________________
अथ सुररचितानां—देवकृतानामतिशयाना मे कोनविंशतिः कथ्यते, तत्र आकाशवत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तन्मयं सिंहासनं सपादपीठं - पादपीठयुक्तं १ तथा छत्रवयमतिपवित्रं २ तथा जिनस्य पुरतोऽनेकलघुपता कि कासहस्र सुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रत्वसूचको वा ध्वज इन्द्रध्वजः ३ तथोभयोः पार्श्वयोर्यक्षहस्तगते सिते चामरे ४ तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रं ५ एतानि च सिंहासनादीनि पञ्चापि यत्र यत्र जगद्गुरुर्विचरति तब तब गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र विचित्रपत्र पुष्प पल्लवस्पृहणीयच्छत्रध्वजघण्टापताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः ६ तथा चतुर्मुखं चतुर्दिशं मूर्तिचतुष्कं तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति तीर्थकर - प्रभावादेव च तीर्थकररूपानुरूपाणि सिंहासनादियुक्तानि देवकृतानि भवन्ति शेषदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपत्त्यर्थ ७ तथा समवसरणे मणिकाभ्वनताररचितं शालत्रिकं, तत्र तीर्थङ्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकार निः सपत्नरत्नमयो वैमानिकसुरैर्विरच्यते द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्क विबुधैर्विधीयते तृतीयस्तु बहिर्भूतस्तारत र कान्तिराजितरजतमयो भवनपतिदेवैर्वितन्यते ८ तथा ‘नवकनकषङ्कजानि' नवसङ्ख्यानि काञ्चनकमलानि नवनीतस्पर्शानि क्रियन्ते, तत्र च द्वयोर्भगवान् स्वकीयक्रमकमलयुगलं विन्यस्य विचरति अन्यानि च सप्त पद्मानि पृष्ठतस्तिष्ठन्ति तेषां च यद्यत्पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति ९ तथा यत्र यत्र भगवान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते १० तथा नित्यं - सर्वदा अवस्थितमात्रा - अवृद्धिस्वभावाः प्रभोः - भगवतस्तिष्ठन्ति - आस केशरोमनखाः, केशाः- शिरः कूर्चसम्भवाः रोमाणि - शेषशरीरसम्भवानि नखाः - पाणिपादजाः ११ तथा इन्द्रियार्था - विषयाः पश्चापि – स्पशेरसरूपगन्धशब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा - मनः प्रीणका भवन्ति १२ तथा षडपि ऋतवो - वसन्ताद्याः शरीराप्यायकसुखस्पर्शादिसम्पादकत्वेन सर्वदाविकाशिकुसुमादिसमृद्ध्या च मनोरमा अनुकूलाः सम्पद्यन्ते १३ तथा यत्र भगवांस्तिष्ठति तत्र पशुप्रसरप्रशमनार्थं गन्धोदकवृष्टिर्घनघनसारादिमिश्रमनोहारिवारिवृष्टिः १४ तथा वृष्टिः कुसुमानां - मन्दारपारिजातकचम्पकादीनां पश्चवर्णानां श्वेतरक्तपीतनीलकालानां १५ तथा शकुनाः - पक्षिणो ददति प्रदक्षिणां यत्र भगवान् सभ्वरति तत्र चाषशिखण्डिप्रभृतयः पक्षिणः प्रदक्षिणगतयो भवन्तीत्यर्थः १६ तथा पवनः - संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभिशीतलमन्दत्वेन च अनुकूलः – सुखदो भवति, यदुक्तं समवायाने – “सीयलेणं सुहफासेणं सुरहिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ"त्ति, [ शीतलेन सुरमिना सुखस्पर्शेन मारुतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमार्ज्यते ] १७ तथा यत्र भगवान् व्रजति तत्र द्रुमाः - पादपाः प्रणमन्तिनम्रा भवन्ति १८ तथा यत्र भगवान् सलीलं सञ्चरति तत्र वाद्यन्ते दुन्दुभयो - महत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः १९ इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्च मीलनेन भवन्तीति । इह च यत्समवायाङ्गेन सह किञ्चिदन्यथात्वमपि दृश्यते तन्मतान्तरमवगन्तव्यं, मतान्तरबीजानि तु सर्वज्ञविज्ञेयानीति ४३५-४५० ॥ ४० ॥ सम्प्रति 'दोसा अट्ठारस 'त्ति एकचत्वारिंशत्तमं द्वारमाह
अन्नाण १ कोह २ मय ३ माण ४ लोह ५ माया ६ रई ७ य अरई ८य । निद्दा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥ ४५१ ॥ पाणिवह १५ पेम १६ कीला पसंग १७ हासा १८ य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ॥ ४५२ ॥ 'अन्नाणे 'त्यादिगाथाद्वयं, 'अज्ञानं' संशयानध्यवसायविपर्ययात्मकं मौढ्यं, 'क्रोधः' कोप:, 'मदः' कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षणानिबन्धनं वा 'मानो' दुरभिनिवेशामोचनं युक्तोक्ताग्रहणं वा, 'लोभो' गृद्धि:, 'माया' दंभः, 'रतिः' अभीष्टपदार्थानामुपरि मनःप्रीतिः, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखं, 'निद्रा' खापः, 'शोकः' चित्तवैधुर्य, 'अलीकवचनं' वितथभाषणं, 'चोरिका' परद्रव्यापहार:, 'मत्सरः' परसम्पदसहिष्णुता, 'भयं' प्रतिभयः, 'प्राणिवधः' प्राण्युपमर्दः, 'प्रेम' स्नेहविशेषः, 'क्रीडाप्रसङ्गः' क्रीडायामासक्तिः, 'हासो' हास्यं, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ४५१-४५२ ॥ ४१ ॥ इदानीं 'अरिहचउकं' ति द्विचत्वारिंशत्तमं द्वारमाह
जिणनामा नामजिणा केवलिणो सिवगया य भावजिणा । ठवणजिणा पडिमाउ दव्वजिणा भाविजिणजीवा ॥ ४५३ ॥
जिनाश्चतुर्धा - नामजिनाः स्थापनाजिना द्रव्यजिना भावजिनाश्चेति, तत्र जिनानां - तीर्थकृतां नामानि ऋषभाजितसम्भवादीनि नामजिना:, तथा अष्टमहाप्रातिहार्यादिसमृद्धिं साक्षादनुभवन्तः 'केवलिनः' समुत्पन्नकेवलज्ञानाः 'शिवगताश्च' परमपदप्राप्ता भावतः - सद्भावतो जिना भावजिनाः, गाथानुलोम्याच अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिना: ' प्रतिमाः काश्वनमुक्ताशैलमरकतादिभिर्निर्मिताः, द्रव्यजिनाये जिनत्वेन भाविनो भविष्यन्ति जीवाः श्रेणिकाद्य इति ४५३ ॥ ४२ ॥ इदानीं 'निक्खवणतवो'त्ति त्रिचत्वारिंशत्तमं द्वारं विवृणोति — सुमहत्थ निबभत्सेण निग्गओ वासुपूज्य [जिणो] चउत्थेण । पासो मल्लीवि य अट्ठमेण सेसा उ छट्टेणं ॥ ४५४ ॥
सुमतिरत्र -अस्यामवसर्पिण्यां चतुर्विंशतौ तीर्थकृत्सु मध्ये 'नित्यभक्तेन' अनवरतभक्तेन निर्गतो -गृहवासात् प्रव्रजित इत्यर्थः, वासु
73