________________
'आसायणे'त्यादिगाथात्रयं, एताः परिस्फुरद्विविधदुःखपरम्पराप्रभवभवभ्रमणकारणमिति विभाव्य-परिभाव्य यतयोऽस्नानकारित्वेन मलमलिनदेहत्वान्न जैनमन्दिरे निवसन्तीति समयः-सिद्धान्तः ॥ तमेव समयं व्यवहारभाष्योक्तं दर्शयति-एषा तनुः नापितापि दुरमिगन्धमलप्रस्वेदस्राविणी, तथा द्विधा वायुपथः-अधोवायुनिर्गम उच्छवासनिःश्वासनिर्गमश्च यद्वा द्विधा मुखेन अपानेन च वायुवहो वापि-वातवहनं च, तेन कारणेन न तिष्ठन्ति यतयश्चैत्ये-जिनमन्दिरे । यद्येवं व्रतिभिश्चैत्येष्वाशातनाभीरुमिः कदाचिदपि न गन्तव्यं, तत्राह-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति-भणतीत्यर्थः, किंविशिष्टाः ? तत्राह-त्रिश्लोकिकाः-त्रयः श्लोकाःछन्दोविशेषरूपा अधिका न यासु ताः तथा, 'सिद्धाणं बुद्धाणं' इत्येकः श्लोकः 'जो देवाणवि' इति द्वितीयः 'एक्कोवि नमुक्कारों' इति तृतीय इति, अप्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुमिरिति, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यवन्दनाया अप्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले तु साधूनां जिनाशातनादिभयानानुज्ञातमवस्थानं तीर्थकरगणधरादिमिः, ततो - तिभिरप्येवमाशातनाः परिहियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । इयं च तीर्थकृतामाज्ञा, आज्ञाभङ्गश्च महतेऽनर्थाय सम्पद्यते, यदाहुः-'आणाइच्चिय चरणं' (आज्ञयैव चारित्रं) इत्यादि ॥३८॥ साम्प्रतं 'अट्ठ महापाडिहेराईति एकोनचत्वारिंशत्तमं द्वारमाह
कंकिल्लि १ कुसुमवुट्ठी २ देवझुणि ३ चामरा ४ऽऽसणाई ५ च । भावलय ६ भेरि ७ छत्तं ८ ज
यंति जिणपाडिहेराई॥४४०॥ तत्र प्रतिहारा इव प्रतिहाराः-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कृत्यानि प्रातिहार्याणि, 'वर्णदृढादिभ्यः ष्यञ्चेति कर्मणि व्यञ् तान्यष्टौ, तद्यथा-उल्लसद्बहलपाटलपल्लवजालसर्वकालविकसदसमानकुसुमसमूहविनिःसरदविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमद्धमरनिकुरम्बरणरणारावशिशिरीकृतप्रणमद्भव्यजननिकरश्रवणविवरोऽतिमनोरमाकारशालिविशालशालः कङ्केल्लितरुः-अशोकतरुर्जिनस्योपरि देवैर्विधीयते १, तथा जलजस्थलजविकुर्वणाविरचितानां पञ्चवर्णानां विकस्वराणामधःकृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसं वृष्टिः कि(प्रन्थानं ४०००) यते २, तथा सरसतरसुधारससहोदरः सरभसविविधदेशापहृतमुक्तापरव्यापारप्रसारितवदनैः कुरजकुलैराकुलाकुलैरुत्कर्णैराकर्ण्यमान: सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते ३, तथा कमनीयकदलीकाण्डप्रकाण्डतन्तुमण्डलीरुचिरमरीचिचिकुरनिकुरम्बडम्बरितातिजात्यविचित्रपवित्रनिःसपनरत्नविसरविनिःसरत्किरणनिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्रचापकान्तकाञ्चनमयोद्दण्डदण्डरमणीया चारुचामरश्रीविस्तार्यते ४, तथा अतिभास्वरसटापाटलबन्धुरस्कन्धबन्धविकटप्रकटदंष्ट्राकरालसजीवायमानसिंहरूपालङ्कृतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्यकिरणावलि विलुप्यमानविलसत्तमस्काण्डडम्बरं सिंहासनं चारुतरं विरच्यते ५, तथा शरकालविलसदखण्डमयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिभास्वरात्तदीयनिरुपमरूपाच्छादकमतुच्छं प्रभापटलं सम्पिण्ड्य जिनशिरसः पश्चाद्भागे मण्डलायमानं भामण्डलमातन्यते ६, तथा तारतरविस्फारभाङ्कारभरितभुवनोदरविवरा भे. रयो-महाढक्काः क्रियन्ते ७, तथा भूर्भुवःस्वस्त्रयैकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमासूच्यते ८ इत्यष्टौ प्रातिहार्याणि जिनेश्वराणां जयन्तीति ॥ तत्र ककेल्लिः श्रीमहावीरस्य द्वात्रिंशद्धनुरुच्छ्रितः, शेषाणां तु ऋषभस्वाम्यादीनां पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृतां निजनिजशरीरमानाद् द्वादशगुणः, यदुक्तम्-"उसमस्स तिनि गाउय बत्तीस धणूणि वद्धमाणस्स । सेसजिणाणमसोओ सरीरओ वारसगुणो उ॥ १॥" [ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंशद्धनूंषि वर्धमानस्य । जिनानां शेषाणामशोकः शरीराद् द्वादशगुणः ॥१॥] इति । ननु महावीरस्यापि कापि निजशरीराद् द्वादशगुणोऽशोकपादपः प्रतिपाद्यते, यदुक्तमावश्यकचूर्णी श्रीमहावीरसमवसरणप्रस्तावे-"असोगवरपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउव्वई"त्ति [अशोकवरपादपं जिनोच्चत्वाद् द्वादशगुणं शक्रो विकुर्वति तत्कथमिदमुपपद्यते ? इति, अत्रोच्यते-केवलमस्यैवाशोकतरोस्तत्र मानमुक्तं, इह तु सालवृक्षसहितस्य, ततोऽत्रापि केवलो द्वादशगुण एव, स तु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन्नेकविशतिर्धनूंषि भवति, सालवृक्षोऽप्येकादशधनुःप्रमाणः, ततो मिलितानि द्वात्रिंशद्धनूंषि युज्यन्ते इति सम्प्रदायः, समवायाङ्गेऽप्युक्तं"बत्तीसं धणुयाई चेइयरुक्खो उ वद्धमाणस्स । निच्चोउगो असोगो उच्छन्नो सालरुक्खेणं ॥१॥" तट्टीका च 'निच्चोउगो'त्ति नित्यंसर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्तुकः, “असोगो'त्ति अशोकामिधानो यः समवसरणभूमिमध्ये भवति, 'उच्छन्नो सालरुक्खेणं'ति अवच्छन्नः सालवृक्षेणेति” अत एव वचनादशोकस्योपरि सालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति, तथा आयोजनभूमिकुसुमवर्षविषये कृपाकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तु युज्यते ?, जीवविघातहेतुत्वादिति, तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, एतच्चायुक्तं, यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात् , न चैतदनार्ष-"बिंटवाइं सुरभि जलथलयं दिव्वकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवण्णं कुसुमवुर्हि ॥ १॥" [वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुमगन्धनिर्झरिणी दशार्धवर्णा कुसुमवृष्टिं समन्ततो विकिरन्ति ॥ १॥]ति सिद्धान्तवचनाद्, एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति यत्र व्रतिनस्तिष्ठन्ति न तत्र देशे देवाः पुष्पाणि किरन्तीति, एतदप्युत्तराभासं, न खलु तपोधनैः
71