________________
स्थगितं पिठरादि परम्परपिहितं, तथा तत्रैवाङ्गारधूपनादौ अव्यवहितमनन्तरपिहितं वायौ द्रष्टव्यं 'यत्राग्निस्तत्र वायु'रिति वचनात्, समीरणभृतेन तु बस्तिना पिहितं परम्परपिहितं, तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितं, फलभृच्छब्बकादिना पिहितं परम्परपिहितं, तथा मण्डकमोदकादिकमुपरिसश्वरत्पिपीलिका पङ्क्तिकं त्रसानन्तरपिहितं, कीटिकाद्याकीर्णेन तु शरावादिना पिहितं त्रसपरम्परपिहितमिति, तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत एव यतीनां सङ्घट्टादिदोषसंभवात् परम्परपिहितं तु यतनया प्राह्ममपि, तथा अचित्तेनाप्यचित्ते देये वस्तुनि पिहिते चतुर्भङ्गी, यथा-गुरुकं गुरुकेण पिहितं १ गुरुकं लघुकेन २ लघुकं गुरुकेण ३ लघुकं लघुकेन ४, तत्र च प्रथमतृतीययोर्भङ्गयोरग्राह्यं, गुरुद्रव्यस्योत्पाटने हि कथमपि तस्य पाते पादाविभङ्गसम्भवात्, द्वितीयचतुर्थयोस्तु प्राह्यमुक्तदोषाभावात्, देयवस्त्वाधारस्य पिठरादेर्गुरुत्वेऽपि ततः करोटिका दिना दानसम्भवात् ४ ॥ ' साहरिय'त्ति संहृतम् - अन्यत्र प्रक्षिप्तं, तत्र येन करोटिकादिना कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तददेयमन्यत्र स्थानान्तरे क्षित्वा तेन ददाति एतत्संहृतमुच्यते, तञ्चादेयं कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु तदा मिश्रस्य सचित्त एवान्तर्भावात्सचित्ताचित्तपदाभ्यां चतुर्भङ्गी, यथा सचित्ते सचित्तं संहृतं १ सचित्ते अचित्तं २ अचित्ते सचित्तं ३ अचित्ते अचित्तमिति ४, तन्त्राद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसम्भवान्न कल्पते चतुर्थे भने तु तथाविधदोषासम्भवे सति कल्पतेऽपीति, अत्राप्यनन्तरपरम्परप्ररूपणा पूर्ववत्कर्तव्या, यथा सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परम्परसचित्तपृथिवीकायसंहृतं, एवमप्कायादिष्वपि भावनीयं, अनन्तरसंहृते न प्राह्यं, परम्परसंहृते तु सचित्तपृथिवीकायाद्यसङ्घट्टने प्राह्म मिति ५ ॥ 'दायग'त्ति दायकदोषदुष्टं, दायकश्चानेकप्रकार:, तथाहि - स्थविरो १ ऽप्रभु २नपुंसकः ३ कम्पमानकायो ४ ज्वरितो ५ ऽन्धो ६ बालो ७ मत्त ८ उन्मत्त ९ रिछन्नकर १० रिछन्नचरणो ११ गलत्कुष्ठो १२ बद्धः १३ पादुकारूढः १४ तथा कण्डयन्ती १५ पिंषन्ती १६ भर्जमाना १७ कृन्तन्ती १८ लोढयन्ती १९ विक्ष्णुवती २० पिजयन्ती २१ दलयन्ती २२ विरोलयन्ती २३ भुञ्जाना २४ आपन्नसत्त्वा २५ बालवत्सा २६ षट् कायान् सङ्घट्टयन्ती २७ तानेव विनाशयन्ती २८ सप्रत्यपाया २९ चेति, तत एवमादिस्वरूपे दातरि ददति न कल्पते, तत्र स्थविरः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वोपरिवर्ती, स च प्रायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा, तथा कम्पमानहस्तश्च भवति, ततो हस्तकम्पनवशाद्देयं वस्तु भूमौ निपतति, तथा च षट्जीवनिकायविराधना, तथा स्वयं वा स्थविरो ददत् निपतेत्, तथा सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च १ अपि च- प्रायः स्थविरो गृहस्याप्रभुर्भवति, ततस्तेन दीयमाने कोधिकारोऽस्य वृद्धस्य दाने इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य प्रद्वेषः स्यात्, तथा वृद्धोऽपि यदि प्रभुर्भवति कम्पमानश्च यद्यन्येन विधृतो वर्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते २ तथा नपुंसकादभीक्ष्णं भिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साधोर्वा वेदोदयो भवेत्, ततो नपुंसकस्य साध्वालिङ्गनाद्यासेवनेन द्वयस्यापि कर्मबन्धः, तथा अहो एते नपुंसकादपि निकृष्टात् गृहन्तीति जननिन्दा भवेत्, अपवादतस्तु वर्धितकचिप्पितमत्रोपहतऋषिशप्तदेवशप्तादिषु केषुचिदप्रतिसेविषु नपुंसकेषु ददत्सु गृह्यतेऽपि मिक्षेति ३ तथा कम्पमानकायोsपि मिक्षादानसमये देयमानयन् भूमौ परिशाटयेत् तथा साधुभाजनाद्वहिर्भिक्षां क्षिपेत् देयमात्रकं वा पातनेन स्फोटयेदिति, सोऽपि च यदि दृढमिक्षाभाजनमाही भवेत् पुत्रादिभिर्वा दृढहस्तो भिक्षां दाप्यते तदा ततोऽपि गृह्यते ४ एवं ज्वरितेऽपि दोषा भावनीयाः, किश्व - ज्वरिताद्भिक्षाग्रहणे ज्वरसङ्क्रमणमपि साधोर्भवेत्, तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्थं ज्वरपीडितादपि गृह्णन्ति, अथासञ्चरिष्णुर्ज्वरो भवेत्तदो यतनया कदाचिद् गृह्यतेऽपीति ५ तथा अन्धाद्विक्षाग्रहणे उड्डाहः, स चायं - अहोऽमी औदरिका यदन्धादपि मिक्षां च दातुमशक्नुवतो मिक्षां गृहन्तीति, तथा अन्धोऽपश्यन् पादाभ्यां भूम्याश्रितषड्जीवनिकायघातं विदधाति, तथाऽन्धो लेवादौ स्खलितः सन् भूमौ निपतेत्, तथा च सति भिक्षादानायोत्पाटितहस्तगृहीतस्थाल्यादेर्भङ्गः स्यात्, साधुपात्रकाद् बहिःक्षेपणे च परिशाटिर्भवेदिति, सोऽपि पुत्रादिना धृतहस्तो यदि दद्यात्तदा यतनया गृह्यते ६ तथा बालो - जन्मतो वर्षाष्टकाभ्यन्तरवर्ती तस्मिन् देयमानमजानति मात्राद्यसमक्षमतिप्रभूतां मिक्षां ददति अहो लुण्टाका एते न साधुसद्वृत्ता इत्युड्डाहो भवेत् मात्रादीनां व्रतिनामुपरि द्वेषश्च सजायते, यदि च मात्रादिभिः कार्यवशादन्यत्र गच्छद्भिर्बालकस्य कथितमिदमिदं च व्रतिनामन्त्रागतानां त्वया देयमिति, यदि च जनन्याद्यनुपदिष्टेऽपि स्तोकमेव किञ्चिद्ददाति बालकस्तदा तेनापि दीयमानं गृह्यते, एवं मात्रादिभिः क्रियमाणस्य कलहादेरभावादिति ७ तथा मत्तः- पीतमदिरादिः, स च मिक्षां ददत् कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति भाजनं वा भिनत्ति यद्वा कदाचिद्भिक्षां ददानः पीतमासवं वमति वमंश्च साधुं साधुपात्रं वा खरण्टयति ततो लोके जुगुप्सा - घिगमी साधवोऽशुचयो ये मचादपीत्थं | मिक्षां गृह्णन्तीति, तथा कोऽपि मत्तो मदविह्वलतया रे मुण्ड ! किमत्रायातस्त्वमिति ब्रुवन् घातमपि विदधाति ८ तथा उन्मत्तो- हप्तो ग्रहगृहीतो वा, तस्मिन्नप्येत एवालिङ्गनादयो दोषा वमनवर्जा भावनीया इति, तथा मत्तोऽपि यदि भद्रकोऽलक्ष्यमदृश्च भवति यदि च सागारिकः कोऽपि तत्र तथाविधो न विद्यते तर्हि तद्धस्तात् कल्पते नान्यथा, उन्मत्तोऽपि चेत् शुचिर्भद्रकश्च भवति तदा कल्पत इति ९ तथा छिन्नकरो मूत्राद्युत्सर्गादौ जलशौचाद्यभावादशुचिरेव, तेन च दीयमाने जनो निन्दां करोति, तथा हस्ताभावे येन भाजनेन कृत्वा मिक्षां ददाति यद्वा देयं वस्तु तस्य पतनमपि भवति, तथा च सति षड्जीवनिकायव्याघातः, तथा छिन्नचरणेऽप्येत एव दोषा द्रष्टव्याः,
101