SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वाविशिष्टं कायोत्सर्गमानं क्रियते किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्वं नमस्कारमभणित्वा पारयतो भङ्गः, अपरिसमाप्तौ च पठतोऽपि भङ्ग एव, तस्मात् यो यत्परिमाण: कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहंताण' मिति वक्तव्यं, तथा मार्जारमूषकादेः पुरोगमनेऽग्रतः सरतोऽपि न भङ्गः, तथा राजसम्भ्रमे चौरसंभ्रमे वाऽस्थानेऽपि नमस्कारमुच्चारयतो न भङ्गः, तथा सर्पदष्टे आत्मनि परे वा साध्वादौ सहसा उच्चारयतो न भङ्ग इति । इदानीं 'चउवीससमहियसयं गिहिपडिक्कमणाइयाराण' मिति षष्ठं द्वारं विवृण्वन्नाह पण संलेहेण पन्नरस कॅम्म नाणाइ अट्ठ पत्तेयं । बारस तंव विरियतिगं पण सम्म वयाइं पत्तेयं ॥ २६३ ॥ इहपरलोयासंसप्पओग मरणं च जीविऑसंसा | कामे भोगे व तेहा मरणंते पंच अइआरा ।। २६४ ॥ 'पणे 'त्यादि, पञ्च संलेखनायां अतीचारा इति सर्वत्र योज्यं, पंचदश 'कम्म'त्ति कर्मादानानि, ज्ञानादिषु - ज्ञानदर्शनचारित्रेषु अष्टौ प्रत्येकमित्यष्टकत्रयस्य मीलने चतुर्विंशतिः भवंति विंशतिक्षिप्तेषु जाताश्चत्वारिंशत् ४४ द्वादश तपसि - तपोविषये, लुप्तसप्तमीकमिदं द्रष्टव्यं चतुश्चत्वारिंशत्मध्ये द्वादशसु क्षिप्तेषु षट्पश्वाशज्जातानि वीर्यत्रिके - मनोवचनकायवी र्यलक्षणे, अत्र सप्तम्यर्थे प्रथमा, वीर्यत्रिके क्षिप्ते एकोनषष्टिः जाताः तथा सम्यक्त्वे पश्वातीचाराः, तथा व्रतानि - अणुव्रतादीनि द्वादश तेषु प्रत्येकं पश्व पश्चातीचारा इति व्रतेषु षष्टिः, एते च सर्वे मिलिताश्चतुर्विंशत्यधिकं शतं ॥ २६३ ॥ इदानीं क्रमेणैव सर्वानेतान् स्वयमेव व्याचष्टे – 'इहपरलोए'त्यादि, आशंसनमाशंसा-अभिलाषः तस्याः प्रयोगो-व्यापारणं करणमाशंसाप्रयोगः, आशंसैव वा प्रयोगो-व्यापार आशंसाप्रयोगः, तत्र इह-अस्मिन् प्रज्ञाप कमनुष्यापेक्षया मानुषत्व पर्याये यो वर्तते लोकः - प्राणिवर्गः स इहलोकः तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा - अनेनाऽऽराधनादिकष्टेन मृतः सनुन्मत्तद्विपघटोद्भटतरलतरतुंगतुरङ्गराजीविराजमानसुन्दरमन्दुराशतकान्तः काञ्चननिस्सपत्नरत्नोद्दण्डमणिखण्डप्रमुखमहासमृद्धिसम्भारविनिर्जितवैश्रमणकोशः क्षितिपतिर्विशुद्धबुद्धिरमात्यो वा ज्येष्ठः श्रेष्ठी वा जन्मान्तरे अहं भवेयमित्येवं नरप त्यादिसमृद्धिप्रार्थना १ तथा परलोकाशंसाप्रयोगः - कमनीयकामिनीनयननलिननिपीयमानलसल्लावण्यपुण्यपीयूषः सुरपतिरहं स्यां देवो वा इत्यादिप्रार्थना २ तथा मरणं प्रत्याशंसाप्रयोगः तथाविधप्रान्तक्षेत्रप्रतिपन्नानशनो लोकैः क्रियमाणप्रभावनाकारिपूजाद्यभावे गाढतररोगपीडायां वा यद्यहं झटित्येव म्रिये तदा भव्यं भवेदिति प्रार्थना ३ तथा जीवितं प्राणधारणं तदाशंसायाः - तदभिलाषस्य प्रयोगो, यथा - बहुकालमहं जीवेयमिति, अयं हि कृतानशनः