितालवर्णा पद्मासना चतुर्भुजा बाणपाशयुक्तदक्षिणकरद्वया धनुर्नागयुतवामपाणिद्वया च १३, श्रीअनन्तजिनस्य अडशा देवी गौरवर्णा पद्मासना चतुर्भुजा खगपाशयुक्तदक्षिणपाणिद्वया फलकाशयुक्तवामकरद्वया च १४, श्रीधर्मस्य पन्नगा देवी मतान्तरेण कन्दर्पा गौरवर्णा मत्स्यवाहना चतुर्भुजा उत्पलाशयुक्तदक्षिणपाणिद्वया पाभययुतवामपाणिद्वया च १५, श्रीशान्तिनाथस्य निर्वाणीदेवी कनकरुचिः पग्रासना चतुर्भुजा पुस्तकोत्पलयुक्तदक्षिणपाणिद्वया कमण्डलुकमलकलितवामकरद्वया च १६, श्रीकुन्थोरच्युता देवी मतान्तरेण बलामि
मयूरवाहनां चतुर्भुजा बीजपूरकशूलान्वितदक्षिणपाणिद्वया मुषुण्ढिपद्मान्वितवामपाणिद्वया च १७, श्रीअरजिनस्य धार णी देवी नीलवर्णा पद्मासना चतुर्भुजा मातुलिङ्गोत्पलयुक्तदक्षिणपाणिद्वया पद्माक्षसूत्रान्वितवामपाणिद्वया च १८, श्रीमल्लिजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणपाणिद्वया बीजपूरकशक्तियुक्तवामपाणिद्वया चेति १९, श्रीमुनिसुव्रतस्य अच्छुप्ता देवी मतान्तरेण नरदत्ता कनकरुचिर्भद्रासनारूढा चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणभुजद्वया बीजपूरकशूलयुक्तवामकरद्वया च २०, श्रीनमिजिनस्य गान्धारी देवी श्वेतवर्णा हंसवाहना चतुर्भुजा वरदखङ्गयुक्तदक्षिणकरद्वया बीजपूरककुन्तकलितवामकरद्वया च २१, श्रीनेमिजिनस्य अम्बा देवी कनककान्तिरुचिः सिंहवाहना चतुर्भुजा आम्रलुम्बिपाशयुक्तदक्षिणकरद्वया पुत्राशासक्तवामकरद्वया च २२, श्रीपार्श्वजिनस्य पद्यावती देवी कनकवर्णा कुर्कुटसर्पवाहना चतुर्भुजा पद्मपाशान्वितदक्षिणकरद्वया फलाकुशाधिष्ठितवामकरद्वया च २३, श्रीवीरजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुर्भुजा पुस्तकाभययुक्तदक्षिणकरद्वया बीजपूरकवीणामिरामवामकरद्वया चेति २४ । अत्र च सूत्रकारेण यक्षाणां देवीनां च केवलानि नामान्येवाभिहितानि न पुनर्नयनवदनवर्णादिस्वरूपं निरूपितं, अस्माभिस्तु शिष्यहिताय निर्वाणकलिकादिशास्त्रानुसारेण किंचित्तदीयमुखवर्णप्रहरणादिस्वरूपं निरूपितमिति ॥ ३७६ ॥ २७ ॥ इदानीं 'तनुमाणं'ति अष्टाविंशतितमं द्वारमाह
पंचधणूसय पढमो कमेण पण्णासहीण जा सुविही १००। दसहीण जा अणंतो ५० पंचूणा जाव
63