Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 49
________________ कोउं ॥२५७ ॥ भामेइ तह य दिढि चलचित्तो वायसोव्व उस्सग्गे । छप्पइयाण भएणं कुणइ य पदं कविढे ३ ॥ २५८ ॥ सीसं पकंपमाणो जक्खाइटोव्व कुणइ उस्सग्गं । मूउव्व हूहुयंतो तहेव छिजंताईसु ॥ २५९ ॥ अंगुलिभमुहाओऽवि अ चालितो कुणइ तह य उस्सग्गं । आला. वगगणणहूं संठवणत्थं च जोगाणं ॥ २६०॥ काउस्सग्गंमि ठिओ सुरा जहा बुडबुडेइ अव्वत । अणुपहंतो तह वानरोव्व चालेइ ओट्टपुडे ॥२६१॥ एए काउस्सग्ग कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिसिद्धत्तिकाऊणं ॥ २६२॥ 'घोडगे'त्यादि गाथाद्वयं, तत्रैते कायोत्सर्गे भवंति दोषा एकोनविंशतिरिति सण्टङ्कः, कायस्य-शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छुसितादिभ्यः क्रियांतराध्यासमाश्रित्य य उत्सर्गः-त्यागो 'नमोऽरिहंताण'मिति वचनात् पूर्व स कायोत्सर्गः, स च द्वेधा-चेष्टायामभिभवे च, चेष्टायां-गमनागमनादौ ऐर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थ, यदुक्तम्-"सो उस्सग्गो दुविहो चेट्ठाइ अभिभवे य नायव्वो। मिक्खायरिआइ पढमो उवसग्गभिजुंजणे बीओ ॥१॥" ति[स उत्सर्गो द्विविधः चेष्टायाममिभवे च ज्ञातव्यः भिक्षाचर्यादिषु प्रथमः उपसर्गामियोजने द्वितीयः ॥ १॥] स च दोषरहितो विधीयमानो निर्जराहेतुर्भवति, दोषाश्चैते-घोटकलतास्तम्भकुड्यमालशबरीवधूनिगडलम्बोत्तरस्तनोद्धिकासंयतीखलीनवायसकपित्थशीर्वोत्कम्पितमूकअङ्गुलीभृकुटिवारुणीप्रेक्षा इत्येकोनविंशतिः॥२४७-२४८॥ इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-'आस'इत्यादि, आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः १ कम्पते कायोत्सर्गे लतेव खरपवनसङ्गेनेति लतादोषः २ ॥ २४९॥ 'खंभे इत्यादि, स्तम्भे वा कुड्ये वा अवष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ तथा माले-उपरितनभागे उत्तमानमवष्टभ्य करोत्युत्सर्गमिति मालदोषः ४ ॥ २५० ।। 'सबरी'त्यादि, शबरी-पुलिन्दिका वसनविरहिता कराभ्यां सागारिकं-गुह्यं यथा स्थगयति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोत्युसर्गमिति शबरीदोषः ५॥ २५१॥ 'अवणे'त्यादि, अवनामितोत्तमाङ्गः कुलवधुरिव तिष्ठन् करोत्युत्सर्गमिति वधूदोषः ६ निगडनियत्रित इव चरणौ विस्तार्याथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोषः ७ ॥ २५२ ॥ 'काऊणे'त्यादि, कृत्वा चोलपट्टमविधिना नामिमण्डलस्योपरि अधस्ताच जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः ८ ॥ २५३ ॥ 'पच्छाईत्यादि, अवच्छाद्य-स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थ अथवा अनाभोगदोषेण-अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ९ ।। २५४ ।। ऊलिकादोषो द्विधा-बाहोलिकादोषोऽभ्यन्तरोविकादोषश्च, तत्र द्वावपि क्रमेण आह-'मेलित्तु'इत्यादि, मीलयित्वा पाणी चरणावप्रभागे विस्तार्य बाह्यतो-बहिर्मुखं तिष्ठत्युत्सर्गे एष, बहिःशकटोलिकादोषो ज्ञातव्यः ॥ २५५॥ तथा 'अंगुट्टे'त्यादि, अङ्गुष्ठौ द्वावपि मेलयित्वा विस्तार्य पाणी तु बायतस्तिष्ठत्युत्सर्गे एष भणितोऽभ्यन्तरशकटोलिकादोषः१० ॥२५६।। 'कप्पमित्यादि, कल्पं वा-पट्टी पट्टं वा-चोलपढें संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्गे इति संयतीदोषः ११, खलीनमिव-कविकमिव रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति खलीनदोषः १२, वाऽत्र समुच्चये, अन्ये खलीनार्त्तवाजिवदूर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः ॥ २५७ ॥ तथा 'भामेईत्यादि, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमण दिग्निरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः १३, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जबादि मध्ये कृत्वा . तिष्ठत्युत्सर्ग इति कपित्थदोषः १४ एवमेव मुष्टिं बध्वा स्थानमित्यन्ये ॥ २५८ ॥ 'सीसमि'त्यादि, भूताविष्टस्येव शीर्ष कम्पयतः कायोत्सर्गकरणं शीर्षोत्कम्पितदोषः १५ तथा कायोत्सर्गे छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासन्नप्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मूक इव हुँहुमित्यव्यक्तं शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः १६ ॥ २५९ ॥ 'अंगुली'त्यादि, तथाऽऽलापकगणनार्थमङ्कलीचालयन् तथा योगानां संस्थापनार्थ व्यापारान्तरनिरूपणार्थ भ्रुवौ चालयन् भ्रसंज्ञा कुर्वन् चकारादेवमेव वा भ्रूनृत्तं कुर्वनुत्सर्गे तिष्ठति इति अङ्कुलिकाभ्रूदोषः १७ ॥ २६० ॥ तथा 'काउस्सग्गंमी'यादि, कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्द-अव्यक्ताऽऽरावं करोतीति, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८, अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयनुत्सगेस्थितो वानर इव चालयत्योष्ठपुटाविति प्रेक्षादोषः १९ इत्येकोनविंशतिः ॥२६१ ॥ अन्ये त्वेकविंशतिं मन्यन्ते, तत्र स्तम्भकुड्यदोषेण स्तम्भदोषः कुड्यदोषश्चेति (प्रन्थानम् २०००) द्वौ विवक्षितौ, तथाऽजलिभ्रूदोषेणापि अङ्गुलिदोपो भूदोषश्चेत्येवमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेन्यूनो, वयोऽपेक्षाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योधमः परः ॥२॥ कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिः' । इति ॥ इदानीमेतानुपसंहरन्नाह-एए'इत्यादि, एते-पूर्वभणिता दोषाः कायोत्सर्ग कुर्वता विबुधेन सम्यक परिहर्तव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धा-निवारिता इतिकृत्वा, जिनाज्ञाकरणं हि सर्वत्र श्रेयस्करमिति ॥ २६२ ॥ अयं च कायोत्सर्ग एतैयोतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, तथाहि-'अगणिओ छिंदिज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥१॥ यदाऽमेर्विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिमहणेऽपि न भक्तः, ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमे 40.

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310