कश्चित् कर्पूरश्रीचन्दनवस्त्रमाल्यधवलरासकादिविशिष्टपूजादर्शनाद् बहुपरिवारावलो - कनान्निरन्तरागच्छतुच्छजननिकरेण धन्योऽयं पुण्यवानित्यादिक्रियमाणश्लाघाश्रवणात् सङ्घादिधार्मिकजनोपबृंहणाञ्चैवं मन्यते, यथाप्रतिपन्नानशनस्यापि चिरतरं जीवितमेव मे श्रेयः यत एवंविधा मदुद्देशेन शासनप्रभावना विभूतिश्च वर्तत इति ४ तथा कामौ - शब्दरूपे भोगाः-गन्धरसस्पर्शास्तेषामाशंसा, यद्यनेन कष्टाराधनाविधिना मम जन्मान्तरे विशिष्टाः कामभोगाः सम्पद्यन्ते तदा भव्यं भवतीत्यादि - विकल्परूपा, एते मरणान्ते पश् चातीचाराः ५, एतैः समयविधिकृताऽप्याराधना दूष्यत इति न कर्तव्या एवंविधा आशंसाः, यत उक्तम् —“आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १ ॥ " 'पन्नरस कम्म'त्ति व्याख्यायते, तत्राह 1 Preet hडी साडी वैणअंगारस्सरूवकम्माई । वाणिज्जाणि अ विसंलक्ख दंतर सेके संविसयाणि ॥ २६५ ॥ दवदीण जंतवाहेण निल्लछैण असहपोर्सेसहियाणि । सजलासयसोसाणि अ कम्माइँ हवंति पन्नरस ॥ २६६ ॥ - 'भाडी' त्यादि गाथाद्वयम्, तत्र भाटककर्म यत् स्वकीयगध्यादिना परकीयभाण्डं भाटकेन वहति अन्येषां वा बलीवर्दशकटादीन् भाटकेनैवार्पयति, यदाहुः - " नियएणुवगरणेणं परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा वसहाइसमप्पणेऽन्नेसिं ॥१॥ [ निजकेनोपकरणेन परकीयं भाटकेन यो वहति । तत् भाटककर्म अथवा वृषभादिसमर्पणेऽन्येषां ॥ १ ॥ ] १ ॥ 'फोडि'त्ति स्फोटनकर्म—वापीकूपतडागादिखननं यद्वा हलकुद्दालादिना भूमिदारणं पाषाणादिघट्टनं वा, यवादिधान्यानां सत्त्वादिकरणेन विक्रयो वा, यदुक्तं—“जवचणयागोहुममुग्गमासकरडिप्पभिइधन्नाणं । सत्तुयदालिकणिक्कातंडुलकरणाई फोडणयं ॥ १ ॥ अहवा फोडीकम्मं सीरेणं भूमिफोडणं जं तु । उण्डत्तणयं च तहा तहा य सिलकुट्टयत्तं चे ॥ २ ॥ ति” [ यवचणकगोधूममुद्गमाषकर टिप्रभृतिधान्यानां सक्कदालिकणिक्कातन्दुलकरणानि स्फोटनकर्म ॥ १ ॥ अथवा स्फोटनकर्म हलेन भूमिस्फोटनं यत्तु । सूडनं च तथा तथा च शैलकुट्टकत्वं च ॥ २ ॥] २ ॥ ‘साडी’ति शकटकर्म, शकटानां तदङ्गानां च चक्रेोर्ध्यादीनां स्वयं परेण वा वृत्तिनिमित्तं निष्पादनं विक्रयो वाहनं वा, यदाहुः — “ शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्त्तिता ॥ १ ॥ ३ ॥ ' वण'त्ति वनकर्म यत् छिन्नानामच्छिन्नानां च तरुखण्डानां पत्राणां पुष्पाणां फलानां च विक्रयणं वृत्तिकृते तद्वनकर्म, यच्चात्र स्फोटकर्मत्वेनोक्तं मुद्रादिकणानां घरट्टादिना द्वैधीकरणं दाल्यादिरूपं गोधूमादीनां च घरट्टशिलापुत्रकादिना चूर्णीकरणं पिष्टकादिरूपं तदपि वनकर्मेति केचिन्मन्यन्ते, यदाहुः—– “छिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयात् । कणानां दलनोत्पेषात्, वृत्तिश्च वनजीविका ॥ १ ॥ ४ ॥ ' अंगार'ति अङ्गारकर्म - यदङ्गारक 41
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy