________________
कोउं ॥२५७ ॥ भामेइ तह य दिढि चलचित्तो वायसोव्व उस्सग्गे । छप्पइयाण भएणं कुणइ य पदं कविढे ३ ॥ २५८ ॥ सीसं पकंपमाणो जक्खाइटोव्व कुणइ उस्सग्गं । मूउव्व हूहुयंतो तहेव छिजंताईसु ॥ २५९ ॥ अंगुलिभमुहाओऽवि अ चालितो कुणइ तह य उस्सग्गं । आला. वगगणणहूं संठवणत्थं च जोगाणं ॥ २६०॥ काउस्सग्गंमि ठिओ सुरा जहा बुडबुडेइ अव्वत । अणुपहंतो तह वानरोव्व चालेइ ओट्टपुडे ॥२६१॥ एए काउस्सग्ग कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिसिद्धत्तिकाऊणं ॥ २६२॥ 'घोडगे'त्यादि गाथाद्वयं, तत्रैते कायोत्सर्गे भवंति दोषा एकोनविंशतिरिति सण्टङ्कः, कायस्य-शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छुसितादिभ्यः क्रियांतराध्यासमाश्रित्य य उत्सर्गः-त्यागो 'नमोऽरिहंताण'मिति वचनात् पूर्व स कायोत्सर्गः, स च द्वेधा-चेष्टायामभिभवे च, चेष्टायां-गमनागमनादौ ऐर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थ, यदुक्तम्-"सो उस्सग्गो दुविहो चेट्ठाइ अभिभवे य नायव्वो। मिक्खायरिआइ पढमो उवसग्गभिजुंजणे बीओ ॥१॥" ति[स उत्सर्गो द्विविधः चेष्टायाममिभवे च ज्ञातव्यः भिक्षाचर्यादिषु प्रथमः उपसर्गामियोजने द्वितीयः ॥ १॥] स च दोषरहितो विधीयमानो निर्जराहेतुर्भवति, दोषाश्चैते-घोटकलतास्तम्भकुड्यमालशबरीवधूनिगडलम्बोत्तरस्तनोद्धिकासंयतीखलीनवायसकपित्थशीर्वोत्कम्पितमूकअङ्गुलीभृकुटिवारुणीप्रेक्षा इत्येकोनविंशतिः॥२४७-२४८॥ इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-'आस'इत्यादि, आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः १ कम्पते कायोत्सर्गे लतेव खरपवनसङ्गेनेति लतादोषः २ ॥ २४९॥ 'खंभे इत्यादि, स्तम्भे वा कुड्ये वा अवष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ तथा माले-उपरितनभागे उत्तमानमवष्टभ्य करोत्युत्सर्गमिति मालदोषः ४ ॥ २५० ।। 'सबरी'त्यादि, शबरी-पुलिन्दिका वसनविरहिता कराभ्यां सागारिकं-गुह्यं यथा स्थगयति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोत्युसर्गमिति शबरीदोषः ५॥ २५१॥ 'अवणे'त्यादि, अवनामितोत्तमाङ्गः कुलवधुरिव तिष्ठन् करोत्युत्सर्गमिति वधूदोषः ६ निगडनियत्रित इव चरणौ विस्तार्याथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोषः ७ ॥ २५२ ॥ 'काऊणे'त्यादि, कृत्वा चोलपट्टमविधिना नामिमण्डलस्योपरि अधस्ताच जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः ८ ॥ २५३ ॥ 'पच्छाईत्यादि, अवच्छाद्य-स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थ अथवा अनाभोगदोषेण-अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ९ ।। २५४ ।। ऊलिकादोषो द्विधा-बाहोलिकादोषोऽभ्यन्तरोविकादोषश्च, तत्र द्वावपि क्रमेण आह-'मेलित्तु'इत्यादि, मीलयित्वा पाणी चरणावप्रभागे विस्तार्य बाह्यतो-बहिर्मुखं तिष्ठत्युत्सर्गे एष, बहिःशकटोलिकादोषो ज्ञातव्यः ॥ २५५॥ तथा 'अंगुट्टे'त्यादि, अङ्गुष्ठौ द्वावपि मेलयित्वा विस्तार्य पाणी तु बायतस्तिष्ठत्युत्सर्गे एष भणितोऽभ्यन्तरशकटोलिकादोषः१० ॥२५६।। 'कप्पमित्यादि, कल्पं वा-पट्टी पट्टं वा-चोलपढें संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्गे इति संयतीदोषः ११, खलीनमिव-कविकमिव रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति खलीनदोषः १२, वाऽत्र समुच्चये, अन्ये खलीनार्त्तवाजिवदूर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः ॥ २५७ ॥ तथा 'भामेईत्यादि, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमण दिग्निरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः १३, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जबादि मध्ये कृत्वा . तिष्ठत्युत्सर्ग इति कपित्थदोषः १४ एवमेव मुष्टिं बध्वा स्थानमित्यन्ये ॥ २५८ ॥ 'सीसमि'त्यादि, भूताविष्टस्येव शीर्ष कम्पयतः कायोत्सर्गकरणं शीर्षोत्कम्पितदोषः १५ तथा कायोत्सर्गे छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासन्नप्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मूक इव हुँहुमित्यव्यक्तं शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः १६ ॥ २५९ ॥ 'अंगुली'त्यादि, तथाऽऽलापकगणनार्थमङ्कलीचालयन् तथा योगानां संस्थापनार्थ व्यापारान्तरनिरूपणार्थ भ्रुवौ चालयन् भ्रसंज्ञा कुर्वन् चकारादेवमेव वा भ्रूनृत्तं कुर्वनुत्सर्गे तिष्ठति इति अङ्कुलिकाभ्रूदोषः १७ ॥ २६० ॥ तथा 'काउस्सग्गंमी'यादि, कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्द-अव्यक्ताऽऽरावं करोतीति, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८, अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयनुत्सगेस्थितो वानर इव चालयत्योष्ठपुटाविति प्रेक्षादोषः १९ इत्येकोनविंशतिः ॥२६१ ॥ अन्ये त्वेकविंशतिं मन्यन्ते, तत्र स्तम्भकुड्यदोषेण स्तम्भदोषः कुड्यदोषश्चेति (प्रन्थानम् २०००) द्वौ विवक्षितौ, तथाऽजलिभ्रूदोषेणापि अङ्गुलिदोपो भूदोषश्चेत्येवमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेन्यूनो, वयोऽपेक्षाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योधमः परः ॥२॥ कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिः' । इति ॥ इदानीमेतानुपसंहरन्नाह-एए'इत्यादि, एते-पूर्वभणिता दोषाः कायोत्सर्ग कुर्वता विबुधेन सम्यक परिहर्तव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धा-निवारिता इतिकृत्वा, जिनाज्ञाकरणं हि सर्वत्र श्रेयस्करमिति ॥ २६२ ॥ अयं च कायोत्सर्ग एतैयोतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, तथाहि-'अगणिओ छिंदिज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥१॥ यदाऽमेर्विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिमहणेऽपि न भक्तः, ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमे
40.