Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 82
________________ अथ सुररचितानां—देवकृतानामतिशयाना मे कोनविंशतिः कथ्यते, तत्र आकाशवत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तन्मयं सिंहासनं सपादपीठं - पादपीठयुक्तं १ तथा छत्रवयमतिपवित्रं २ तथा जिनस्य पुरतोऽनेकलघुपता कि कासहस्र सुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रत्वसूचको वा ध्वज इन्द्रध्वजः ३ तथोभयोः पार्श्वयोर्यक्षहस्तगते सिते चामरे ४ तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रं ५ एतानि च सिंहासनादीनि पञ्चापि यत्र यत्र जगद्गुरुर्विचरति तब तब गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र विचित्रपत्र पुष्प पल्लवस्पृहणीयच्छत्रध्वजघण्टापताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः ६ तथा चतुर्मुखं चतुर्दिशं मूर्तिचतुष्कं तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति तीर्थकर - प्रभावादेव च तीर्थकररूपानुरूपाणि सिंहासनादियुक्तानि देवकृतानि भवन्ति शेषदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपत्त्यर्थ ७ तथा समवसरणे मणिकाभ्वनताररचितं शालत्रिकं, तत्र तीर्थङ्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकार निः सपत्नरत्नमयो वैमानिकसुरैर्विरच्यते द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्क विबुधैर्विधीयते तृतीयस्तु बहिर्भूतस्तारत र कान्तिराजितरजतमयो भवनपतिदेवैर्वितन्यते ८ तथा ‘नवकनकषङ्कजानि' नवसङ्ख्यानि काञ्चनकमलानि नवनीतस्पर्शानि क्रियन्ते, तत्र च द्वयोर्भगवान् स्वकीयक्रमकमलयुगलं विन्यस्य विचरति अन्यानि च सप्त पद्मानि पृष्ठतस्तिष्ठन्ति तेषां च यद्यत्पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति ९ तथा यत्र यत्र भगवान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते १० तथा नित्यं - सर्वदा अवस्थितमात्रा - अवृद्धिस्वभावाः प्रभोः - भगवतस्तिष्ठन्ति - आस केशरोमनखाः, केशाः- शिरः कूर्चसम्भवाः रोमाणि - शेषशरीरसम्भवानि नखाः - पाणिपादजाः ११ तथा इन्द्रियार्था - विषयाः पश्चापि – स्पशेरसरूपगन्धशब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा - मनः प्रीणका भवन्ति १२ तथा षडपि ऋतवो - वसन्ताद्याः शरीराप्यायकसुखस्पर्शादिसम्पादकत्वेन सर्वदाविकाशिकुसुमादिसमृद्ध्या च मनोरमा अनुकूलाः सम्पद्यन्ते १३ तथा यत्र भगवांस्तिष्ठति तत्र पशुप्रसरप्रशमनार्थं गन्धोदकवृष्टिर्घनघनसारादिमिश्रमनोहारिवारिवृष्टिः १४ तथा वृष्टिः कुसुमानां - मन्दारपारिजातकचम्पकादीनां पश्चवर्णानां श्वेतरक्तपीतनीलकालानां १५ तथा शकुनाः - पक्षिणो ददति प्रदक्षिणां यत्र भगवान् सभ्वरति तत्र चाषशिखण्डिप्रभृतयः पक्षिणः प्रदक्षिणगतयो भवन्तीत्यर्थः १६ तथा पवनः - संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभिशीतलमन्दत्वेन च अनुकूलः – सुखदो भवति, यदुक्तं समवायाने – “सीयलेणं सुहफासेणं सुरहिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ"त्ति, [ शीतलेन सुरमिना सुखस्पर्शेन मारुतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमार्ज्यते ] १७ तथा यत्र भगवान् व्रजति तत्र द्रुमाः - पादपाः प्रणमन्तिनम्रा भवन्ति १८ तथा यत्र भगवान् सलीलं सञ्चरति तत्र वाद्यन्ते दुन्दुभयो - महत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः १९ इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्च मीलनेन भवन्तीति । इह च यत्समवायाङ्गेन सह किञ्चिदन्यथात्वमपि दृश्यते तन्मतान्तरमवगन्तव्यं, मतान्तरबीजानि तु सर्वज्ञविज्ञेयानीति ४३५-४५० ॥ ४० ॥ सम्प्रति 'दोसा अट्ठारस 'त्ति एकचत्वारिंशत्तमं द्वारमाह अन्नाण १ कोह २ मय ३ माण ४ लोह ५ माया ६ रई ७ य अरई ८य । निद्दा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥ ४५१ ॥ पाणिवह १५ पेम १६ कीला पसंग १७ हासा १८ य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ॥ ४५२ ॥ 'अन्नाणे 'त्यादिगाथाद्वयं, 'अज्ञानं' संशयानध्यवसायविपर्ययात्मकं मौढ्यं, 'क्रोधः' कोप:, 'मदः' कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षणानिबन्धनं वा 'मानो' दुरभिनिवेशामोचनं युक्तोक्ताग्रहणं वा, 'लोभो' गृद्धि:, 'माया' दंभः, 'रतिः' अभीष्टपदार्थानामुपरि मनःप्रीतिः, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखं, 'निद्रा' खापः, 'शोकः' चित्तवैधुर्य, 'अलीकवचनं' वितथभाषणं, 'चोरिका' परद्रव्यापहार:, 'मत्सरः' परसम्पदसहिष्णुता, 'भयं' प्रतिभयः, 'प्राणिवधः' प्राण्युपमर्दः, 'प्रेम' स्नेहविशेषः, 'क्रीडाप्रसङ्गः' क्रीडायामासक्तिः, 'हासो' हास्यं, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ४५१-४५२ ॥ ४१ ॥ इदानीं 'अरिहचउकं' ति द्विचत्वारिंशत्तमं द्वारमाह जिणनामा नामजिणा केवलिणो सिवगया य भावजिणा । ठवणजिणा पडिमाउ दव्वजिणा भाविजिणजीवा ॥ ४५३ ॥ जिनाश्चतुर्धा - नामजिनाः स्थापनाजिना द्रव्यजिना भावजिनाश्चेति, तत्र जिनानां - तीर्थकृतां नामानि ऋषभाजितसम्भवादीनि नामजिना:, तथा अष्टमहाप्रातिहार्यादिसमृद्धिं साक्षादनुभवन्तः 'केवलिनः' समुत्पन्नकेवलज्ञानाः 'शिवगताश्च' परमपदप्राप्ता भावतः - सद्भावतो जिना भावजिनाः, गाथानुलोम्याच अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिना: ' प्रतिमाः काश्वनमुक्ताशैलमरकतादिभिर्निर्मिताः, द्रव्यजिनाये जिनत्वेन भाविनो भविष्यन्ति जीवाः श्रेणिकाद्य इति ४५३ ॥ ४२ ॥ इदानीं 'निक्खवणतवो'त्ति त्रिचत्वारिंशत्तमं द्वारं विवृणोति — सुमहत्थ निबभत्सेण निग्गओ वासुपूज्य [जिणो] चउत्थेण । पासो मल्लीवि य अट्ठमेण सेसा उ छट्टेणं ॥ ४५४ ॥ सुमतिरत्र -अस्यामवसर्पिण्यां चतुर्विंशतौ तीर्थकृत्सु मध्ये 'नित्यभक्तेन' अनवरतभक्तेन निर्गतो -गृहवासात् प्रव्रजित इत्यर्थः, वासु 73

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310