________________
काष्टीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति, तस्मानिखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते-यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमचकुन्दकुन्दकुमुदकमलदलमुकुलमालतीविकचविचकिलप्रमुखकुसुमसमूहानामप्युपरि सञ्चरिष्णौ स्थाष्णौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा प्रत्युत सुधारससिच्यमानानामिव बहुतरसमुल्लासस्तेषामापनिपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रभावोज़म्भमाणप्रसादादेवेति । तथा दिव्यध्वनिविषये पूर्वपक्षचञ्चवः केचिदाचक्षते-ननु सकलजनाहाददायी जात्यशर्कराद्राक्षादिरसमिश्रितपरिकथितस्निग्धदुग्धरससहोदरस्तीर्थकरस्यैव ध्वनिरसौ कथं प्रतिहारकृतत्वमस्य युज्यते?, युक्तमिदमुदितमुदारमतिमिः, तीर्थकृतां वाणी हि परममधुरिममनोरमपदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव, परं यदा मालवकैशिक्यादिप्रामरागैर्भव्यजनोपकाराय देशनां भगवान् विधत्ते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणुवीणादिकलकणितकरणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीजनगीतरवोऽनवमवैणिकवैणविकादिवीणावेण्वादिरवैरित्येतावताउंशेन प्रतिहारदेवकृतत्वमस्य न विरुद्ध्यते इति सर्व समञ्जसम् ३९ । इदानीं 'चउत्तीसातिसयाणं ति चत्वारिंशत्तमं द्वारमाह
रयरोयसेयरहिओ देहो १ धवलाई मंसरुहिराई २। आहारानीहारा अहिस्सा ३ सुरहिणो सासा ४ ॥४४१॥ जम्माउ इमे चउरो एकारसकम्मखयभवा इम्हि । खेत्ते जोयणमेत्ते तिजयजणो माइ बहुओऽवि ५॥४४२॥ नियभासाए नरतिरिसुराण धम्मावबोहया वाणी ६। पुन्वभवा रोगा उवसमंति ७ न य हुंति वेराई ८॥ ४४३ ॥ दुन्भिक्ख ९ डमर १० दुम्मारि ११ ईई १२ अइबुहि १३ अणभिवुट्टीओ १४ । हुंति न जियबहुतरणी पसरइ भामंडलुजोओ १५॥ ४४४ ॥ सुररइयाणिगुवीसा मणिमयसीहासणं सपयवीढं १६ । छत्तत्तय १७ इंदद्धय १८ सियचामर १९ धम्मचक्काइं २०॥ ४४५ ॥ सह जगगुरुणा गयणट्ठियाइं पंचवि इमाई वियरंति । पाउन्भवह असोओ २१ चिट्ठइ जत्थप्पहू तत्थ ॥ ४४६ ॥ चउमुहमुत्तिचउर्फ २२ मणिकंचणताररहयसालतिगं २३ । नवकणयपंकयाई २४ अहोमुहा कंटया हुंति २५॥४४७॥ निश्चमवट्ठियमित्ता पहुणो चिट्ठति केसरोमनहा २६ । इंदियअत्था पंचवि मणोरमा २७ हुंति छप्पि रिऊ २८ ॥ ४४८॥ गंधोदयस्स वुट्टी २९ वुट्ठी कुसुमाण पंचवन्नाणं ३० दिति पयाहिण सउणा ३१ पहुणो पवणोऽवि अणुकूलो ३२॥ ४४९॥ पणमंति दुमा ३३ वजंति दुंदुहीओ गहीरघोसाओ ३४। चउ
तीसाइसयाणं सव्वजिणिंदाण हुँति इमा ॥ ४५० ॥ 'रयेत्यादिगाथादशकं, रजो-मलः रोगो-व्याधिः स्वेदः-श्रमजं शरीरजलं तैविरहितः-त्यक्तः, उपलक्षणत्वाल्लोकोत्तररूपगंधरसबंधुरश्च तीर्थकृतां देहः-शरीरं, तथा गोक्षीरधारावद्धवलं-पाण्डुरं अविभं च मांसरुधिरं, तथा आहारः-अभ्यवहरणं नीहारो-मूत्रपुरीषोत्सर्गस्तौ क्रियमाणौ न दृश्यते इत्यदृश्यौ मांसचक्षुषा, न पुनरवध्यादिलोचनेन पुंसा, तथा विकचोत्पलवसुरभयः श्वासा-उच्छासनिःश्वासा इत्येते चत्वारोऽप्यतिशया जिनानां जन्मतोऽपि जाताः । इदानीमेकादशातिशयाः 'कर्मक्षयभवाः' कर्मणां-ज्ञानावरणादीनां चतुर्णा घातिकर्मणां क्षयाजाताः कथ्यन्त इति शेषः, तत्र 'योजनमात्रे योजनप्रमाणेऽपि 'क्षेत्रे समवसरणभुवि 'त्रिजगजनः' सुरनरतिर्यग्जनः 'प्रभतोऽपि कोटीकोटीप्रमाणोऽपि 'माति' परस्परासम्बाधया सुखेनावतिष्ठते, तथा वाणी अर्धमागधीभाषा भगवताऽमिधी यमाना नरतिर्यकसुराणां प्रत्येकं 'निजनिजभाषया' स्वस्वभाषया कृत्वा धर्मावबोधका धर्मावबोधदा वा भवति, अयमर्थः-योजनव्यापिनी एकस्वरूपाऽपि भगवतो भारती वारिदविमुक्तवारिवत्तत्तदाश्रयानुरूपतया परिणमति, यत उक्तम्-"देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची, मेनिरे भगवद्गिरम् ॥१॥" न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुमिति, तथा पूर्वोत्पन्ना रोगाः-ज्वरारोचकादय उपशाम्यन्ति अपूर्वाश्च नोत्पद्यन्ते, तथा न च-नैव भवन्ति पूर्वभवनिबद्धानि जातिप्रत्ययानि च वैराणि-परस्परविरोधाः, तथा दुर्मिक्षं-दुष्कालः तथा डमरः-स्वचक्रपरचक्रकृतो विप्लवः तथा दुष्टदेवतादिकृतं सर्वगतं मरणं दुर्मारिः तथा ईतयः-प्रचुरशलभशुकमूषकाद्या धान्यादिविनाशिकाः तथाऽतिवृष्टिः-अतिजलपातः तथाऽनावृष्टिः-सर्वथा जलपाताभावः, एते च रोगादयो यत्र यत्र भगवान् विहरति तत्र तत्र चतसृषु दिक्षु प्रत्येकं पञ्चविंशतियोजनमध्ये न जायन्ते, तदुक्तं समवायाङ्गे "जओ जओऽवि य णं अरिहंता भगवंतो विहरंति तओ तओऽविय णं जोअणपणवीसाए णं ईई ण भवइ मारी न हवइ परचकं न भवइ सचकं न भवइ अइबुट्ठी न भवइ अणावुट्ठी न भवइ, दुब्भिक्खं न भवइ, पुव्वुप्पण्णावि य णं उप्पाइया वाही खिप्पामेव उवसमंति" [यत्र यत्रापि च अर्हन्तो भगवन्तो विहरन्ति तत्र तत्रापि पञ्चविंशतौ योजनेषु ईतयो न भवन्ति मार्यो न भवन्ति स्वचक्रं न भवति परचक्रं न भवति अतिवृष्टिर्न भवति अनावृष्टिर्न भवति दुर्भिक्षं न भवति पूर्वोत्पन्ना अपि च व्याधयः क्षिप्रमेवोपशाम्यन्ति त्ति, स्थानांगटीकायामपि दशस्थानके लिखितं-"महावीरस्य भगवतः स्वप्रभावप्रशमितयोजनशतमध्यगतवैरिमारिविड़रदुर्भिक्षाद्युपद्रवस्थापि" इति, तथा जिनशिरसः पश्चाद्भागेऽतिभास्वरतया जितबहुतरणिः-तिरस्कृतद्वादशाकंतेजाः प्रसरति भामण्डलस्य-प्रभापटलस्योद्योतः ।
72